सामग्री पर जाएँ

ह्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
संस्कृतवर्णमाला
स्वराः
अआइईउऊ
ऋॠऌॡएऎऐ
ओऒऔ
योगवाहौ
अंअःअँ
व्यञ्जनानि
क्ख्ग्घ्ङ्
च्छ्ज्झ्ञ्
ट्ठ्ड्ढ्ण्
त्थ्द्ध्न्
प्फ्ब्भ्म्
य्र्ल्ळ्व्
श्ष्स्ह्
क्ष्त्र्ज्ञ्द्य्श्र्
ह् कारः
उच्चारणम्

अस्य उच्चारणस्थानं कण्ठः अस्ति । एषः अवर्गीयव्यञ्जनस्य अष्टमः वर्णः । वर्णमालायां त्रयस्त्रिंशः व्यञ्जनहल्वर्णः। " शषसहा ऊष्माणः" अकुहविसर्जनीयानां कण्ठः " -सि० कौ

नानार्थाः

[सम्पादयतु]

"हः शङ्करे हरौ हंसरणरोमाञ्चवाजिषु । गर्वे प्रचेतसि"

  1. विष्णुः
  2. परशिवः
  3. हंसः
  4. युद्धम्
  5. रोमञ्चः
  6. अश्वः
  7. गर्वः

"हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः" एकाक्षरकोशः

  1. वरुणः
  2. कोपः
  3. गजः

"हः शिवे सलिले शून्ये धारणे मङ्गलेऽपि च । गगने नकुलीशे च रक्ते नाके च वर्ण्यते " मेदिनीकोशः

  1. जलम्
  2. शून्यम्
  3. शुभम्
  4. रक्तः
  5. स्वर्गः
  6. धारणम्
  7. आकाशः
  8. नकुलीशः

"हं क्लीबमस्त्रसुखयोः क्वणितेमणिरोचिषि ।परब्रह्मामन्त्रणयोस्त्रिषु तूत्तानहास्ययोः" नानार्थरत्नमाला

  1. अस्त्रम्
  2. आनन्दः
  3. वीणानादः
  4. रत्नकान्तिः
  5. परब्रह्म
  6. आमन्त्रणम्
  7. उन्मुखी
  8. हास्यकारी

"ह स्यात् सम्बोधने पादपूरणे च विनिग्रहे। नियोगे क्षिपायां स्त्यात् कुत्सायमपि दृश्यते ” मेदिनीकोशः

  1. सम्बोधनम्
  2. पादपूरणम्
  3. नियोगः
  4. निग्रहः
  5. निन्दा
  6. क्षेपणम्
"https://sa.wikipedia.org/w/index.php?title=ह्&oldid=367970" इत्यस्माद् प्रतिप्राप्तम्