ह्
दिखावट
|
अस्य उच्चारणस्थानं कण्ठः अस्ति । एषः अवर्गीयव्यञ्जनस्य अष्टमः वर्णः । वर्णमालायां त्रयस्त्रिंशः व्यञ्जनहल्वर्णः। " शषसहा ऊष्माणः" अकुहविसर्जनीयानां कण्ठः " -सि० कौ
नानार्थाः
[सम्पादयतु]"हः शङ्करे हरौ हंसरणरोमाञ्चवाजिषु । गर्वे प्रचेतसि"
"हः कोपे वारणे हश्च तथा शूली प्रकीर्तितः" एकाक्षरकोशः
"हः शिवे सलिले शून्ये धारणे मङ्गलेऽपि च । गगने नकुलीशे च रक्ते नाके च वर्ण्यते " मेदिनीकोशः
"हं क्लीबमस्त्रसुखयोः क्वणितेमणिरोचिषि ।परब्रह्मामन्त्रणयोस्त्रिषु तूत्तानहास्ययोः" नानार्थरत्नमाला
"ह स्यात् सम्बोधने पादपूरणे च विनिग्रहे। नियोगे क्षिपायां स्त्यात् कुत्सायमपि दृश्यते ” मेदिनीकोशः