सतनामण्डलम्
सतनामण्डलम् Satna District | |
---|---|
सतना जिला | |
सतनामण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे सतनामण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | मझगवा, बीरसिंहपुर, रघुराजनगर, कोतर, नागोद, रामपुर बघेलन, उंचाहरा, अमरपतन, मैहर, रामनगर |
विस्तारः | ७,५०२ च. कि. मी. |
जनसङ्ख्या (२०११) | २२,२८,९३५ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७२.२६% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४६.५% |
Website | http://satna.nic.in/ |
सतनामण्डलम् ( ( शृणु) /ˈsətənɑːməndələm/) (हिन्दी: सतना जिला, आङ्ग्ल: Satna district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति सतना इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]सतनामण्डलस्य विस्तारः ७,५०२ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे रीवामण्डलं, पश्चिमे पन्नामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे कटनीमण्डलम् अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं सतनामण्डलस्य जनसङ्ख्या २२,२८,९३५ अस्ति । अत्र ११,५७,४९५ पुरुषाः, १०,७१,४४० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २९७ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २९७ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.१९% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२६ अस्ति । अत्र साक्षरता ७२.२६% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- मझगवा, बीरसिंहपुर, रघुराजनगर, कोतर, नागोद, रामपुर बघेलन, उंचाहरा, अमरपतन, मैहर, रामनगर ।
वीक्षणीयस्थलानि
[सम्पादयतु]चित्रकूट-नगरम्
[सम्पादयतु]चित्रकूट-नगरम् एकं धार्मिकं, सांस्कृतिकम्, ऐतिहासिकं च स्थलमस्ति । इदं नगरं सतनामण्डलस्य बुन्देलखण्ड-प्रदेशे स्थितमस्ति । अस्मिन् नगरे हिन्दुसंस्कृत्याः अनेकानि मन्दिराणि सन्ति । बहवः जनाः तत्र दर्शनार्थं गच्छन्ति ।
ग्रीद्धराज-पर्वतः
[सम्पादयतु]ग्रीद्धराज-पर्वतः रामनगर-उपमण्डलस्य देवराज-नगरे स्थितमस्ति । अयं पर्वतः रामनगरात् ८ कि. मी. दूरे अस्ति । अयं धर्मपर्वतः कथ्यते । अस्य पर्वतस्य उल्लेखः स्कन्दपुराणे अपि अस्ति । स्कन्दपुराणे अस्य पर्वतस्य नाम ग्रीद्धाञ्चल-पर्वतः अस्ति ।
भरहुत
[सम्पादयतु]भरहुत-नगरं सतनामण्डलस्य प्राचीनतमं नगरम् अस्ति । अस्मिन् नगरे स्तूपः अस्ति । भरहुतस्तूपस्य निर्माणम् ई. पूर्वे तृतीयशताब्द्यां मौर्यशासकेन अशोकेन कारितम् । किन्तु कलाकार्यं शुङ्गवंशस्य शासनकाले अभवत् ।
अन्यानि वीक्षणीयस्थलानि
[सम्पादयतु]मैहर इत्यत्र माता-शारदा-मन्दिरं, रामवनम् इत्यत्र तुलसी-सङ्ग्रहालयः, बीरसिंहपुर इत्यत्र शिव-मन्दिरं, सतना इत्यत्र वेङ्कटेश-मन्दिरं वैष्णोदेवी-मन्दिरं च, गञ्ज सलेहा इत्यत्र चोमुखीनाथ-मन्दिरं, नागौद-दुर्गः, परसमनिया-उपशैलं, भरजुनादेवी, भाकुल-बाबा, कर्दमेश्वरनाथः, नागौद इत्यत्र बर्मेन्द्र जिला पुस्तकालय, साई-मन्दिरं, चित्रकूटधाम, पशुपतिनाथ-मन्दिरम् इत्येतानि अपि अस्य मण्डलस्य वीक्षणीयस्थलानि सन्ति ।
उत्तरप्रदेशराज्यम् | ||||
पन्नामण्डलम् | रीवामण्डलम् | |||
सतनामण्डलम् | ||||
कटनीमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये सतनामण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://satna.nic.in/
http://www.census2011.co.in/census/district/296-satna.html