र्
पठन सेटिंग्स
|
अस्य उच्चारणस्थानंमूर्धा अस्ति । एषः अवर्गीयव्यञ्जनस्य द्वितीयः वर्णः । व्यञ्जनेषु सप्तविंशः वर्णः अस्ति । ”यरलवा अन्तस्थाः"।"ऋटुरषाणां मूर्धा"-सि० कौ०
नानार्थाः
[सम्पादयतु]"रः पुमान् पावके कामे क्षये वज्रे शये ऋतौ "मेदिनीकोशः
"रः पुमान्पावके कामे क्षये वज्रे शये धृतौ ।रं क्लीबे रुधिरे मूर्ध्नि ध्यानयोमोडुकुक्षिषु । वक्त्रे भये च त्रिषु तु विरसे त्यागतीक्ष्णयोः”- नानार्थरत्नमाला
- धैर्यम्
- धनम्
- राजभयम्
- शब्दः
- नारी
- वायुः
- रक्तः
- शिरः
- ध्यानम्
- आकाशः
- नक्षत्रम्
- उदरम्
- भयम्
- त्यागः
- वक्त्रम्
- उष्णयुक्तः
- विरसः
"रभ्र रामेऽनिले वन्हौ भूमावपि धनेऽपि च। इन्द्रिये" हारा०