गुजरातराज्यस्य प्रसिद्धानि मन्दिराणि

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

गुजरातराज्यस्य प्रसिद्धानि मन्दिराणि (आङ्ग्ल: Popular Temples of Gujarat) एव अत्र उल्लिखितानि । गुजरातराज्यस्य जनाः धार्मिकमनोवृत्तिमन्तः । यदा वयं कञ्चित् गुजराती-जनं मिलामः तदा अयम् अनुभवः अस्माकं मनसि जायते । अधिकसङ्ख्याकाः गुजराती-जनाः 'हलो' इत्यस्य आङ्ग्लभाषा-पदस्य स्थाने 'जय श्री कृष्ण, जय भोले, जय स्वामिनारायण' इत्यादिपदानां प्रयोगं कुर्वन्ति इत्येतत् अत्र निदर्शनम् । अधिकेषु गुजराती-गृहेषु प्रातः, सायं च पूजा अवश्यं भवति । सर्वेऽपि कुटुम्बसदस्याः पूजायाम् उपस्थिताः सन्तः भगवतः प्रार्थनां कुर्वन्ति, भक्तिगीतानि च गायन्ति । एवं गृहे भक्तिमयं वातावरणं निर्मान्ति । न केवलम् एतत्, देवालयगमनम् अपि गुजराती-जनानां दैनन्दिनं कार्यम् । अतः गुजरातराज्ये नैकानि पौराणिकानि मन्दिराणि सन्ति येषाम् आध्यात्मिकम्, ऐतिहासिकं च महत्वं वर्तते । यद्यपि तादृशानि बहूनि मन्दिराणि गुजरातराज्ये सन्ति, तथापि तेषु मन्दिरेषु प्रसिद्धानां मन्दिराणां परिचयः अत्र दीयते ।

१) सोमनाथमन्दिरम्[सम्पादयतु]

सोमनाथमन्दिरम्

भारते विद्यमानेषु द्वादशसु ज्योतिर्लिङ्गेषु सोमनाथशिवलिङ्गम् अन्यतमं, बृहत्तमं च अस्ति । गुजरातराज्यस्य जुनागढ इत्यस्मात् नगरात् नवसप्तति(७९)किलोमीटर्परिमितिदूरे वेरावल इत्यस्य नगरस्य समीपे अरब्बीसागरस्य तीरे इदं मन्दिरं तिष्ठति । इदं मन्दिरं बहु पुरातनं वर्तते । अस्य मन्दिरस्य कश्चन पौराणिकः इतिहासः अपि अस्ति यत् सर्वप्रथमं चन्द्रः इदं मन्दिरं स्वर्णेन निर्मापितवान् आसीत् यस्य ध्वंसानन्तरं रावणः रजतेन मन्दिरस्य पुनर्निर्माणं कारितवान् आसीत्, अस्यापि ध्वंसानन्तरं विष्णुः चन्दनकाष्ठैः अस्य मन्दिरस्य पुनर्निर्माणं कारितवान् आसीत् इति । तदनन्तरमपि अस्य मन्दिरस्य ध्वंसः, पुनर्निर्माणं च बहुवारं जातम् अस्ति । आहत्य, सप्तदशवारम् अस्य मन्दिरस्य ध्वंसः कृत: आसीत् इति उल्लेखोऽस्ति । अस्मिन् मन्दिरे यत् ज्योतिर्लिङ्गम् अस्ति तत् भारते विद्यमानेषु सर्वेष्वपि ज्योतिर्लिङ्गेषु बृहत्तमम् अस्ति इति प्रतीतिः । इदानीं यत् मन्दिरं स्थितं विद्यते, अस्य मन्दिरस्य निर्माणं भारतदेशस्य स्वातन्त्र्यप्राप्त्यनन्तरं सरदार वल्लभभाई पटेलमहाभागेन कारितमस्ति । १९५१ तमस्य वर्षस्य 'मे' मासस्य ११ दिनाङ्के भारतस्य प्रथमः राष्ट्राध्यक्षः राजेन्द्रप्रसादः अस्मिन् मन्दिरे ज्योतिर्लिङ्गस्य स्थापनां कृतवान् । इदानीम् अत्र 'लैट् एण्ड् सौण्ड् इफेक्ट्' व्यवस्था कृता वर्तते यस्मिन् सोमनाथमन्दिरस्य, सोमनाथस्य च सम्पूर्णः इतिहासः वर्ण्यते ।

२) गिरनारमन्दिरम्[सम्पादयतु]

गिरनारपर्वततले भवनाथमन्दिरम्

गुजरातराज्यस्य अहमदाबाद इत्यस्मात् महानगरात् ३२७ किलोमीटर्परिमिते दूरे जुनागढ इत्यस्मिन् नगरे इदं मन्दिरं तिष्ठति । गुजरातराज्ये विद्यमानेषु धार्मिकस्थलेषु इदम् अन्यतमम् । इदं स्थलं हिन्दूनां, जैनानाञ्च बहु महत्वपूर्णम् अस्ति । गिरनारपर्वते बहूनि मन्दिराणि सन्ति । जैनमन्दिरेषु दृश्यमाना शिल्पकला नयनमनोहरा अस्ति । गिरनारपर्वते 'दरगाह' अपि अस्ति इत्यतः मुसल्मानाः अपि तत्र गच्छन्ति ।

इतिहासः[सम्पादयतु]

गिरनारपर्वते विद्यमानेषु जैनमन्दिरेषु अन्यतमम् अस्ति नेमिनाथस्य मन्दिरम् । अस्य मन्दिरस्य निर्माणं ११२८ तः ११५९ पर्यन्तं जातम् आसीत् । नेमिनाथः द्वाविंशतितमः (२२) जैनतीर्थङ्करः आसीत् । स्वस्य विवाहे यदा तेन जनैः पशुमांसभक्षणं दृष्टं, तदा एव तेन तपः आचरणीयम् इति कश्चन दृढसङ्कल्पः कृतः । नेमिनाथः अस्मिन् स्थले तपः कृत्वा केवलज्ञानं, मोक्षं च प्राप्तवान् । तस्य भार्या अपि भर्तु: मार्गे एव अग्रे गच्छन्ती स्त्रीभ्यः 'साध्वीसङ्घ:' इति कञ्चन सङ्घं प्रतिष्ठापितवती । मन्दिरे विद्यमानः नेमिनाथमूर्तिः 'ग्रेनैट्'-तः निर्मिता अस्ति । मूर्तेः द्वे नेत्रे वज्रशोभिते । अस्मिन् मन्दिरे नृत्यमुद्रायाम् अनेकाः मूर्तयः सन्ति । गिरनारपर्वते एव नवदशस्य (१९) जैनतीर्थङ्करस्य मालीनाथस्य मन्दिरमप्यस्ति । वास्तुपालतेजपालौ इदं मन्दिरं निर्मापितवन्तौ । अस्मिन्नेव पर्वते चतुर्विंशतितमस्य (२४) जैनतीर्थङ्करस्य मन्दिरम् अपि अस्ति । अस्मिन् पर्वते पार्श्वनाथस्य मन्दिरमपि अस्ति यस्य निर्माणं पञ्चदशे (१५) शतके जातम् ।

३) अम्बामातामन्दिरम्[सम्पादयतु]

गिरनारपर्वतशिखरे अम्बामातामन्दिरम्

अम्बामातामन्दिरं जुनागढ इत्येतन्नगरस्थे गिरनारपर्वते अस्ति । अस्य मन्दिरस्यापि ऐतिहासिकं, धार्मिकं च महत्वं वर्तते । सहस्रशः सङ्ख्याकाः श्रद्धालवः भक्ताः मातुः दर्शनार्थम् इदं मन्दिरं गच्छन्ति ।

इतिहासः[सम्पादयतु]

द्वादशे (१२) शतके अस्य मन्दिरस्य निर्माणं जातम् आसीत् । विशेषतया नवदम्पती सुखवैवाहिकजीवनार्थं मातुः आशीर्वादं स्वीकर्तुम् इदं मन्दिरं गच्छन्ति । अस्मिन् मन्दिरे अम्बामातुः पादचिह्नमपि अस्ति । अस्मिन् मन्दिरे एकं स्वर्णमयं यन्त्रम् अस्ति यस्योपरि अम्बामातुः स्तुतिपूर्वकाः एकपञ्चाशत् (५१) श्लोकाः सन्ति । नवरात्र्युत्सवसमये अस्मिन् मन्दिरे विशेषपूजा भवति यस्यां सहस्रशः जनाः भागं गृह्णन्ति ।

४) द्वारकाधीशमन्दिरम्[सम्पादयतु]

द्वारकाधीशमन्दिरं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे जामनगरमण्डले अरब्बीसमुद्रतीरे स्थितम् अस्ति । इदं मन्दिरं भगवते श्रीकृष्णाय समर्पितम् अस्ति । भारते विद्यमानेषु पुण्यक्षेत्रेषु द्वारका अन्यतमा ।

५) मोढेरा सूर्यमन्दिरम्[सम्पादयतु]

मोढेरा सूर्यमन्दिरम्

गुजरातराज्यस्य अहमदाबाद इत्यस्मात् महानगरात् १०२ किलोमीटर्दूरे मोढेरा इत्यस्मिन् पत्तने पुष्पावतीनद्याः तीरे इदं मन्दिरं तिष्ठति ।

इतिहासः[सम्पादयतु]

१०२६-२७ तमे वर्षे राजा भीमदेव सोलङ्की इदं मन्दिरं निर्मापितवान् आसीत् । इदं मन्दिरं सूर्यदेवाय समर्पितम् अस्ति । इदं मन्दिरं स्कन्दपुराणस्य, ब्रह्मपुराणस्य च उपरि आधारितम् अस्ति । अस्य मन्दिरस्य रचनाशैली विशिष्टा वर्तते । सूर्योदयसमये सूर्यस्य प्रथमः किरणः मन्दिरस्थितं सूर्यमूर्तिं यथा स्पृशेत् तथा अस्य मन्दिरस्य निर्माणं कृतम् आसीत् । मोहम्मद गजनी अत्रस्थं सूर्यमूर्तिं चोरितवान् । अतः मन्दिरं मूर्तिरहितं जातम् । इदं मन्दिरं त्रिधा विभक्ता अस्ति । तद्यथा -

सूर्यकुण्डः[सम्पादयतु]

मन्दिरस्य प्राङ्गणे सूर्यकुण्डः विद्यते । सूर्यनारायणस्य नाम्ना एव कुण्डस्यास्य नाम सूर्यकुण्डः इति । प्राक् अस्य कुण्डस्य उपयोगः जलपूरणार्थम् आसीत् येन जलेन स्नात्वा भक्ताः मन्दिरं प्रविशन्ति स्म । अयं कुण्डः १०८ देवेभ्यः समर्पितः अस्ति । अस्य कुण्डस्य पुरतः बृहत् मण्डपम् अस्ति ।

शुभमण्डपम्[सम्पादयतु]

श्रद्धालवः भक्ताः अत्र उपविश्य धार्मिकविचाराणां चर्चां कुर्वन्ति । अस्मिन् मण्डपे ५२ स्तम्भाः सन्ति येषाम् उपरि रामायणस्य, महाभारतस्य च कथावर्णनं चित्रमाध्यमेन कृतम् अस्ति ।

गुडामण्डपम्[सम्पादयतु]

इदं मण्डपं कमलपुष्पाकारे दृश्यते । इदमेव मन्दिरस्य गर्भभागः । गर्भभागस्य भित्तिकानाम् उपरि मनुष्यस्य जन्म-तः आरभ्य मरणपर्यन्तं यत् जीवनचक्रम् अस्ति तत् वर्णितम् अस्ति ।

उत्सवः[सम्पादयतु]

अत्र प्रतिवर्षं 'जनवरी'मासस्य तृतीये सप्ताहे मोढेरा नृत्योत्सवः भवति । अस्मिन् उत्सवे भारतीयपारम्परिकसंस्कृतेः वर्णनं क्रियते । गुजरातप्रवासनिगमः अस्य उत्सवस्य आयोजनं करोति ।

६) रणछोडरायमन्दिरम्[सम्पादयतु]

रणछोडरायमन्दिरम्

गुजरातराज्यस्य अहमदाबाद इत्यस्मात् महानगरात् ९४ किलोमीटर्दूरे खेडामण्डलस्य डाकोरनामके पत्तने इदं मन्दिरम् अस्ति । डाकोर इत्येतत् पत्तनं पूर्वम् एकः लघुग्रामः आसीत् यदिदानीं बहु विकसितम् अस्ति । रणछोडरायमन्दिरम् अपि प्राक् लघु आसीत् किन्तु इदानीं बृहदाकारेण तिष्ठति । इदं मन्दिरं श्री गोपालराव जगन्नाथ तुम्बवेकर १७७२ तमे वर्षे निर्मापितवान् आसीत् । इदं मन्दिरं चतुरस्राकारेण निर्मितम् अस्ति । अस्य मन्दिरस्य चत्वारि प्रवेशद्वाराणि सन्ति । मुख्यद्वारं गोमतीनद्याः पुरस्तात् अस्ति । मध्याह्ने/अपराह्ने मन्दिरस्य द्वाराणि पिहितानि भवन्ति यतः मध्याह्नकालः/अपराह्नकालः भगवतः विश्रान्तिसमयः । मन्दिरस्य गर्भगृहस्य पार्श्वे एव एकः शयनकक्षः निर्मितम् अस्ति यस्मिन् भगवान् विश्रान्तिं स्वीकरोति ।

इतिहासः[सम्पादयतु]

एवं प्रतीतिः अस्ति यत् जरासन्धेन सह युद्धसमये भगवान् श्रीकृष्णः युद्धभूमेः पलायनं कृतवान् येन कारणेन अस्य मन्दिरस्य नाम रण-छोड-राय इति जातम् । एवमपि श्रूयते यत् भोलेनाथनामकः कश्चन भगवद्भक्तः भगवतः दर्शनार्थं डाकोर-तः द्वारकां गच्छति स्म । वार्धक्ये अपि सः महता परिश्रमेण भगवद्दर्शनार्थं द्वारकां गच्छति स्म । तस्य कष्टं दृष्ट्वा भगवता निर्णीतं यत् भक्तानां कष्टदूरीकरणार्थं तेन अत्र स्थातव्यम् इति । तथैव स्वीयनिर्णयानुसारम् अत्र समागत्य स्थितोऽस्ति भगवान् श्रीकृष्णः । अत्र शरद्पूर्णिमादिने एकः विशेषः उत्सवः भवति ।

७) पावागढमन्दिरम्[सम्पादयतु]

पावागढपर्वतशिखरे महाकालीमन्दिरम्

गुजरातराज्यस्य अहमदाबाद इत्यस्मात् महानगरात् १९० किलोमीटर्दूरे पञ्चमहलमण्डले इदं मन्दिरम् अस्ति ।

इतिहासः[सम्पादयतु]

पावागढपर्वतः ४२ किलोमीटर्परिमितः विस्तृतः पर्वतः अस्ति । अस्य पर्वतस्य शिखरे महाकालीमन्दिरम् अस्ति । २५० सोपानानि आरुह्य मन्दिरं प्राप्तुं शक्यते । पावागढपर्वते शुद्धवायुः, प्राकृतिकसौन्दर्यं च वर्तते इत्यतः गुजरातराज्यसर्वकारेण अयं पर्वतः 'हिल्-रिसोर्ट्' रूपेण विकासितोऽस्ति । पर्वतारोहणसमये यात्रिकाणां सौकर्यार्थं विश्रामस्थानानि सन्ति । सर्वप्रथमं १४७१ 'फीट्' उपरि 'माची-हवेली' इत्येतदस्ति । इदं स्थानं राज्यसर्वकारस्य बस्-यानैः अपि प्राप्तुं शक्यते । अस्मिन् स्थले तेलियातडागः/दूधियातडागः अपि अस्ति । 'माची-हवेली'तः 'रोप्-वे' द्वारा शिखरे विद्यमानं मन्दिरं प्राप्तुं शक्यते । पर्वतारोहणसमये अन्यानि लघु विश्रान्तिगृहाण्यपि सन्ति । पर्वतशिखरे 'आदनशाह दरगाह' अपि अस्ति इत्यतः अत्र अनेकमुसल्मानाः अपि गच्छन्ति । अस्य पर्वतस्य समीपे एव विद्यमाने कस्मिंश्चित् ग्रामे प्रसिद्धः सङ्गीतज्ञः बैजू-बावरा जन्म प्राप्तवान् आसीत् ।

८) जयजलारामबापामन्दिरम्[सम्पादयतु]

जलारामबापा
Jalaram Bapa Idol.JPG
जन्म १४ नवम्बर् १७९९
वीरपुरम्, गुजरातराज्यम्, भारतम्
मृत्युः २३ फेब्रुवरी १८८१
वीरपुरम्, गुजरातराज्यम्, भारतम्
भार्या(ः) वीराबाई
पितरौ राजाबाई, प्रधान ठक्कर्

गुजरातराज्यस्य राजकोट इत्यस्मात् महानगरात् ५२ किलोमीटर्दूरे, ८-बी राष्ट्रियराजमार्गे, वीरपुरे इदं मन्दिरम् अस्ति ।

इतिहासः[सम्पादयतु]

श्री जलारामबापा इत्यस्य जन्म १४ 'नवम्बर्' १७९९ दिने वीरपुरे जातम् आसीत् । तस्य मातुः नाम राजाबाई, पितुः नाम प्रधान ठक्कर् आसीत् । राजाबाईप्रधानठक्कर इत्येतयोः त्रयः पुत्राः, तिस्रः पुत्र्यः च आसन् । प्रधान ठक्कर्, तस्य भ्राता वेलजी ठक्कर् उभावपि कुटुम्बपोषणार्थं धनार्जने व्यस्तौ आस्ताम् । राजाबाई धर्मनिष्ठा, साधुसन्तानां सेवातत्परा च आसीत् । एकदिनं साधुरघुवीरदास राजाबाई इत्येनाम् अवदत् तस्याः द्वितीयः पुत्रः जलाराम बहु प्रसिद्धः भविष्यति इति । सः तस्मै द्वितीयपुत्राय आशीर्वादमपि दत्तवान् । यदा जलाराम चतुर्दशवर्षीयः आसीत् तदा तस्य पितरौ वीराबाई इत्यनया सह तस्य विवाहनिश्चयं कृतवन्तौ । यद्यपि जलाराम विवाहविषये स्वस्य विरोधं प्रकटितवान् तथापि वर्षद्वयानन्तरं तस्य षोडषे वर्षे तया कन्यया सह एव तस्य विवाहः जातः । विवाहानन्तरम् अपि जलाराम अधिकं समयं साधुसन्तैः सह एव यापयन् आसीत् । गृहस्थाश्रमे तस्य इच्छा एव नासीत् । यदा सः विंशतिवर्षीयः जातः तदा एव सः बहु प्रसिद्धः अभवत् । तस्य आशीर्वादेन जनानां दुःखं दूरं भवत् आसीत् इत्यतः जनाः तं देवत्वेन परिगणितुम् आरब्धवन्तः आसन् । जनाः तं बापा इति आह्वयितुम् आरब्धवन्तः आसन् । 'बापा' इत्यस्य शब्दस्य सर्वेषां पिता इति अर्थः । एवं तस्य नाम जलारामबापा इति अभवत् । १८७९ वर्षे तस्य पत्न्याः निधनम् अभवत् । वर्षद्वयानन्तरं १८८१ वर्षे जलारामबापा प्रार्थनां कुर्वन् देहत्यागं कृतवान् । इदानीमपि जनाः एवं मन्यन्ते यत् स्वस्य भक्तानां बुभुक्षायाः शमनं कर्तुं, तेषां दुःखं च दूरीकर्तुं जलारामबापा मन्दिरे स्थितोऽस्ति इति । मन्दिरे प्रतिदिनं भक्तेभ्यः अन्नदानं भवति ।

९) अक्षरधाम[सम्पादयतु]

अक्षरधाम

अक्षरधाम इति इदं मन्दिरं गान्धिनगरे अस्ति । इदं मन्दिरं १९९२ तमे वर्षे संस्थापितम् । इदं मन्दिरं भगवान्स्वामिनारायणाय समर्पितम् अस्ति । स्वामिनारायणः १८०१ तमे वर्षे स्वमिनारायणसंप्रदायम् आरब्धवान् आसीत् । अस्य मन्दिरस्य परिसरः २३ प्रहेलविस्तृतः अस्ति । अस्य मन्दिरस्य निर्माणे पारम्परिकपाषाणकलायाः उपयोगः कृतः अस्ति । अस्य मन्दिरस्य निर्माणे 'सिमेण्ट्'-उपयोगः न कृतः एव । अस्मिन् मन्दिरे ९३ स्तम्भाः, ४० वातायनानि च सन्ति येषाम् उपरि सूक्ष्मकला चकास्ति । मन्दिरस्य त्रयः मुख्यभागाः सन्ति । ते - हरिमण्डपं, विभूतिमण्डपं, प्रणादिमण्डपञ्चेति ।