महामरीचिका

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विभिन्नवर्णानां महामरीकिकाणां राशिः
सस्ये दृश्यमानाः श्वेतवर्णस्य महामरीचिकाः
मध्ये कर्तिता महामरीचिका
महामरीचिकापुष्पम्
वर्धमाना महामरीचिका
हरिद्वर्णीया महामरीचिका
हरित-पीत-रक्त-वर्णानां महामरीचिकाः
नीललोहितवर्णस्य महामरीचिका

एषा महामरीचिका भारते अपि वर्धमानः कश्चन शाकविशेषः । इयम् अपि सस्यजन्यः आहारपादार्थः । एषा महामरीचिका आङ्ग्लभाषायां Capcicum अथवा Bell pepper इति उच्यते । एषा महामरीचिका भारते तु शाकत्वेन सर्वत्र उपयुज्यते एव । एषा बहुवर्णयुता भवति । एतया महामरीचिकया क्वथितं, व्यञ्जनं, भर्ज्यं, दाधिकम् इत्यादिकं निर्मीयते । चित्रान्न-पृथुक-उपमादीनाम् उपहाराणां निर्माणे अपि महामरीचिका उपयुज्यते । एषा महामरीचिका बहुवर्णीया भवति । एषा रक्तवर्णीया, हरितवर्णीया, काषायवर्णीया, पीतवर्णीया, नीललोहितवर्णीया च उपलभ्यते । महामरीचिका "सोलेनं" कुटुम्बे अन्तर्भवति । अस्यां सस्यजातौ सस्ये पुष्पाणि भवन्ति । सस्यं "सोलनासिय" इति वदन्ति । एतस्याः प्रभेदाः अमेरिकामूलतः आगताः सन्ति । शताधिकवर्षेभ्यः अमेरिकादेशस्य उष्णवलयस्य जनाः एतस्याः वर्धनं कुर्वन्तः सन्ति । इदानीं विश्वे सर्वत्र एतस्याः वर्धनं भवति । महामरीचिकायाः कतिपय प्रभेदाः शाकमिव, औषधमिव च उपयुज्यते । स्थानस्य तथा प्रभेदस्य भेदानाम् आधारेण अस्याः विभिन्नानि नामानि अपि सन्ति । सामान्यतया एषा महामरीचिका इति उच्यते । ब्रिटन्-देशे मधुरमरीचिका इति, आस्ट्रेलिया, इङ्ग्लेण्ड्, अमेरिकासंयुक्तसंस्ताने, केनडादेशे, भारतेषु च महामरीचिका इति वदन्ति । अन्यराष्टेषु रक्तमरीचिका इत्यपि उच्यते । एतस्याः जातेः नाम ग्रीक्-पदं karto (क्याप्टो) इति पदतः उत्पन्नमस्ति । एतद् पदं "दशनम्" अथवा "गिलनम्" इत्यर्थे ग्रीक्-भाषायम् उपयुज्यते ।


अस्यां महामरीचिकायां “क्याप्सैसिन्” अंशः[सम्पादयतु]

महामरीचिकायाः अनेकवंशस्य फलेषु क्याप्सैसिन् (मीथैल् वेनिली नोनेन्मैड्) भवति । स च अंशः “लिपोफिलिक्” नामकं रासायनिकम् इति कारणात् येषां शरीरस्य अभ्यासः नास्ति तेषां मुखे ज्वलनं भवति । अधिकतया सस्तनयः एतां महामरीचिकां न इच्छन्ति । किन्तु पक्षीषु एतस्याः कोऽपि परिणामः न भवति । अस्याः महामरीचिकायाः गाढः वर्णः पक्षीन् आकर्षति अपि । “क्याप्सैसिन्” इत्येषः अण्डधारकः अङ्गांशः । अयं अंशः आन्तरिकसूक्ष्मस्तरे महता प्रमाणेन भवति । फलानाम् अन्तर्भागे न्यूनप्रमाणेन भवति । महामरीचिकासु “क्याप्सैसिन्” अंशः विभिन्नप्रमाणेन भवति । वंशाधारेण तस्य प्रमाणं भवति । एतेन कारणेन अधिकांशाः महामरीचिकायाः प्रभेदाः आचूषितान् विभिन्नान् उष्णांशान् प्राप्नुवन्ति । ‘बेल् पेपर्’इत्येषः प्रभेदः “क्याप्सैसिन्” अंशरहितः महामरीचिकायाः प्रभेदः । अपसरणगुणाणोः कारणेन “बेल् पेपर्” प्रभेदे क्याप्सैसिनस्य न्यूनता अस्ति । अमेरिकन् मूलस्य औषधस्य निर्माणे ‘चिलिपेपर्’स्य महत्त्वयुतं स्थानम् अस्ति । आधुनिकेषु औषधेषु “क्याप्सैसिन्” अंशस्य उपयोगः क्रियते । प्रमुखतया एतस्य उपयोगः उष्णवलयस्य वैद्यकीयचिकित्सायां रक्तपरिचलनास्य उत्तेजकौषधम् इव उपयुज्यते । इदानीन्तनेषु दिनेषु सामान्यतया महामरीचिका अथवा पेपर् स्प्रे (मरीचिकायाः गुच्छम्) इत्येतस्य क्याप्सैसिनस्य (एरासल्) वायुद्रवस्य सारम् आरक्षकगणः अधिकतया प्रयुञ्जते । आरक्षकाः कामपि व्यक्तिम् अशक्तां कर्तुम् अमृत्युकारकम् अस्त्रम् इव अस्य उपयोगं कुर्वन्ति । कोलाहलस्य नियन्त्रणार्थम् अपि अस्य प्रसरणं कुर्वन्ति । वैयक्तिकवैषम्यस्य निमित्तम् अपि एतस्य उपयोगः भवति कुत्रचित् ।


पाके अस्याः महामरीचिकायाः उपयोगः[सम्पादयतु]

महामरीचिकां पक्वं कृत्वा अथवा अपक्वमपि खादितुं शक्यते । सामान्यतया “सि फिर्टेसिन्स्” प्रभेदः पक्वपाके, अपक्वपाके, भर्ज्यपाके, मिश्रपाके चापि उपयुज्यते । खण्डान् कृत्वा अपि भर्जयितुं शक्यते । पूर्णस्य अथवा किञ्चित्भागस्य दहनं कर्तुमपि शक्यते । अथवा कर्तयित्वा साल्सा, सास् च इत्येतेषु योजयितुम् अपि शक्यते । एतां महामरीचिकां लेह्यम् (जाम्) इव संरक्षितुम् अपि शक्यते । शुष्कीकृत्वा, अवलेहरूपेण अथवा घनरूपेण अपि रक्षितुं शक्यते । शुष्कमरीचिकाः सम्पूर्णतया पूर्वस्थिततिं प्रति आनेतुं शक्यते अथवा कुट्टनेन चूर्णीकृत्य रक्षितुम् अपि शक्यते । लवणद्रवे निमज्जिता महामरीचिका अधिकतया स्याण्ड्वविच्, सलाड् इत्यादिषु उपयुज्यते । शैत्यवातावरणे एषा महामरीचिका स्ट्यू (उष्णजले मांसं क्वथयित्वा कृतं भक्ष्यम् ) सूप्, साल्सास् इत्येतेषु उपयुज्यते । इथियोपिया राष्ट्रियपाके अत्यन्ता प्रमुखा अस्ति इयं महामरीचिका । १९ शतकस्य पूर्वार्धे योग्यमृत्तिकायाः कवोष्णवातावरणस्य प्रदेशेषु महता प्रमाणेन वर्धिताः । सर्वेषु स्थानेषु वर्धिता चेदपि विशेषतया ‘येज्जु’ प्रान्ते महता प्रमाणेन दृश्यते । २००५ तमे वर्षे २,००० जनानां जनाभिप्रायस्य सङ्ग्रहणं यत् कृतं तत्र महामरीचिका ब्रिटन्-देशस्य प्रियपाके उपयुज्यमानेषु शाकेषु चतुर्थे स्थाने आसीत् । बल्गेरिया, दक्षिणसैबीरिया, म्यासेडोनिया प्रदेशेषु अपि एषा महामरीचिका अत्यन्तजनप्रिया अस्ति । एतां महामरीचिकां भर्जयित्वा परितः वार्तकीं, पलाण्डुं, लशुनं, कुस्तुम्बरीं च योजयित्वा अपि खादितुं शक्यते । एषा महामरीचिका मांसखण्डे, अन्ने, बीन्स्, मृदुचीस्, अण्डम् इत्यादीनाम् उपस्कररूपेण अपि उपयुज्यते । तावदेव न मरीचिका, वार्तकी, मरीचे च निमज्य साम्प्रदायिकविधानेन ल्युट्ण्टिसा, अज्वर् प्रदेशेषु यः पाकः क्रियते तत्र रुचेः वर्धनार्थम् अपि महामरीचिका उपयुज्यते । शाकानाम् अवलेहस्य निर्माणे अपि उपयुज्यते । महामरीचिकाशलाटून् इट्यालियन् पाकेऽपि अधिकतया उपयुज्यते । एतस्याः कटुः इटलीदेशस्य दक्षिणभागेषु सामान्यसोपस्करः इव उपयुज्यते । कदाचित् जिततैलेन सह मेलयित्वा खाद्यते अपि । महामरीचिका पेपर् इत्येतत् अनेकेषु खाद्येषु उपयुज्यते। एतेन बहुविधपाकं कर्तुं शक्यते । एषा महामरीचिका श्रीलङ्कादेशेऽपि बृहत्प्रमाणेन उपखाद्यमिव उपयुज्यते ।


अन्ये उपयोगाः[सम्पादयतु]

बहुभ्यः वर्षेभ्यः कृतैः संशोधनैः महामरीचिकायाः परिवर्तनम् अपि कृतम् अस्ति । सा अन्येभ्यः उद्देशेभ्यः अन्यखाद्येभ्यः चापि उपयुज्यते इदानीम् । (डैयटिङ्ग्) मेदस्य निवारणार्थं यः आहारक्रमस्य कल्पितः तत्रापि एषा उपयुज्यते । किन्तु कुटुम्बवैद्येन सह समालोच्य एव उपयोक्तव्या महामरीचिका । यतः देहस्थितिमवलम्ब्य रक्तस्य, मेदस्य च प्रमाणनुगुणं कः सोपस्करपदार्थः, हाट् सास् च उत्तमं भवति इति ज्ञातव्यम् ।

अस्याः महामरीकिकायाः प्रभेदाः[सम्पादयतु]

महामरीचिकायां सामान्यतः २० तः २७ प्रभेदाः सन्ति । एतासु पञ्चविधानि गृहेषु उपयुज्यन्ते । अस्याः महामरीचिकायाः प्रभेदानां तदन्तः च वर्णे, आकारे, गात्रे च भिन्नता भवति । एषा भिन्नता वर्गाणां सम्बन्धस्य विषये भ्रमं जनयति । रासायनिकसंयोजितानि अध्ययनानि प्रभेदानां भेदं ज्ञातुं साहाय्यं कुर्वन्ति ।

  1. क्याप्सिकम् अन्युम् L
  2. क्याप्सिकं कार्नटम् (हिर्न्)हन्स्
  3. क्याप्सिकं होकेरियनुम् (मीर्स्) क्नुट्से
  4. क्याप्सिकं प्युक् सिन्स् रुज् &प्याव्
  5. क्याप्सिकं ब्यकटं L
  6. क्याप्सिकंबुपोरं हन्स्
  7. क्याप्सिकं डिमार्फम् (मिर्स्) न्ट्से
  8. क्याप्सिकं ल्यान्सेलोल्याटम् (ग्रीन्म्)C.V.मार्टन् &स्ट्याण्ड्ल्
  9. क्याप्सिकं रोम्बाय्डेम् (ड्युनल्) क्नुट्से
  10. क्याप्सिकं क्याम्पिलोपोडि यं सेण्डिटिन्
  11. क्याप्सिकं ड्युसेनि बिट्टर्
  12. क्याप्सिकं स्काटियनं सेण्डिटिन्
  13. क्याप्सिकं कार्डेनसी हेसर् &P.G. Sm.
  14. क्याप्सिकम् एक्सिमिम्हन्स्
  15. क्याप्सिकं लेप्टोपोडं (ड्युनल्)क्नुट्से
  16. क्याप्सिकं स्काल्निकियनं हन्स्
  17. क्याप्सिकं चाकोयेन्सि हन्स्
  18. क्याप्सिकम् फ्लेक्सोसम् सेण्डिटिन्
  19. क्याप्सिकम् लैसियान् थाय्डस् बिट्टर्
  20. क्याप्सिकं चिनेन्स् जाक्
  21. क्याप्सिकं फ्रुटेसिन्स् L
  22. क्याप्सिकं टूवरि इस् बग् et al.
  23. क्याप्सिकं मिनुटिफ्लोरं (रुस्बि) हन्स्
  24. क्याप्सिकं कोकिनियं (रुस्बि)हन्स्
  25. क्याप्सिकं ग्यालापेजो न्स् हन्स्
  26. क्याप्सिकं विल्लोसुं सेण्डिटिन्
  27. क्याप्सिकं मिरबिले मार्ट्. एक्स् सेण्डिटिन्
  28. क्याप्सिकं गेमिनिफोलिं (ड्यामर्) हन्स्
  29. क्याप्सिकं मोसिटिकं टूलेडो
  30. क्याप्सिकं प्यारविफोलियं सेण्डिटिन्


विभिन्नेषु देशेषु अस्याः महामरीचिकायाः नामानि[सम्पादयतु]

महामरीचिकायाः नामानि आङ्ग्लभाषाराष्ट्रेषु विभिन्नानि सन्ति । आस्ट्रेलिया, न्यूजिलेण्ड्, भारते च कटुरहितां ‘महामरीचिका’ इति, कटुसहितां ‘मरीचिका’ (द्विवारं L उपयुज्य) इति च वदन्ति । पेपरान्सिनिं ‘मधुरमहामरीचिका’ इत्यपि वदन्ति । ‘बेल् पेपर्’ सामान्यतया उपयोगे न सन्ति चेदपि बेल् आकारस्य कटुयुक्तं C. अन्युम् तथा अन्यविधं च अधिकतया ‘बेल् चिलिस्’ इति वदन्ति । अमेरिकासंयुक्तसंस्थानेषु, ऐर्लेण्ड्देशेषु च कटुरहितां ‘बेल् पेपर्’, ‘मधुरमरीचिका’ अथवा ‘मरीचिका’ (अथवा ‘आर्द्रमरीचिकाः, रक्तमरीचिकाः’ इत्यादि) इति वदन्ति । कटुमरीचिकां ‘चिलि/चिलिस्’ (डबल् L) अथवा ’चिलि पेपर्स्’ इति वदन्ति । अमेरिकासंयुक्तसंस्थाने केनडादेशे च कटुरहितां ‘बेल् पेपर्’ ‘मधुरमरीचिका’ ‘रक्त/हरित’ मरीचिकाः अथवा केवलं ‘मरीचिका’ इति वा वदन्ति । आहत्य कटयुक्तां ‘चिले/चिलिस्’, ‘चिलि/चिलिस्’, अथवा ‘चिलि/चिलिपेपर्’ (केवलं एकं L), ‘कटुमरीचिका’ इति अथवा निर्दिष्टविधं (उदाहरणार्थं, बनाना पेपर्) इति वदन्ति । महामरीचिकासस्यानि आहारस्य रुचिवर्धकस्य मरीचस्य (ब्ल्याक् पेप्पर्, पैपर् निग्रुम्/१) कटुरुचिमेव यच्छन्ति इति कारणेन ‘पेपर्’ (मरीचिका) इति नाम आगतम् । किन्तु सस्यविज्ञाने एतस्य सस्यस्य, सिचुवन् पेपर् इत्यस्य च कोऽपि सम्बन्धः नास्ति । पोलिश्, हङ्गेरियादेशेषु च ‘प्याप्रीक’ प्याप्रीक’ च (रक्तमरीचिका) इत्येतत् पदं सर्वविधमहामरीचिकायाः कृते, मधुरशाकाणां कृते, कटुसोपस्कराणां कृते च उपयुज्यते । तावदेव न, शुष्कीकृत्य, चूर्णीकृत्य तैः एव निर्मितं सोपस्करपदार्थं सूचयितुमपि (US आङ्ग्लभाषायां, कामन् वेल्त् आङ्ग्लभाषायां च उभयत्रापि ‘पप्रीक’ (रक्तमरीचिका) इत्येव वदन्ति । फलं तथा सोपस्करपदार्थमपि प्याप्रीक् ओस्ट्र (हाट् पेपर्) अथवा ‘प्याप्रीका स्लोड्क’ (स्वीट् पेपर् (मधुरमरीचिका)) इति वक्तुं वदन्ति । इटलिदेशे, इटालियन्-भाषायां जर्मन्-भाषायां, स्विजर्लेण्ड्भागेषु च मधुरमरीचिकायाः विधानि “पेपरोन्” इति, कटुमरीचिकायाः विधानि “पेपरोन्सिनो” (साहित्यकरूपेण लघुमरीचिका) इति च वदन्ति । फ्रेञ्च्देशे महामरीचिकां “पैरान्” इति वदन्ति । जर्मन्-देशे महामरीचिकां “प्याप्रीक” (रक्तमरीचिका) इति वदन्ति । डच्-देशे “बेल् पेपर्” इति, अत्र “चिलि” पदं केवलं मरीचिकाचूर्णम् इत्यर्थे उपयुज्यन्ते । हाट् पेपर् इत्यस्य भिन्नानि रूपाणि “स्प्यान्से पेपर् (स्प्यानिष् पेपर्) इति वदन्ति । स्विजर्लेण्ड्-देशे महामरीचिकया कृतं उपस्करचूर्णं “प्याप्रीक” इति वदन्ति । स्प्यानिष्-भाषाराष्ट्रेषु प्रत्येकं विधस्य अपि विभिन्नानि नामानि सन्ति । मेक्सिको देशे “चिले” पदं “हाट् पेपर्” इत्यर्थे उपयुज्यते । कटुरहितविधेभ्यः “पिमिण्टो” (पेपर् पदस्य पुल्लिङ्गवाचकः “पिमिण्ट”) इति वदन्ति । पेरु, प्युरिटो, रिको, अर्जण्टैनादेशेषु नाम्नां परस्परसम्बन्धः नास्ति चेदपि एते “अजि” इति पदप्रयोगं कुर्वन्ति । स्प्येन्-देशे कटुरहितविधं “पिमिण्टो” इति, कटुसहितं “गिन्डिल्ला” इति च वदन्ति । अर्जण्टैना, स्प्येन्-देशेषु चाकोयेन्सिविधं “पुटप्यारियो” इति वदन्ति । एतस्य अतिकटुत्वकारणतः जनभाषायाम् एतस्य अर्थः “हे भगवन्, कटुः” (God damn it) इति । महामरीचिकायाः अन्यानि कटुविधानि “चिलि” पदेन सूच्यते । उत्तरभारते पाकिस्ताने च “क्याप्सिकम् अन्युं” इत्येतत् विधं स्थानीयभाषासु “शिम्लामिर्च्” इति वदन्ति । “शिम्ला” इत्येतत् भारतस्य प्रसिद्धं गिरिधाम अस्ति । जपानीभाषायां “टुगार्षि” (चीनीसर्षपः) इत्येतेन पदेन हाट् चिलि पेपर् इत्येतत् सूचयन्ति । तावदेव न, विशेषतया तेन निर्मितस्य खाद्यपदार्थस्य, आहारस्य रुचिवर्धकस्य उपस्करचूर्णस्य च तदेव पदम् उपयुज्यते । बेल् पेपर् इत्येतत् “पिम्यान्” (फ्रेञ्च् भाषायाः पिमिण्ट् अथवा स्प्यानिष् भाशायाः “पिमिण्टो” पदतः आगतं पदम्) इति वदन्ति ।‎



"https://sa.wikipedia.org/w/index.php?title=महामरीचिका&oldid=432018" इत्यस्माद् प्रतिप्राप्तम्