सामग्री पर जाएँ

तापीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(तापी मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
तापीमण्डलम्
मण्डलम्
गुजरातराज्ये तापीमण्डलम्
गुजरातराज्ये तापीमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters व्यारा
Area
  Total ३,४३५ km
Population
 (२०११)
  Total ८,०६,४८९
Languages
  Official गुजराती, हिन्दी
Website tapi.gujarat.gov.in
दक्षिणगुजरात

तापीमण्डलम् (गुजराती: તાપી જિલ્લો, आङ्ग्ल: Tapi district) इत्येतत् गुजरातराज्यस्य किञ्चन जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति व्यारा इति नगरम् ।

भौगोलिकम्

[सम्पादयतु]

तापीमण्डलस्य विस्तारः ३,४३५ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य दक्षिणभागे इदं जनपदम् अस्ति । अस्य मण्डलस्य पूर्वे महाराष्ट्रराज्यं, पश्चिमे सुरतमण्डलम्, उत्तरे नर्मदामण्डलं, दक्षिणे डाङ्गमण्डलम् अस्ति । अस्मिन् मण्डले १९२६ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- तापी, पूर्णा, अम्बिका ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं तापीमण्डलस्य जनसङ्ख्या ८,०६,४८९ अस्ति । अत्र ४,०२,३९८ पुरुषाः ४,०४,०९१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २४९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २४९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १२.०७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१००४ अस्ति । अत्र साक्षरता ६९.२३% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- १ वालोड २ व्यारा ३ सोनगढ ४ उच्छल ५ निझर

कृषिः वाणिज्यं च

[सम्पादयतु]

तापीमण्डलं कृषिप्रधानम् अस्ति । धान्यानि, कलायः, कार्पासः, फलानि, शाकानि, गन्धद्रव्याणि च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । वस्त्रोत्पादनं, 'सिमेण्ट्', कर्गजोद्यमः, शर्करोत्पादनं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

सोनगढ इत्यस्मिन् उपमण्डले स्थितः दुर्गः, गौमुखं, हिन्दूस्थानसेतुः, डोसवाडाजलबन्धः ('डोसवाडा ड्याम्'), उकाई-जलबन्धः ('उकाई ड्याम्'), रोकाडिया-हनुमानमन्दिरं, परशुरामजी, सूर्यतापेश्वरमन्दिरं, कल्याणरायजीमन्दिरं, गायत्रीमातामन्दिरं, साईबाबामन्दिरं, फिरङ्गीमाताजी-जलाराममन्दिरं, मारीमातामन्दिरं च अस्य मण्डलस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति ।


बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=तापीमण्डलम्&oldid=458261" इत्यस्माद् प्रतिप्राप्तम्