इ
पठन सेटिंग्स
|
एषः तृतीयः वर्णः । एषः ह्रस्वस्वरः । उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् ।पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।अस्य उच्चारणस्थानं तालु अस्ति ।इचुयशानां तालु -सि० कौ०
नानार्थाः
[सम्पादयतु]"इ" विचित्रे स्मरे पुमान् - वैजयन्ती
"इ" खेदे च रुषोक्तौ चापाकरणानुकम्पयोः - मेदिनीकोशः
इकारः फणिरत्नार्चिष्वग्रतोऽर्थगुहार्थयोः। हरे करेणौ कक्ष्यान्ते निशाकरकरेस्मरे॥