भरतः(रामायणम्)

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्

भरतः दशरथस्य पुत्रः । कैकेयी भरतस्य माता। कुशध्वजस्य पुत्री माण्डवी भरतस्य पत्नी ।

पितृभक्तिः[सम्पादयतु]

यदा दशरथेन श्रीरामस्य राज्याभिषेकः आयोजितः तदा भरतः स्वमातुलगृहं गतः आसीत् । कैकेयीवचनानुगुणं श्रीरामः वनवासार्थं गतः । शोकेन दशरथः इहलोकयात्रां समापितवान् । भरतः त्वरया अयोध्यां प्रति अगन्तव्यः इति वार्ता प्रेषिता । पूर्वस्मिन् दिने भरतः दुःस्वप्नं दृष्टवान् आसीत् । प्रेषिते पत्रे अपि राजमुद्रा न आसीत् । आगन्तुं विशेषव्यवस्था कल्पिता आसीत् । अनेन पितुः विषये बहु चिन्ताक्रान्तः अभवत् । अयोध्यागमनानन्तरं वसिष्ठः पूर्वजानां रघुवंशीयाणां मूर्तिदर्शनपूर्वकं दशरथस्य मरणं ज्ञपितवान् । तदा पितुः मरणवार्तां ज्ञात्वा बहु खिन्नः अभवत् ।भासमहाकविः स्वीयनाटके प्रसङगमेनं मनोज्ञतया चित्रितवान् [१]

भ्रातृभक्तिः[सम्पादयतु]

यदा भरतः अयोध्यां प्रविष्टवान् तदा स्वमातुः नीचबुद्ध्या अग्रजः रामः वनं गतवान् इति ज्ञातवान् । तदा अग्रजस्य विषये विद्यमानया महत्या प्रीत्या मातुः वधं कर्तुमुद्युक्तः । वसिष्ठवचनानुगुणं वधं नाचरितवान् । स्वदेहत्यागमपि कर्तुमुद्युक्तः भरतः वसिष्ठेन वारितः ।

श्रीरामसेवकः[सम्पादयतु]

भ्रातृविहीनायाम् अयोध्यायां सिंहासने नोपविषामीति मातुः समीपे उक्त्वा श्रीराममन्विषन् वनं प्रति प्रस्थितः । कैकेयीवचनम् अल्पमिति मत्वा अयोध्यां प्रत्यागत्य सिंहासनमधिरोढुं श्रीरामस्य सकाशे विनम्रं विज्ञापयति । परं श्रीरामः नाङ्गीकुरुते । श्रीरामस्याधिष्ठाने अयोध्यासिंहासने नाहमुपाविषामीति श्रीरामस्य समीपे उक्त्वा तस्य पादुकां प्रसादरूपेण अपृच्छत् । पादुकां शिरसि वहन् अयोध्यायां राजसिंहासने संस्थाप्य श्रीरामस्य वनवासपूर्तिपर्यन्तं नन्दिग्रामे तपः आचरितवान् [२]

आधाराः[सम्पादयतु]

  1. द्रष्टव्यम्-प्रतिमानाटकम्-चौखम्भाप्रकाशनम्,वाराणसी
  2. वाल्मीकिरामायणम्

"http://sa.wikipedia.org/w/index.php?title=भरतः(रामायणम्)&oldid=270266" इत्यस्माद् पुनः प्राप्तिः