संस्कृतवर्णमाला
|
परिचयः
[सम्पादयतु]मनसः भावानां प्रकाशाय भाषा आवश्यकी भवति । वाक्यानां प्रयोगद्वारा भावप्रकाशं कुर्मः । वाक्यं पदैः युक्तं भवति । पदम् इत्येतत् वर्णैः युक्तं भवति । वर्नः अक्षरम् इत्यपि कथ्यते ।
संस्कृतभाषायाः सुप्रसिद्धः वैयाकरणः नाम पाणिनिः । संस्कृतवर्णमालायाः कारणीभूतः साक्षात् परमेश्वरः इति भारतीयपरम्परायाः अभिमतम् । परमेश्वरः १४ वारं डक्काम् अवादयत् । तदा १४ सूत्राणि श्रुतानि । तानि एव माहेश्वरसूत्राणि । संस्कृतवर्णमाला एतेषु चतुर्दशसु सूत्रेषु निहिता वर्तते ।
तानि सूत्राणि -
- अइउण्
- ऋलृक्
- एओङ्
- ऐऔच्
- हयवरट्
- लण्
- ञमङ्णनम्
- झभञ्
- घढधष्
- जबगडदश्
- खफछठथचटतव् :कपय्
- शषसर्
- हल्
एतेषां सूत्राणाम् अन्तिमः वर्णः इत् इति संज्ञया निर्दिश्यते । वर्णानां गणनावसरे इत्-वर्णाः न परिगणनीयाः इति नियमः विद्यते ।
वर्णविभागः
[सम्पादयतु]वर्णाः द्विविधम् । स्वराः व्यञ्जनानि च इति ।
स्वराः
[सम्पादयतु]अ, इ, उ, ऋ, लृ, ए, ऐ, ओ, औ - इत्येते नव स्वराः । तेषु अ, इ, उ, ऋ - स्वराणां दीर्घरूपाणि सन्ति - आ, ई, ऊ, ॠ । अतः स्वराः त्रयोदश । अ, इ, उ, ऋ, लृ - एते पञ्च ह्रस्वस्वराः । अन्ये दीर्घस्वराः। एतेषु ए, ऐ, ओ, औ - एते संयुक्तस्वराः सन्ध्य्क्षराणि इति वा निर्दिश्यन्ते । स्वराणाम् उच्चारणाय स्वीक्रियमाणं कालमितिम् अनुसृत्य स्वराः ह्रस्वः, दीर्घः, प्लुतः इति त्रिधा विभक्ताः सन्ति ।
- एकमात्रो भवेद् ह्रस्वो द्विमात्रो दीर्घम् उच्यते ।
- त्रिमात्रस्तु प्लुतो ज्ञेयो व्यञ्जनं त्वर्धमात्रकम् ॥
येषां स्वराणाम् उच्चारणाय एकमात्रकालः भवति ते ह्रस्वाः स्वराः । उदा - अ, इ
येषां स्वराणाम् उच्चारणाय द्विमात्रकालः भवति ते दीर्घाः स्वराः । उदा - आ, ई
येषां स्वराणाम् उच्चारणाय द्विमात्रकालाद् अपेक्षया अधिकः कालः भवति ते प्लुताः स्वराः । उदा - आऽ, ईऽ
संयुक्ताक्षरं / सन्ध्यक्षरं नाम स्वरद्वयेन अक्षरद्वयेन सम्पन्नः स्वरः अक्षरम् वा । उदा - ए = अ + इ अथवा अ + ई /आ + इ / आ + ई
ऐ = अ + ए / आ + ए, ओ=अ + उ / अ + ऊ / आ + उ / आ + ऊ, औ = अ + ओ / आ + औ
व्यञ्जनानि
[सम्पादयतु]उपरि दर्शितेषु माहेश्वरसूत्रेषु पञ्चमसूत्रतः अन्तिमसूत्रपर्यन्तं व्यञ्जनानि उक्तानि । व्यञ्जनानि ३३ । तानि वर्गीयव्यञ्जनानि अवर्गीयव्यञ्जनानि इति द्विधा । क्-तः म्-पर्यन्तं वर्गीयव्यञ्जनानि । अन्यानि अवर्गीव्यञ्जनानि ।
वर्गीयव्यञ्जनानि
[सम्पादयतु]- क् ख् ग् घ् ङ् - एते कवर्गः - कण्ठ्यः - एतेषाम् उच्चारणस्थानं कण्ठः
- च् छ् ज् झ् ञ् - एते चवर्गः - तालव्यः - एतेषाम् उच्चारणावसरे जिह्वा तालव्यस्थानं स्पृशति
- ट् ठ् ड् ढ् ण् - एते टवर्गः - मूर्धन्यः - एतेषाम् उच्चारणावसरे मूर्धायाः स्थाने भारः भवति
- त् थ् द् ध् न् - एते तवर्गः - दन्त्यः - एतेषाम् उच्चारणावसरे जिह्वा दन्तान् स्पृशति
- प् फ् ब् भ् म् - एते पवर्गः - ओष्ठ्यः - एतेषाम् उच्चारणावसरे ओष्ठौ परस्परं स्पृशतः
वर्गीयव्यञ्जनेषु प्रतिवर्गस्य आदिमवर्णद्वयं खर्वर्णाः / कर्कशव्यञ्जनानि ।
अन्तिमवर्णद्वयं हश्वर्णाः / मृदु व्यञ्जनानि ।
अवर्गीयव्यञ्जनानि
[सम्पादयतु]- य् र् ल् व् - अन्तस्थवर्णाः
- श् ष् स् ह् - ऊष्मवर्णाः
अवर्गीयव्यञ्जनेषु श् ष् स् - एते कर्कशव्यञ्जनानि । अवशिष्टानि मृदुव्यञ्जनानि ।
प्रतिवर्गस्य प्रथमं तृतीयं पञ्चमं च व्यञ्जनं य् र् ल् व् च अल्पप्राणाः । अवशिष्टाः महाप्राणाः ।
प्रत्येकस्य वर्गस्य पञ्चमं व्यञ्जनं (ङ् ञ् ण् न् म्) अनुनासिकम् इति उच्यते । कण्ठादिस्थानं नासिका - इत्येतेषां साहाय्येन अनुनासिकाणाम् उच्चारणं भवति ।
अनुस्वारः, विसर्गः च
[सम्पादयतु](अं) अम् इत्येषः अनुस्वारः । अस्य चिह्नमस्ति उपरिलिख्यमानः बिन्दुः । अः इत्येषः विसर्गः । अस्य चिह्नमस्ति वर्णस्य पुरतः लिख्यमानं बिन्दुद्वयम् । क् ख् - वर्णयोः पृष्ठतः विद्यमानः विसर्गः जिह्वामूलीयः इति कथ्यते । प् फ् - वर्णयोः पृष्ठतः विद्यमानः विसर्गः उपध्मानीयः इति कथ्यते ।