उज्जैनमण्डलम्
उज्जैनमण्डलम् ujjain District | |
---|---|
उज्जैन जिला | |
उज्जैनमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे उज्जैनमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | उज्जैन, नागदा, बडनगर, खाचरोद, महिदपुर, तराना, घटिया |
विस्तारः | ६,०९१ च. कि. मी. |
जनसङ्ख्या (२०११) | १९,८६,८६४ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७२.३४% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४९% |
Website | http://ujjain.nic.in/ |
उज्जैनमण्डलम् ( ( शृणु) /ˈʊdʒdʒɛɪnəməndələm/) (हिन्दी: उज्जैन जिला, आङ्ग्ल: Ujjain district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति उज्जैन इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]उज्जैनमण्डलस्य विस्तारः ६,०९१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे देवासमण्डलं, पश्चिमे रतलाममण्डलम्, उत्तरे शाजापुरमण्डलं, दक्षिणे इन्दौरमण्डलम् अस्ति । अस्मिन् मण्डले क्षिप्रानदी प्रवहति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणम् उज्जैनमण्डलस्य जनसङ्ख्या १९,८६,८६४ अस्ति । अत्र १०,१६,२८९ पुरुषाः, ९,७०,५७५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२६ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.१२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ७२.३४% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- उज्जैन, नागदा, बडनगर, खाचरोद, महिदपुर, तराना, घटिया ।
कृषिः वाणिज्यं च
[सम्पादयतु]अस्मिन् मण्डले खाद्यसामग्रीणाम् उद्योगाः अत्यधिकाः प्रचलन्ति । अस्मिन् मण्डले वस्त्राणां यन्त्रागाराः अपि बहवः सन्ति । अस्मिन् मण्डले उत्तमाः शैक्षणिकसंस्थाः सन्ति । अतः भारतस्य अन्यप्रदेशेभ्यः विदेशात् च विद्यार्थिनः पठितुम् तत्र गच्छन्ति । इदं मण्डलं प्रगतिशीलम् अस्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]महाकालेश्वरमन्दिरम् उज्जैननगरे स्थितम् अस्ति । इदं मन्दिरं द्वादशज्योतिर्लिङ्गेषु अन्यतमम् अस्ति । तत्र शिवलिङ्गस्य जलधारा दक्षिणस्यां दिशि प्रवहति इति विशेषः ।
श्री बडे-गणेशमन्दिरम्
[सम्पादयतु]महाकालेश्वरमन्दिरस्य समीपे हरसिद्धिमार्गे बडे-गणेशस्य भव्यकलापूर्णमूर्तिः प्रतिष्ठिता अस्ति । अस्याः मूर्त्याः निर्माणं पद्मविभूषणस्य पं. सूर्यनारायणव्यासस्य पित्रा विदुषा स्व. पं. नारायणव्यासेन कृतम् आसीत् । सप्तधातुनिर्मिता पञ्चमुखिहनुमत्प्रतिमा, नवग्रहाणां मन्दिरं तथा कृष्णयशोदयोः प्रतिमे अपि विराजितौ स्तः ।
मङ्गलनाथ-मन्दिरम्
[सम्पादयतु]पुराणानामनुसारेण उज्जैन-नगरी मङ्गलग्रहस्य जननी उच्यते । येषां जनानां कुण्डल्यां मङ्गलः अनिष्टः स्यात् , ते सर्वे जनाः अनिष्टदोषात् निवृत्यर्थम् तत्र पूजां कारयन्ति । यद्यपि मङ्गलभगवतः बहूनि मन्दिराणि सन्ति किन्तु उज्जैन-नगरम् अस्य जन्मस्थानं वर्तते इति महत्त्वम् अपि अधिकम् अस्ति । उच्यते यत् इदं मन्दिरम् अतीव पुरातनमस्ति । सिन्धियावंशजैः अस्य पुनर्निर्माणं कारितम् । उज्जैन-नगरं महाकालस्य नगरी इति उच्यते । अतः जनाः तत्र मङ्गलनाथस्य भगवतः शिवरूपात्मिकायाः प्रतिमायाः पूजां कुर्वन्ति । प्रतिमङ्गलवासरे तत्र बहवः भक्तजनाः गच्छन्ति ।
हरसिद्धिदेवी
[सम्पादयतु]उज्जैन-नगरस्य धार्मिकस्थलेषु हरसिद्धिदेव्याः मन्दिरं प्रमुखम् अस्ति । चिन्तामनगणेशमन्दिरात् किञ्चित् दूरे तथा रूद्रसागरतडागस्य तटे इदं मन्दिरं स्थितमस्ति । राजा विक्रमादित्यः अस्याः देव्याः पूजां करोति स्म । वैष्णवसम्प्रदायस्यापि आराध्यदेवीरूपेण इयं हरसिद्धिदेवी पूज्यते । शिवपुराणानुसारेण दक्षयज्ञात् परं सतीदेव्याः हस्तगुल्फः (Elbow) अत्र पतितः आसीत् ।
उज्जैन-नगरस्य धार्मिकस्वरूपे क्षिप्रानद्याः तटानां प्रमुखं स्थानं वर्तते । नद्याः दक्षिणतटे नगरं स्थितमस्ति, तत्र तटानि स्नानार्थिनां कृते सोपानयुक्तानि सन्ति । विभिन्नानां देवतानां नूतनानि पुरातनानि च मन्दिराणि अपि स्थितानि सन्ति । सिंहस्थमहापर्वणि यदा बहवः भक्तजनाः स्नानं कुर्वन्ति तदा एषां गौरवं दृश्यते ।
गोपाल-मन्दिरम्
[सम्पादयतु]गोपालमन्दिरम् उज्जैन-नगरस्य विशालमन्दिराणां क्रमे द्वितीयमस्ति । इदं मन्दिरं नगरस्य मध्येऽधिकजनसम्मर्दे क्षेत्रे स्थितमस्ति । अस्य मन्दिरस्य निर्माणं दौलतराव सिन्धिया इत्यस्य महिष्या बायजाबाई इत्यनया ई. १८३३ तमे वर्षे कारितम् । कृष्णस्य (गोपाल) मूर्तिः मन्दिरेऽस्मिन् वर्तते । रजतयुतानि द्वाराणि अस्य मन्दिरस्य आकर्षणकेन्द्राणि सन्ति ।
गढकालिकादेवी
[सम्पादयतु]गढकालिकादेवीमन्दिरम् उज्जैन-नगरस्य प्राचीने अवन्तिकाक्षेत्रे स्थितमस्ति । कालिदासः गढकालिकादेव्याः उपासकः आसीत् । राज्ञा हर्षवर्धनेन अस्य मन्दिरस्य जीर्णोद्धारः कारितः इति एतादृक् उल्लेखः प्राप्यते । ग्वालियर-प्रान्तस्य महाराजस्य शासनकाले अस्य मन्दिरस्य पुनर्निर्माणम् अभवत् ।
भर्तृहरि-गुहा इत्यत्र एकादशशताब्द्याः एकस्य मन्दिरस्य अवशेषः वर्तते, यस्य उत्तरवर्तिसमये पौनःपुन्येन जीर्णोद्धाराः अभवन् ।
कालभैरवः
[सम्पादयतु]कालभैरवस्य मन्दिरम् इदानीम् अवन्तिकानगर्याम् अस्ति । मन्दिरेऽस्मिन् कालभैरवस्य विशालमूर्तिः अस्ति । उच्यते यत् अस्य मन्दिरस्य निर्माणं प्राचीनकाले राज्ञा भीमसेनेन कारितम् । पुराणेषु वर्णितेषु चतुष्षष्ठिभैरवेषु अन्यतमः अस्ति कालभैरवः ।
शाजापुरमण्डलम् | ||||
रतलाममण्डलम् | देवासमण्डलम् | |||
उज्जैनमण्डलम् | ||||
इन्दौरमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये उज्जैनमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://ujjain.nic.in/
http://www.bharatbrand.com/english/mp/districts/Ujjain/Ujjain.html Archived २०१४-०६-०९ at the Wayback Machine
http://www.census2011.co.in/census/district/302-ujjain.html