पेरम्बलूरुमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पेरम्बलूर् मण्डलः इत्यस्मात् पुनर्निर्दिष्टम्)
पेरम्बलूर् मण्डलम्

பெரம்பலூர் மாவட்டம்
मण्डलम्
Bramma Rishi Hill
Bramma Rishi Hill
देशः  India
State तमिऴ्नाडु
केन्द्रम् पेरम्बलूर्
Government
 • Collector & District Magistrate डा॥ दारेज़् अहमद्, IAS]]
Area
 • Total १,७५२ km
Population
 (2011)[१]
 • Total ५,६४,५११
 • Density ३२०/km
भाषाः
 • Official तमिळ्
Time zone UTC+5:30 (IST)
पत्राचार सङ्केतसंख्या(PIN)
621220
दूरवाणी सम्पर्क संख्या 04328
Vehicle registration TN-46[२]
Human sex ratio 0.993 पुरुषः/स्त्री
साक्षरत्ताप्रमाणम् 65.88%
भारतस्य वातावरणम् Climatic regions of India
Website perambalur.nic.in

पेरम्बलूरुमण्डलं (Perambalur District) (तमिऴ्: பெரம்பலூர் மாவட்டம்) भारतस्य तमिऴ्नाडुराज्यस्य मण्डलेषु अन्यतमम् । अस्य केन्द्रस्थानं पेरम्बलूरुपत्तनम् । इदं मण्डलं तमिऴ्नाडुराज्यस्य मध्यभागे विद्यमानं, सर्वासु दिशासु भूमिभागेन आवृतं च । इदं मण्डलं १९९५ तमवर्षस्य नवेम्बर्‌मासस्य प्रथमदिनाङ्के तिरुचिराप्पळ्ळिमण्डलात् विभक्तम् । अस्य मण्डलस्य जनसंख्या राज्ये न्यूनतमम् ।

भौगोलिकम्[सम्पादयतु]

पेरम्बलूरुमण्डलस्य विस्तारः १७५२ चतुरश्रकिलोमीटर् । अस्य उत्तरभागे कडलूरुमण्डलम्, दक्षिणे तिरुचिराप्पळ्ळिमण्डलम्, पूर्वदिशे तञ्जावूरुमण्डलम्, पश्चिमे नामक्कलमण्डलं तथा तिरुचिराप्पळ्ळिमण्डलम् अस्ति । इदं मण्डलं दक्षिणसमभूमौ अस्ति । अत्रत्यः वायुगुणः सामिशुष्कः । मृत्तिका प्रायेण रक्तमृत्तिका कृष्णमृत्तिका च । मण्डले वार्षिकवृष्टिप्रमाणं ९०८ मिल्लीमीटर् । कावेरीनदी अस्य मण्डलस्य प्रमुखा नदी । तथापि ६८% कृषिः कूपाधारेण एव प्रचलति ।

जनसंख्या[सम्पादयतु]

२०११ जनगणनानुगुणं पेरम्बलूरुमण्डलस्य जनसंख्या ५६४,५११ । भारतस्य ६४० मण्डलेषु जनसंख्यादृष्ट्या अस्य मण्डलस्य ५३६ तमं स्थानम् । अत्र जनसान्द्रता प्रतिचतुरश्रकिलोमीटर् ३२३ (८४० प्रतिचतुरश्रमैल्) । २००१-२०११ दशके जनसंख्यावृद्धिः १४.३६% आसीत् । पेरम्बलूरुमण्डले पुं, स्त्री अनुपातः १०००:१००६, साक्षरताप्रमाणं च ७४.६८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

पेरम्बलूरुमण्डले त्रीणि उपमण्डलानि सन्ति। तानि-

  • पेरम्बलूरुः
  • कुन्नम्
  • वेप्पन्तट्टै

कृषिः वाणिज्यं च[सम्पादयतु]

सम्प्रति, पेरम्बलूरुमण्डलं तमिऴ्नाडुराज्ये मैज़्धारन्यस्य, पलाण्डोः च उत्पादने प्रथमस्थाने अस्ति । राज्यस्य २७% मैज़्‌धान्यम्, ५०% पलाण्डुः च अस्मिन् मण्डले उत्पाद्यते । पेरम्बलूरुमण्डले ५००० एकर् विस्तृतस्य विशेषार्थिकवलयस्य (Special Economic Zone) स्थापनं भवेत् इति योजना अस्ति । अस्य विशेषार्थिकवलयस्य कडलूरु, पुदुच्चेरी, चेन्नैनगराणां नौकास्थानकैः, रैलमार्गेण, तिरुच्चीविमानस्थानकेन च सम्पर्कः भविष्यति । अनेन तन्त्रज्ञानोद्यमानाम्, जैविकतन्त्रज्ञानोद्यमानां, औषधीयोद्यमानां, वस्त्रोत्पादनोद्यमानां च एतत् मण्डलं प्रति आगमनं भवेत् इति निरीक्षा अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

सिरुवच्चूरु मथुराकालियम्मदेवालयः, अयं देवालयः पेरम्बलूरु उपमण्डलस्य सिरुवच्चूरुग्रामे अस्ति । अत्रत्या आराध्यदेवता मथुरा कालियम्मन् । कालीदेव्याः अवतारेषु इदम् अन्यतमम् । प्रतिसप्ताहं सोमवासरे, शुक्रवासरे च अत्र पूजा भवति । पङ्गुनीमासस्य (मीनमासस्य) अन्तिमदिने अत्र वार्षिकः उत्सवः समारभ्यते, चित्तिरै (चैत्र)मासस्य प्रथमदिने रथोत्सवः च भवति ।

चेट्टिकुळं देवालयः[सम्पादयतु]

पेरम्बलूरुतः २२ किलोमीटर् दूरे चेट्टिकुळं ग्रामे पुरातनः अरुळमिगु एकाम्बरेश्वरदेवालयः, दण्डायुधपाणिदेवालयः च अस्ति । एतौ देवालयौ ५०० वर्षेभ्यः प्राक् कुलशेखरपाण्ड्येन निर्मितौ इति श्रूयते । चेट्टिकुळं ग्रामात् बहिः शिलायाः उपरि बालदण्डायुधपाणिमन्दिरम् अपि अस्ति । इदं चोळराजैः निर्मितं प्राचीनं मन्दिरम् । मन्दिरस्य ऐतिह्यं वर्णयन्ति शिलाशासनानि अपि अत्र सन्ति ।

रञ्जनकुडिदुर्गः[सम्पादयतु]

अयं दुर्गः पेरम्बलूरुतः १७ किलोमीटर् उत्तरे अस्ति । सप्तदशशतके कर्णाटकनवाबानां प्रशासनकाले कश्चन जागीरदारः एनं दुर्गं निर्मितवान् । अस्य दुर्गस्य अन्तः राजभवनं, गृहाणि, भूमिगतागाराः, इस्लामदेवालयः च अस्ति ।

बाह्यसंपर्कतंतुः[सम्पादयतु]

  1. "2011 वर्षस्य भारतस्य जनगणनम्" (Excel). भारतीय सर्वकारः. 16 April 2011. 
  2. www.tn.gov.in


"https://sa.wikipedia.org/w/index.php?title=पेरम्बलूरुमण्डलम्&oldid=314712" इत्यस्माद् प्रतिप्राप्तम्