सामग्री पर जाएँ

भारतीयसंविधानस्य अष्टमानुसूची

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

भारतीयसंविधानस्य अष्टमानुसूच्यां (ध्वन्यात्मकहिन्दी: भारतीय संविधान की आठवीँ अनुसूची; आङ्ग्ल: Eighth Schedule to the Constitution of India) भारतगणराज्यस्य आधिकारिकभाषाः सूचीकृताः सन्ति । संविधानस्य प्रक्लृप्नं समये अस्मिन् सूच्यां समावेशः इत्युक्ते भाषा राजभाषा-आयोगे प्रतिनिधित्वस्य अधिकारिणी अस्ति, तदतिरिक्तं भाषा तासु आधारेषु अन्यतमा भविष्यति यस्याः आधारेण सङ्घस्य राजभाषयोः हिन्दी-आङ्ग्लयोः समृद्धीकरणाय आकृष्टा भविष्यति । ततः परं तु एषा सूची अधिकं महत्त्वं प्राप्तवती । इदानीं भारतसर्वकारः एतासां भाषाणां विकासाय उपायान् कर्तुं दायित्वं धारयति, यथा "ताः द्रुतगत्या समृद्धिषु वर्धन्ते, आधुनिकज्ञानस्य सञ्चारस्य प्रभावी साधनानि भवन्ति च" इति । तदतिरिक्तं लोकसेवायै आयोजितायां परीक्षायां उपस्थितः/उपस्थिता अभ्यर्थी/अभ्यर्थिनी पत्रस्य उत्तरं दातुम् एतेषु कस्यापि भाषायाः उपयोगं माध्यमरूपेण कर्तुम् अर्हति ।

अनुसूचितभाषाः

[सम्पादयतु]

भारतीयसंविधानस्य ३४४(१), ३५१ अनुच्छेदौ अनुसारम् [] अष्टमानुसूच्यां निम्नलिखितानां २२ भाषाणां मान्यता अन्तर्भवति –

  1. असमिया
  2. उर्दू
  3. ओडिया
  4. कन्नड
  5. काश्मीरी
  6. कोङ्कणी
  7. गुजराती
  8. डोगरी
  9. तमिळ्
  10. तेलुगु
  11. नेपाली
  12. पञ्जाबी
  13. बाङ्गला
  14. बोडो
  15. मणिपुरी (मीतै)
  16. मराठी
  17. मलयाळम्
  18. मैथिली
  19. संस्कृतम्
  20. सान्ताली
  21. सिन्धी
  22. हिन्दी

कालक्रमः

[सम्पादयतु]
  • १९५०: १४ प्रारम्भे संविधाने समाविष्टाः आसन् ।
  • १९६७: सिन्धी २१ तमे संविधानसंशोधनाधिनियमेन योजिता ।
  • १९९२: कोङ्कणी-मणिपुरी (मीतै)-नेपाली ७१ तमे संविधानसंशोधनाधिनियमेन योजिताः ।
  • २००३: बोडो-डोगरी-मैथिली-सान्ताली ९२ तमे संविधानसंशोधनाधिनियमेन योजिताः ।
  • २०११: उडिया (उड़िआ) इति वर्तन्याः स्थाने ९६ तमे संविधानसंशोधनाधिनियमेन ओडिया (ओड़िआ) इति वर्तनी अभवत् ।

अष्टमानुसूच्यां समावेशार्थम् अधिकानां भाषाणाम् अभियाचना

[सम्पादयतु]

आधुना गृहमन्त्रालयस्य मते संविधानस्य अष्टमानुसूच्यां ३८ अधिकाः भाषाः समावेशयितुं अभियाचना सन्ति । एताः सन्ति –

  1. अङ्गिका
  2. आङ्ग्ल
  3. ककबरक (त्रिपुरी)
  4. कच्छी
  5. काम्तापुरी
  6. कार्भी
  7. कुडमाली
  8. कुमाऊँनी (पहाडी)
  9. कुरुख
  10. कोडावा
  11. खासी
  12. गढवळि (पहाडी)
  13. गुज्जरी
  14. गोण्डी
  15. छत्तीसगढी
  16. तुळु
  17. तेन्यिदि
  18. धाटकी
  19. नागपुरी (सादरी)
  20. निकोबारी
  21. पहाडी (हिमाचली)
  22. पालि
  23. बज्जिका
  24. बञ्जारा
  25. बुन्देलखण्डी
  26. भूटिया
  27. भोजपुरी
  28. भोटी
  29. मगही
  30. मिजो (लुशायी)
  31. मुण्डारी
  32. राजस्थानी
  33. लिम्बू
  34. लेप्चा
  35. शौरसेनी (प्राकृतम्)
  36. सम्बलपुरी / कोशाली
  37. सराइकी
  38. हो

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]
  1. "Department of Official Language". राजभाषा विभाग (in Hindi). 14 October 2015. आह्रियत 19 April 2026.