अ
|
संस्कृतवर्णमालायां प्रथमः वर्णः। त्रयोदशस्वरेषु अन्यतमः। एषः ह्रस्वस्वरः । पञ्च मूलस्वरेषु अन्यतमः। उदात्तः अनुदात्तः, स्वरितः इति अस्य भेदत्रयम् । पुनः अनुनासिकः अननुनासिकः इति भेदद्वयमस्ति अस्य । आहत्य षड्विधम् अस्ति ।अस्य उच्चारणस्थानं कण्ठः। अकारोविष्णुरुद्दिष्ट उकारस्तु महेश्वरः। मकारस्तु स्मृतोब्रह्मा प्रणवस्तु त्रयात्मकः॥
नानार्थाः
[सम्पादयतु]अकारो ब्रह्मविष्ण्वीशकमठेष्वङ्गणे रणे। गौरवेऽन्तःपुरे हेतौ भूषणेऽङ्घ्रावुमेज्ययोः॥
- विष्णुः
- वासुदेवः
- ब्रह्मा
- चतुर्मुखः
- परमेश्वरः
- महादेवः
- कूर्मः
- प्राङ्गणम्
- युद्धम्
- सङ्ग्रामः
- गौरवम्
- मर्यादा
- अन्तःपुरम्
- हेतुः
- कारणम्
- भूषणम्
- आभरणम्
- चरणः
- पादः
- पार्वती
- गौरी
- यागः
- यज्ञः
सुखज्ञानमुमारातिगिरिभूमिद्रुमालिषु। मृगसिंहवराहर्क्षतरक्षुगवयेष्वपि॥
अशब्दः स्यादभावेऽपे स्वल्पार्थप्रतिषेधयोः। अनुकम्पायां च तथा वासुदेवेत्वनव्ययः॥
नञ्” सम्बन्धित “अ” कारस्य षट् भेदाः प्रकीर्तिताः।
उदाहरणानि,
- सादृश्यम् - अब्राह्मणः
- अभावः - अपापम्
- भेदः - अनश्वः
- अल्पत्वम् - अनुदरा कन्या
- अप्राशस्त्यम् - अपशवः
- विरोधः - अधर्मः
उपसर्गस्वरविभक्तिप्रतिरूपकाश्चेति ” स्वरादिगणसूत्रे “अ” इति सिद्धान्तकौमुद्यामुदाहृतं मनोरमायाञ्च “अ” संबोधने अधिक्षेपे निषेधे चेति व्याख्यातम्।