ज्
पठन सेटिंग्स
|
![](http://upload.wikimedia.org/wikipedia/commons/thumb/f/fe/%E0%A4%9C%E0%A5%8D_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83.jpg/100px-%E0%A4%9C%E0%A5%8D_%E0%A4%95%E0%A4%BE%E0%A4%B0%E0%A4%83.jpg)
अस्य उच्चारणस्थानं तालु अस्ति । अयं चवर्गस्य तृतीयः वर्णः अस्ति । अयं अल्पप्राणवर्णः अस्ति ।"कादयो मावसानाः स्पर्शाः" । " इचुयशानां तालु"-सिद्धान्तकौमुदी।
नानार्थाः
[सम्पादयतु]“जो ना मृत्युञ्जये जन्यां तातमात्रे जनार्दने”- मेदिनीकोशः
“जकारो गायने प्रोक्तो जयने जः प्रकीर्तितः”- हारावलिः
सङ्गीतम् (गायकः)
“जो जपे विजये मेरौ शब्दे जेतरि मत्सरे। जं कटौ भूषणे पत्न्यां तेजस्यम्बुनि जन्मनि॥“ - नानार्थरत्नाकरः