ऋतुः
दिखावट
(ऋतवः इत्यस्मात् पुनर्निर्दिष्टम्)
ऋतुः | |
---|---|
वषे ऋतुः |
ऋतुः वर्षस्य कश्चित् कालखण्डः यस्मिन् वातावरणं निश्चितप्रकारकं भवति । समग्रवर्षस्य कालः षट्सु ऋतुषु विभक्तः । मासद्वयस्य कालः एकस्य ऋतुसमयः भवति । ऋतवः षट्सङ्ख्यकाः । यथा- ग्रीष्मः, वर्षाः, शरत्, हेमन्तः, शिशिरः, वसन्तः । ऋतुः पुंल्लिङ्गशब्दः वर्तते ।
- ग्रीष्मर्तुः । सूर्यः तीव्रं तपति । नद्यादिषु जलं शुष्यति । दिवावर्धते । जनाः तापमनुभवन्ति ।
- वर्षर्तुः । मेघाः वर्षन्ति । पर्वताः शितलाः भवन्ति । नद्यादयः जलपूरिताः भवन्ति । भूमिः सस्यश्यामला जायते । कर्षकाः नन्दन्ति । आश्वयुजकार्तिकयोः
- शरदृतुः । आकाशः निर्मलःभवति मेघाः निर्जलाः सञ्चरन्ति । चन्द्रिका विशदा भवति । मार्गाः पङ्करहिताः भवन्ति । मार्गशीर्षपुष्ययोः
- हेमन्तर्तुः । रात्रिः वर्धते । सूर्यः मन्दं तपति । विस्तारेण हिमं पतति । सलिलं शीतलतरं भवति वायुः अतिशितः वाति । माघफाल्गुणयोः
- शिशिरर्तुः । वृक्षेभ्यः पर्णानि पतन्ति । सस्यानि फलन्ति । शीतं अधिकतरं भवति ।
- वसन्तर्तुः । वृक्षाः कुसुमिताः भवन्ति । कोकिलाः कूजन्ति । मधुपाः मधु पिबन्ति । उपवनानि शोभन्ते ।
ऋतुमासानां तुलना
[सम्पादयतु]ऋतवः | seasons | मासाः (दक्षिणभारते) | ग्रेगरियन् मासाः (दक्षिणभारते) | मासाः (मध्यभारते) | ग्रेगरियन् मासाः (मध्यभारते) | मासाः (उत्तरभारते) | ग्रेगरियन् मासाः (उत्तरभारते) |
---|---|---|---|---|---|---|---|
ग्रीष्मर्तुः | Summer | चैत्रमासः(१/२) - वैशाखमासः - ज्येष्ठमासः(१/२) | एप्रिल् - मे | वैशाखमासः - ज्येष्ठमासः | एप्रिल्(१/२) - मे - जून्(१/२) | ज्येष्ठमासतः आषाढमासपर्यन्तम् | मे - जून् |
वर्षर्तुः | Rainy | ज्येष्ठमासः(१/२) - आषाढमासः - श्रावणमासः(१/२) | जून् - जूलै | आषाढमासः - श्रावणमासः | जून्(१/२) - जूलै - आगस्त्(१/२) | श्रावणमासतः भाद्रपदमासपर्यन्तम् | जुलै - सप्टम्बर् |
शरदृतुः | Autumn | श्रावणमासः(१/२) - भाद्रपदमासः - आश्विनमासः(१/२) | आगस्त् - सप्तम्बर् | भाद्रपदमासः - आश्विनमासः | आगस्त्(१/२) - सप्तम्बर् - अष्टोबर्(१/२) | आश्वीजमासतः कार्तिकमासपर्यन्तम् | अक्टोबर् - नवेम्बर् |
हेमन्तर्तुः | Pre-winter | आश्विनमासः(१/२) - कार्तिकमासः - मार्गशीर्षमासः(१/२) | अष्टोबर् - नवम्बर् | कार्तिकमासः - मार्गशीर्षमासः | अष्टोबर्(१/२) - नवम्बर् - दशम्बर्(१/२) | मार्गशीर्षमासतः पुष्यमासपर्यन्तम् | डिसेम्बर -जनवरी १५ |
शिशिर्तुः | Winter | मार्गशीर्षमासः(१/२) - पुष्यमासः - माघमासः(१/२) | दशम्बर् - जनुवरी | पुष्यमासः - माघमासः | दशम्बर्(१/२) - जनुवरी - फेब्रुवरी(१/२) | माघमासतः फाल्गुणमासपर्यन्तम् | जनवरी १६ - फेब्रवरी |
वसन्तर्तुः | Spring | माघमासः(१/२) - फाल्गुनमासः - चैत्रमासः(१/२) | फेब्रुवरी - मार्च् | फाल्गुनमासः - चैत्रमासः | फेब्रुवरी(१/२) - मार्च् - एप्रिल्(१/२) | चैत्रमासतः वैशाखमासपर्यन्तम् | मार्च् - एप्रिल् |