सदस्यः:Pavithra T Nair/प्रयोगपृष्ठम्
— Wikipedian — | |
मम छायाचित्रः | |
नाम | पविथ्र टि नायर् |
---|---|
जन्म |
पविथ्र टि नायर् २४/०२/१९९७ बङलोरे, कर्नतक |
वास्तविकं नाम | पविथ्र टि नायर् |
राष्ट्रियत्वम् | भारतीयः |
देशः | भारतः |
निवासः | बङलोरे |
भाषा | कन्नद, एङ्लिष्, हिन्दि, तेल्गुए, तमिल् |
देशजातिः | भारतीयः |
विद्या उद्योगः च | |
जीविका | छात्रः |
विद्या | बि.कोम्(रेगुलर्) |
प्राथमिक विद्यालयः | श्रि सरस्वति विद्य मन्दिर |
विद्यालयः | कर्मेल् कोन्वेन्ट् |
महाविद्यालयः | क्राइस्ट जुनियर् कोल्लेज् |
विश्वविद्यालयः | क्राइस्ट वर्श्विद्यालये, बेंगलुरू |
रुचयः, इष्टत्मानि, विश्वासः | |
रुचयः | संगीत श्रवणम्, पुस्तक पठनम्, क्रिदङन, नटकम् |
धर्मः | हिन्धु |
राजनीतिः | स्वतंत्र |
चलच्चित्राणि | मनोरंजनाय (हिन्दि,तमिल्) |
पुस्तकानि | बहवः (नूतनवाचन पुस्तकानि - सॅपियन्स, द ट्विस्टेड् (आंग्लम्) केएनवाइ पतंजलि साहित्य (तेलुगु)) |
हरि ॐ। अहम् पविथ्र । मम कथयः प्ररम्भः एवम् भवति। अहं फ़्एब्रुरय् मास्य २४ दिने १९९७ तमे वर्षे । जन्न्म प्रप्थवति बङलोरे नगरे एव। मम अभिरुचयह एवम् सान्ति नर्थनम्, क्रीडनम् , सगीत ष्रवनम् चलन चित्र दर्षनम् मित्रौहि सह भर्मम् अभिवयः च । अभिनयः मह्यम् अथिव रोचते । मित्रैहि सह ब्रह्मनम् लोके अथीव उत्तम अस्ति । खद्य वस्थुषु मम प्रियमस्थि मसालयुक्थ वस्थुनि तथ अधुनिक खद्यनि यता इत्यदि । मम परिवर विश्ये उक्थव्यम चेथ् मम मतुः नाम लथा नायर् मम पितुः नाम थुलसि धरन् पिल्लै । अह येक एव पुत्रि असमी । इदमपि मह्यम् अथिव रोचथे । अहम् जेएवने येभिये कुर्त्व ततः अभिनेथ्रि भवितुम् इचमि। मम उन्मदविषये वक्थवेन्चेथ् अह भहुनि कर्यनि क्रुथ वति यनि मम अपेषथः अधिकनि सन्ति । मम जीवनम् तथा मम जीवन षैलि मर्यम् अथिव रोचथे । धार वाहिनिषु यनि जितानी आगछन्ति तेशम सर्वध गानम् तथा तदेव चिन्तानम्,पिथ्रोः पुरथः अनुर्थम् उक्ताव मित्रैहि यह भ्रमनम् क्रुथ्व किमपि अजान्ति इव अबिनय कर्नम् किन्थु अप्रमक्थैव नतनम् अथनि कनिचन उन्मद कर्यनि मम जीवने कुथनि सन्ति । वर्षकालः मम प्रिय कालः अस्ति । वर्षकलः ऐस् क्रिम् खदनम् अपि मम प्रियम् । मतापित्रुभ्यम् सह बहिर्गथ्व इथस्थथः भ्रमनम , तयो: वथ्सल्यम् प्रप्य प्ररः भवामि येतेन भावि जीवने आत्म विश्वासः जगरिथः भवति । जीवने अहम झौथवहि यथ् जीवनम् च्क्रवत् परिवर्थितम् भवथि । अत्र समयः अतीव अल्पः ।
मम जीवने आर्दश जनाः । - काजोल्[ अभिनेत्रि] - सचिन् टेनदुल्कर्
- रहुल् ड्रविद
- रन्बिर् कप्पोर्
- मधुरि दिक्षित् - पविथ्र टि नायर्
मम अथिव प्रिय पुस्थकः महाभारथः च । महाभारथस्य कविहि व्यसः ।
सर्वदा प्रसन वदनः भुत्वा जीवन यापयेम ।
अतिशयोक्त्यलङ्कारः
[सम्पादयतु]- रूपकातिशयोक्तिः स्यात्रिगीर्याध्यवसानतः ।
- पश्य नीलोत्पलद्वन्द्वान्निस्सरन्ति शिताः शराः॥
विवरणम्[edit]
[सम्पादयतु]विषयस्य स्वशब्देन उल्लेखनं विनापि विषयिवाचकेनैव शब्देन ग्रहणं विषयनिगरणं तत्पूर्वकं विषयस्य विषयिरूपतया अध्यवसानमाहार्यनिश्चयस्तस्मिन् सति रूपकातिशयोक्तिः । यथा नीलोत्पल-शरशब्दाभ्यां लोचनयोः कटाक्षाणां च ग्रहणपूर्वकं तद्रूपताध्यवसानम् ।
उदाहरणान्तरम्[edit]
[सम्पादयतु]- वापी कापि स्फुरति गगने तत्परं सूक्ष्मपद्मा-
- सोपानालीमधिगतवती काञ्चनीमैन्द्रनीली ।
- अग्रे शैल् सुकृतिसुगमौ चन्दनच्छन्नदेशो
- तत्रत्यानां सुलभममृतं संनिधानात्सुधांशोः ॥
अत्र वाप्यादिशब्दैः नाभिप्रभृतयः निगीर्णाः । अत्रातिशयोक्तौ रूपकविशेषणं रूपके दर्शितानां विधानामिहापि संभवः अस्तीत्यतिदेशेन प्रदर्शनार्थम् । तेन अत्रापि आधिक्यन्यूनताविभागश्चेति सर्वमनुसन्धेयम् ।
{{ Infobox settlement
| name
| image_skyline=
| image_caption
}}
अत्रिः
[सम्पादयतु]अस्य मन्वन्तरस्य सप्तर्षिषु अन्यतमः अयम् ऋषिः । अयं ब्रह्ममानसपुत्रः । कर्दमस्य पुत्री अनसूया अस्य पत्नी । अनयोः पुत्राः दत्तात्रेयः, दुर्वासमुनिः, चन्द्रः च । (आधारः - महाभारतम् - आदि ६६, सभा ११, मत्स्य १४४) । अस्य चन्द्रः आर्यमः इति उभौ पुत्रौ (शान्ति २०७) । अस्य नेत्रेण एव चन्द्रः अजायत । (भागवतम् ९ १४) । अस्य शत्रुञ्जयः विपाठः इत्यादयः पुत्राः । असुराः अत्रिं शतद्वारयुक्ते तुषाग्नौ अस्थापयन् । तदा अत्रिः अश्विनीदेवताः संस्तुतवान् । ताः प्रत्यक्षीभूय जलेन अग्निम् उपशम्य अत्रिम् अरक्षन् । ध्रुवस्य पितरम् उत्तानपादम् अत्रिः दत्तकरूपेण स्व्यकरोत् । बुधः अत्रिगोत्रीयः ।
{{ Infobox settlement
| name
| image_skyline=<figure class="mw-default-size">[./सञ्चिका:Red om symbol.png ]<figcaption>om symbol</figcaption></figure>| image_caption
}}
अदितिः
[सम्पादयतु]अदितिः ( ( शृणु) /ˈədɪtɪhɪ/) (हिन्दी: अदिति,आङ्ग्ल: Aditi) देवमाता कथ्यते । इयं कश्यपर्षेः अपरा पत्नी आसीत् । अदितेः अपत्यं पुमान् आदित्यः कथ्यते । अतः द्वादशः आदित्याः अदितेः पुत्राः सन्ति । अदितिः संस्कृतशब्दः वर्तते । अमर्यादिता (Unlimited) इति तस्यार्थः भवति ।
परिचयः[edit]
[सम्पादयतु]अदितिः दक्षप्रजापतेः पुत्री आसीत् । अस्य विवाहः कश्यपर्षिणा सह अभवत् । कश्यपर्षेः द्वे पत्न्यौ आस्ताम् । एका दितिः, अपरा अदितिश्च । दितेः पुत्राः दैत्याः, अदितेः पुत्राः आदित्याः च कथ्यन्ते । मित्रं, वरुणः, धाता, अर्यमा, अंशः, भगः, विवस्वान्, आदित्यः, रुद्रः, इन्द्रः इत्यादयः अदितेः एव पुत्राः आसन् । आधुनिकदृष्ट्या अन्तरिक्षे आदित्याः भ्रमन्ति । अतः एतेषां बोधो भवति । देवाः अदितेः कारणेन एव देवत्वं प्राप्तवन्तः । अदित्या मृतः अण्डः अपि पुनः जीवितः । मार्तण्ड-देवस्य जन्म तथैव अभवत् । गर्भे एव तदण्डस्य जीवः मृतः आसीत् । तथापि अदित्या सः जीवः पुनर्जीवितः । अनन्तरं सः मार्तण्डः अभवत् । मार्तण्डः विश्वकल्याणाय अन्तरिक्षे गतिमान् अस्ति । पितापुत्रयोः, देवीदेवयोः, सर्वेषां वर्णानां प्रजानां च निर्माणं, पोषणं च केवलं माता एव करोति । अतः माता अदितिः ऋग्वेदकालीना माता कथ्यते । ऋग्वेदस्य प्रथममण्डलस्य मन्त्रः अस्ति यत् –
“ | अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स-पिता स-पुत्रः ।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम् [१]॥ |
” |
पौराणिकी कथा[edit]
[सम्पादयतु]स्वर्गलोकस्य सत्तायाः लोभेन दैत्यदेवानां शत्रुता जाता । दैत्यदेवाः परस्परं युद्धं कुर्वन्ति स्म । एकदा द्वयोः भयङ्करं युद्धम् अभवत् । बहुवर्षाणि यावत् तद् युद्धम् अभवत् । तस्मिन् युद्धे देवाः दैत्येभ्यः पराजिताः अभवन् । सर्वे देवाः वने विचरन्तः आसन् । तेषां दुर्दशां दृष्ट्वा अदितिकश्यपौ दुःखितौ अभवताम् । अनन्तरं नारदर्षिणा सूर्योपासनायाः उपायः उक्तः । अदित्या बहुवर्षाणि यावत् सूर्यस्य घोरतपस्या कृता । सूर्यदेवः अदित्याः तपस्यया प्रसन्नः अभवत् । तेन साक्षात् दर्शनं प्रदत्तं, वरदानं याचितुम् उक्तं च ।
अदितिः सूर्यस्य स्तुतिं चकार । तत्पश्चात् अदित्या वरदानं याचितं यत् – “भवान् मम पुमपत्यत्वेन आविर्भवतु” । किञ्चिद्दिनानन्तरं सूर्यस्य तेजः अदित्याः गर्भे समतिष्ठत् । किन्तु एकदा अदितिकश्यपौ प्रकोष्ठे आस्ताम्, तदा कश्यपर्षौ क्रुद्धे सति अदित्याः गर्भस्थशिशवे “मृत” इति शब्दस्य प्रयोगः कृतः आसीत् । तेन तस्मिन् समये एव अदित्याः गर्भात् एकं प्रकाशपुञ्जं बहिरागतम् । तं प्रकाशपुञ्जं दृष्ट्वाकश्यपर्षिः भयभीतः जातः । कश्यपर्षिः सूर्याय क्षमां ययाचे । तदैव आकाशवाणी अभवत् यत् – “भवद्भ्याम् अस्य पुञ्जस्य प्रतिदिनं पूजनं करणीयम् । उचितसमये तस्मात् पुञ्जात् एकस्य पुत्रस्य जन्म भविष्यति । सः भवतोः इच्छां पूर्णीकृत्य ब्रह्माण्डे स्थितः भविष्यति ।
समयान्तरे तस्मात् पुञ्जात् तेजस्वी बालकः उद्भूतः । अयम् एव “आदित्यः”, “मार्तण्डः” वा इति नाम्ना विख्यातः अस्ति । आदित्यस्य तेजः असहनीयम् आसीत् । अतः युद्धे दैत्याः आदित्यस्य तेजसं दृष्ट्वा एव पलायन्तः । सर्वे दैत्याः पाताललोके गतवन्तः आसन् । अन्ते आदित्यः सूर्यदेवस्वरूपेण ब्रह्माण्डस्य मध्यभागे स्थितः । ततः एव ब्रह्माण्डस्य सञ्चालनं कुर्वन् अस्ति [२] ।
दित्याः शापः[edit]
[सम्पादयतु]दक्षप्रजापतेः दितिः, अदितिः इत्याख्ये द्वे पुत्र्यौ आस्ताम् । कश्पर्षिः ताभ्यां सह विवाहम् अकरोत् । अदितिः इन्द्रम् अजीजनत् । सः तेजस्वी आसीत् । अतः दित्या अपि कश्पर्षेः एकः तेजस्वी पुत्रः याचितः । तदा महर्षिणा पयोव्रतं नामकम् उत्तमं व्रतं कर्तुम् उपायः प्रदत्तः । महर्षेः आज्ञानुसारं दित्या तद्व्रतं कृतम् । समयान्तरे दित्याः शरीरं दुर्बलम् अभवत् ।
एकदा अदित्याः आज्ञानुसारम् इन्द्रः दित्याः सेवां कर्तुं गतवान् । इन्द्रेण छलपूर्वकं दित्याः गर्भस्य सप्त भागाः कृताः । यदा ते शिशवः रुदन्तः आसन्, तदा इन्द्रेण उक्तं – “मा रुदन्तु” इति । अनन्तरं पुनः प्रत्येकस्य गर्भस्य सप्त विभागाः कृताः । तेन एकोनपञ्चाशत् पुत्राः समुद्भूताः । ते एकोनपञ्चाशत्मरुद्गणाः कथ्यन्ते । इन्द्रस्य अभद्रकार्येण क्रुद्धा दितिः अदित्यै शापम् अयच्छत् यत् – “इन्द्रस्य राज्यं शीघ्रमेव नक्ष्यति । यथा अदित्या मे गर्भः पातितः, तथैव तस्याः अपि पुत्राः जन्मसमये एव नशिष्यन्ति” इति ।
शापानां प्रभावेण एव द्वापरयुगे कश्यपर्षेः वसुदेवस्वरूपे, अदित्याः देवकीस्वरूपे, दित्याः रोहिणीस्वरूपे च जन्म अभवत् । देवक्याः सप्तपुत्राः कारागारे एव कंसेन हताः । अनन्तरम् अष्टमः पुत्रः विष्णोःअवतारः भगवान् कृष्णः अभवत् । अन्ते कृष्णेन स्वस्य मातुलस्य कंसस्य हननं कृतम् आसीत् [३]।
वामनस्य जन्म[edit]
[सम्पादयतु]राजा बलिः दैत्यराजः आसीत् । सः दैत्येषु सर्वश्रेष्ठः आसीत् । देवानां राज्ञा बलिना सह युद्धः अभवत् । तस्मिन् युद्धे देवाः पराजिताः । देवानां स्थितिः दयनीया जाता । तेषां माता अदितिः अपि दुःखिनी आसीत् । तस्मिन् समये कश्यपर्षिः वने तपस्यां कुर्वन् आसीत् । यदा तस्य तपः समाप्तं जातं, तदा अदितिः देवानां स्थितिं श्रावितवती । देवानां कल्याणाय उपायः अपि तया पृष्टः । पयोव्रतपूर्वकं विष्णुभक्तेः उपायः कश्यपर्षिणा उक्तः ।
अदित्या पयोव्रतपूर्वकं भगवतः विष्णोः उपासना कृता । केषाञ्चन दिनानाम् अनन्तरं भगवान् विष्णुः प्रसन्नः अभवत् । भगवान् विष्णुः प्रकटीभूय उक्तवान् यत् – “हे देवि ! भवता श्रद्धापूर्वकं मम उपासना कृता अस्ति । अतः अहं वरं ददामि यत् – “अहं भवत्याः कुक्षौ अवतरिष्यामि । सः मम वामनावतारः भविष्यति । अहं दैत्यानां संहारं, देवानां रक्षणं च करिष्यामि” ।
कश्यपर्षिः भविष्यदर्शी आसीत् । अतः सः पूर्वमेव ज्ञातवान् आसीत् यत् – “विष्णुः अदित्याः कुक्षौ वामनावतारस्वरूपे अवतरिष्यति” । अनन्तरं तेन स्वस्य तेजः अदित्याः गर्भे स्थापितः । समयान्तरे भगवतः विष्णोः वामनावतारः अभवत् ।
राजा बलिः श्रेष्ठादानवीरः आसीत् । सः लोकत्रयस्य स्वामी आसीत् । देवतानां निवासाय अपि समस्या आसीत् । अतः भगवान् वामनस्वरूपेण बलेः राज्यं प्राप्तवान् । तत्र गत्वा वामनः भिक्षां ययाच । बलिः दानवीरः आसीत् । अतः सः दातुं तत्परः अभवत् । भगवता त्रिपादपरिमिता भूमिः याचिता । भगवतः याचनां श्रुत्वा बलिः पादपरिमिता भूमिं दातुं सङ्कल्पं कर्तुम् उद्यतः आसीत् ।
दैत्याचार्यः शुक्राचार्यः अपि तत्रैव आसीत् । सः ज्ञानवान् आसीत् यत् – “वामनस्वरूपेण साक्षात् भगवान् विष्णुः एव अस्ति । अतः शुक्राचार्येण तस्य सङ्कल्पम् अवरोद्धुं प्रयासः कृतः । किन्तु बलिः वचनपालकः आसीत् । अतः तेन संङ्कल्पः कृतः । अनन्तरं भगवता वामनेन स्वस्य विशालस्वरूपं कृत्वा प्रथमे पादे स्वर्गलोकं, द्वितीये पादे मृत्युलोकं च मापितम् । अनन्तरम् एकः पादः अवशिष्टः आसीत् । तदा बलिराज्ञा उक्तं यत् – “तृतीयपादं मे शिरसि स्थापयतु” इति । भगवता तृतीयपादः बलेः शिरसि स्थापितः । तेन बलिः पाताललोकं प्राप्तवान् । पुनः इन्द्रः स्वर्गलोकस्य राजा अभवत् । देवाः अपि सुःखिनः अभवन्[४] ।
गौः अपि अदित्याः स्वरूपम् अस्ति इति ऋग्वेदस्य अष्टममण्डले प्राप्यते यत् –
“ | माता रुद्राणां दुहिता वसूनां स्वसादित्यानाममृतस्य नाभिः ।
प्र नु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट ॥१५॥ |
” |
अर्थात् – “गोस्वरूपाम् अदितिं मा अवधीत्” । अनेन स्पष्टं भवति यत् अदितिः गोस्वरूपा आसीत् । अतः आधुनिके काले गोहत्या भवन्ती अस्ति । गोहत्यानिषेधस्य कारणम् अदितिः एव अस्ति । यतः गौः अदित्याः स्वरूपं, जगन्माता च वर्तते । अतः अस्माभिः गोहत्या न करणीया[५]।
सर्वश्रेष्ठमातृत्वम्[edit]
[सम्पादयतु]इन्द्रः अदितेः पुत्रः मन्यते । अतः एकदा वामदेवेन अदितिः स्मारिता यत् – “हे देवि ! इन्द्रेण भवत्यै बहूनि कष्टानि प्रदत्तानि आसन् । भवता दीर्घकालं यावत् गर्भे इन्द्रस्य पोषणं कृतम् आसीत् । किन्तु गर्भे अपि इन्द्रेण बहूनि कष्टानि प्रदत्तानि” । तदा अदितिः उक्तवती यत् – “ न , एवं नास्ति । मम पुत्रः इन्द्रः भूतकालीनेषु, भविष्यत्कालीनेषु देवेषु, मनुष्येषु च अद्वितीयः वर्तते । अदितेः एतद्वचनं श्रुत्वा वामदेवः प्रभावितः जातः । यतः येन सर्वाधिकानि कष्टानि प्रदत्तानि सन्ति, तस्यै अपि महत्त्वं प्रददाति । तादृशी माता साधारणा न भवति । अदितेः मातृवात्सल्येन, पुत्रप्रेम्णा च वामदेवः अत्यन्तं प्रभावितः अभवत् ।
वामदेवेन अदितिं परीक्षितुं बहवः प्रयासाः कृताः । तेन इन्द्रस्य अनेकेषां तापदायकानां दुष्कृत्यानां, उपद्रवाणां च वर्णनं कृतम् । तथापि अदितिः पुत्रस्य सहस्राधिकापराधान् अपरिगणय्य केवलं तस्य गुणाः एव पश्यति स्म । यदा इन्द्रः गर्भे आसीत्, तदा तस्य उपद्रवाः अधिकाः आसन् । तेन सर्वत्र अशान्तिः आसीत् । देवाः, जनाः च सर्वे त्रस्ताः आसन् ।
तदा सर्वैः विचारितम् आसीत् यत् – “गर्भे एव इन्द्रस्य हननं करणीयम्” । किन्तु अदित्या इन्द्रः आवृतः । अदित्या मारकेभ्यः तस्य रक्षणम् अपि कृतम् आसीत् । यदा वामदेवेन इयं घटना श्रुता, तदा सः अपि चकितः जातः । अनन्तरं सः अपि इन्द्रस्य स्तुतिं कुर्वन् आसीत् । तस्मात् कारणादेव वामदेवेन इन्द्रविषयकानि बहूनि स्तोत्राणि अपि रचितानि आसन् [६]।
अदितिः इन्द्रस्य श्रेष्ठा माता इव पालनं कृतम् आसीत् । तस्य सर्वासाम् आवश्यकतानां पूर्तिः कृता । किन्तु “सः अपमार्गं मा गच्छेत्” इत्यपि तया चिन्तितम् आसीत् । ’अन्यायस्य विरोधे कार्याणि करणीयानि” इति अदित्या इन्द्रः शिक्षितः । अनेन प्रकारेन अदित्या स्वपुत्रः इन्द्रः विश्वकल्याणाय निरन्तरं सङ्घर्षशीलः कारितः । तया स्वपुत्राः कठोरव्यवहारेण, वात्सल्येन च सर्वेषु क्षेत्रेषु उच्चपदेषु स्थापिताः आसन् ।
ऋग्वेदे अपि उक्तं यत् –
“ | सं कर्मार इवाधमत् देवानां पूर्व्ये युगे[७]। | ” |
अदितिः वैदिकी श्रेष्ठा नारी अस्ति । सा मातृवात्सल्येन परिपूर्णा अस्ति । जगद्गुरुणा शङ्कराचार्येण रचिते “देव्यपराधक्षमापनम्” इति स्तोत्रे अपि उक्तम् अस्ति यत् – “कुपुत्रो जायेत क्वचिदपि कुमाता न भवति” इति । स्त्रीणां गुणेषु प्रेम, आत्मीयता, अवर्णनीयं वात्सल्यं च अन्यतमाः भवन्ति । अदितिः एते सर्वे गुणाः धरति स्म ।
अदित्या प्रमाणीकृतं यत् – “सा श्रेष्ठा माता अस्ति” । यथा काचन स्त्री मातृस्वरूपे पुत्रस्य पालनं करोति, तथैव कन्यास्वरूपेण पितुः, पत्नीस्वरूपे पत्युः च चिन्तां करोति । पुत्रस्य अपेक्षा पुत्री एव पित्रे स्वाभाविकस्नेहं, आत्मीयताम्, आधारम्, आश्रयञ्च यच्छति । अदित्या अपि एतावत् एव कृतम् आसीत् । ऋग्वेदे अपि लिखितं यत् –
“ | अदितिर्ह्यजनिष्ठ दक्ष या दुहिता तव ।[७] | ” |
शतपथब्राह्मणग्रन्थे अपि पितागुर्वोः अपेक्षया माता श्रेष्ठा अस्ति इति कथितम् अस्ति यत् –
“ | मातृवान् पितृवान् आचार्यवान पुरुषो वेद । | ” |
माता महत्परिश्रमेण बालकान् संस्करोति । सा समाजस्य मार्गदर्शनं कृत्वा सर्वेभ्यः सुखं यच्छति । अतः अदितिः देवतानां “निर्माणकर्त्री” इति कथ्यते । सा जगन्माता अपि कथ्यते [६] ।
जगते योगदानम्[edit]
[सम्पादयतु]अस्मिन् जगति अदितेः महत्वपूर्णयोगदानम् आसीत् । अदित्या एव अस्य जगतः निर्माणं कृत्वा प्रत्यक्षस्वरूपं प्रदत्तम् आसीत् । अनेन स्पष्टं भवति यत् – “ इयं केवलं स्वस्य पुत्रस्य चिन्तां न करोति स्म, अपितु सर्वेषां हितं समानदृष्ट्या पश्यति स्म । मातुः नेतृत्वेन एव संस्काराणां सिञ्चनं भवति । मानवः समाजश्च सर्वदा सुखी, समृद्धश्च भवेत् । अतः मातुः कार्यं महत्वपूर्णं भवति । तेजसः, ऊर्जायाः च उपयोगः विश्वस्य कल्याणाय, अन्येभ्यः जीवनं प्रदातुं च कर्त्तव्यः । अदित्या अपि एतानि कार्याणि कृतानि आसन् ।
अदितिः बुद्धिमती आसीत् । “विश्वोत्पत्तिः कथं भवति” इत्यस्य ज्ञानमपि आसीत् । तया उक्तं यत् –
“ | देवानांपूर्व्ये युगे सतः सदजायत । | ” |
पुरा किमपि नासीत् । यतः तस्मिन् समये इदं विश्वम् अव्यक्तम् आसीत् । समयान्तरे व्यक्तजगतः निर्माणं जातम् । ततः परं वृक्षाः समुद्भूताः । विश्वस्य मूलाधारः वृक्षः एव । वृक्षेभ्यः एव मृत्तिकायाः निर्माणं भवति । यदि वृक्षाः न भवेयुः, तर्हि मरुः इव इदं विश्वं भविष्यति । अतः अदित्या उक्तं यत् – वृक्षेभ्यः एव भुवः निर्माणम् अभवत् । वृक्षैः एव मृत्तिका निर्मिता । यथा ऋग्वेदे प्राप्यते यत् -
“ | भूर्जज्ञ उत्तानपदो भुव आशा अजायन्त[७] । | ” |
अनन्तरं दिशः समुद्भूताः । ततः परं निर्माणशक्त्या अदितिस्वरूपे मातृत्वस्य निर्माणम् जातम् । तदनन्तरम् अदितिः सशक्तान्, नेतृत्वगुणयुतान् देवान् अजीजनत् । ते देवाः जीवनप्रदाः, कल्याणदाः, सुखदाः, समृद्धिदाः च अभवन् । सर्वत्र वन्द्याः, अमृतबन्धवः च सन्ति ते देवाः । पुनश्च ऋग्वेदे –
“ | तां देवा अन्वजायन्त भद्रा अमृतबन्धवः । [७] । | ” |
अदितिः विश्वस्य जीवनाय, कल्याणाय च रक्तमज्जामांसयुतान् सप्तपुत्रान् अजीजनत् । अनन्तरं विश्वस्य सञ्चालनाय मार्गदर्शनाय च अष्टमस्य मार्तण्डस्य जन्म अभवत् । तदा विश्वचक्रम् आरब्धम् । जन्ममरणयोः शृङ्खला निर्मिता । अदितेः ज्ञानं, ध्यानं, कर्त्तव्यं चैव मातृत्वं वर्तते । अतः मातुः अधिकं महत्त्वं वर्तते । मातुः अदितेः सम्पूर्णजीवनेन मातुः महत्त्वम् अवबुद्ध्यते [८]।
अनकोना इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्ति ।
अद्भुतरसः
[सम्पादयतु]अद्भुतस्य विस्मयः स्थायिभावो भवति । अपूर्ववस्तुदर्शनादिभिर्जायमानश्चित्तविस्तारो विस्मयः । अलौकिकवस्तुदर्शनादिजन्मा आश्चर्याख्यो विस्मयः इति रसगङ्गाधरकारः । अद् इति आश्चर्यार्थकाव्ययः भवति। भू धातोः डुतच् प्रत्यये कृते "अद्भुत" इति पदस्य निष्पत्तिः भवति। "तर्कातिगं तादृशं नः” इति यादवकोशात् ज्ञायते यत् तर्कस्याप्राप्तिविषयः अद्भुतरसः भवति। अयं रसः गन्धर्वदेवतात्मकः भवति। अस्य रसस्य वर्णः हरिद्रायुक्तः भवति। आश्चर्यकरणि कार्याणि यः करोति सः आलम्बनविभावः भवति। आश्चर्यकरकार्यम् उद्दीपनविभावः भवति। स्वेदः, रोमाञ्चनम्, गद्गदस्वरः, नेत्रविकासादयः अनुभावाः भवन्ति। हर्षः, वितर्कः, सम्भ्रान्त्यादयः व्यभिचारिभावाः भवन्ति। एतैः विभावानुभावव्यभिचारिभावैः मिलितः स्थायिभावः अद्भुतः रसः भवति। अदृष्टस्य दर्शनेन, अश्र्रुतस्य श्रवणेन, दिव्यदर्शनेन, विज्ञानेन, मायया, इन्द्रजालादिभिः च अद्भुतरसस्य उत्पत्तिः भविष्यति। अस्य रसस्य वर्णनं भरतमुनिः स्वनाट्यशास्त्रग्रन्थे एवं निरूपितवान् अस्ति। यत्त्वतिशयार्थयुक्तं वाक्यं शिल्पं च कर्मरूपं वा।
ततॉसर्वमद्भुतरसे विभावरूपं हि विज्ञेयम्॥ इति।
{{ Infobox settlement
| name
| image_skyline=
| image_caption
}}
अद्य धारा निराधारा… निरालम्बा सरस्वती…
[सम्पादयतु]अद्य धारा निराधारा निरालम्बा सरस्वती’ इति इयं पङ्क्ति: प्राय: संस्कृतवाङ्मयस्य अध्येतॄणां सर्वेषामपि नितरां परिचितपूर्वा स्यादेव । यद्यपि बल्लालकृते: भोजप्रबन्धस्य इयं पङ्क्ति: तत्कालीना (भोजराजस्य अयं चरमश्लोक: कालिदासेन इत्थं गीत: इति उल्लेखपूर्वकं तस्मिन् ग्रन्थे उपलभ्यमाना) तथापि कालेऽस्मिन् नितराम् अन्वर्थतां भजते । यस्मिन् भारतवर्षे विद्यारम्भकाले - ‘सरस्वति नमस्तुभ्यं वरदे कामरूपिणि । विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥ इति अधुनातनकालेऽपि गीयते तस्यैव भारतवर्षस्य मध्यभागे स्थितस्य, विद्याधिदेवताया: सरस्वत्या: मन्दिरस्य करुणापूर्णा गाथा इयम् !
प्रबन्धचिन्तामणि: इति जैनकृति: वदति - ‘परमारवंशीय: राजा भोज: देव्या: सरस्वत्या: उपासनार्थम् 1034 तमे क्रिस्ताब्दे अधुनातने मध्यप्रदेशराज्ये विद्यमाने धारानगरे (धार इति एतत्कालीनं नाम) भोजशालां निर्मापितवान्’ इति । भारतीयाध्यात्मिकताया: संस्कृतभाषायाश्च अध्ययनकेन्द्रत्वेन प्रथिता इयं भोजशाला सवसतिक: विश्वविद्यालय: एव आसीत् । चतुर्दशशताधिका: कवय: विद्वांस: तत्त्वज्ञाश्च इमां भोजशालाम् आश्रितवन्त: आसन् इति श्रूयते । तेषु माघ:, बाणभट्ट:, काालिदास:, भवभूति:, मानतुङ्ग:, भास्करभट्ट:, धनपाल: इत्यादय: प्रमुखा: । अस्यामेव भोजशालायाम् - अवनिकूर्मशतकं, सरस्वतीकण्ठाभरणं, राजमार्तण्ड:, तिथिसारणिका इत्याद्या: अमूल्या: कृतय: रचिता: । धारजनपदस्य देशविचारकोश: (Gazzetteer) ज्ञापयति यत् भोजशाला अत्यन्तं प्रसिद्धं शिक्षणकेन्द्रम् आसीत्, यत्र भारतस्य सर्वेषामपि मतधर्माणाम् अध्ययनम् अध्यापनं च प्रचलति स्म इति । स्वयं राजा भोज: चतुष्षष्ट्यां कलासु, षट्त्रिंशति युद्धविद्यासु च कुशल: आसीत् । राजा भोज: व्योमशास्त्रम्, आयुर्वेद:, व्याकरणं, राजनीति:, शिल्पशात्रं, वेदान्त:, वास्तुशास्त्रम् इत्यादीन् विषयान् अधिकृत्य 84 ग्रन्थान् रचितवान् इति उल्लेख: उपलभ्यते । एतस्य राज्ञ: शासनकाल: 1000 त: 1055 तमक्रिस्ताब्दपर्यन्तम् । एतावत्पर्यन्तम् अस्माभि: ज्ञात: अयं विषय: - सुवर्णमयस्य अध्यायस्य चित्ररूप: ।
किन्तु किं जातं तत: ? द्वादशे शतके चालुक्यवंशीया: सोलङ्किवंशीयाश्च राजान: धारानगरं वशीकृत्य तं सरस्वतीविग्रहम् अपहृत्य गुजरातराज्यं प्रति नीत्वा 1271 तमे वर्षे कञ्चन देवालयं निर्माय तत्र प्रतिष्ठापितवन्त: । एतावता न कापि महती हानि: जाता । तत: यवनानाम् आक्रमणम् आरब्धम् । यवना: तत्रत्यं ग्रन्थभाण्डागारं समग्रमपि नाशितवन्त: । देहलीराज्ञां वशं गता अभवत् भोजशाला । तादृशेषु नाशयितॄषु प्रमुख: आसीत् अल्लावुद्दीनखिल्जी । (शासनकाल: - 1305 तम: क्रिस्ताब्द:) तत: पश्चात् तत्र किञ्चन यवनानां प्रार्थनामन्दिरं निर्मितम् अभवत् । अद्यापि अयं प्रदेश: यवनप्रार्थनामन्दिरत्वेनैव सर्वत्र निर्दिश्यते ।
1902 तमे वर्षे केनचित् अनामिकेन छायाचित्रग्राहकेण अस्य यवनप्रार्थना-केन्द्रस्य छायाचित्रं स्वीकृतम् । 1903 तमे वर्षे श्रीमान् के.के.लेलेवर्य:, यश्च धारानगर्या: (धारप्रदेशस्य) अध्ययनाधीक्षक: (Superintendent Of Education) आसीत् स: - अर्जुनवर्मकालीनं संस्कृतप्राकृतमिश्रितं शिलालेखं दृष्टवान् ‘कमाल्मौलामस्जिद्’(भोजशाला)भित्तिषु । भोजराजस्य उत्तराधिकारी राजा अनुजवर्मा (1210 - 1215) आत्मानं भोजराजस्य अंशावतारं कथयति स्म । तत्सम्बद्धं सुचारुरीत्या उत्कीर्णं शिलाशासनम् अवलोकयितुं शक्यं भोजशालाया: प्रवेशसमनन्तरमेव । ‘बालसरस्वती’ इति ख्यात: कवि: मदन: ‘विजयश्रीनाटिका’ इति रूपकं रचयामास । ता: पङ्क्तय: तत्र उत्कीर्णा: सन्ति
एवम् अतिमहत्त्वं वहन् अयं सरस्वतीविग्रह: अधुना कुत्र वर्तते ? इति पृष्टे सति उत्तरं तु - ब्रिटिश् म्यूसियम् इत्यत्र इति !! अस्माकं दीर्घ-कालीनं दास्यं स्मारयन् अयं विग्रह: वर्तते लण्डन्नगरे !!!
मान्य: प्रफुल्लगोराडियावर्य: स्वीये लेखने लिखति - ‘‘2001 तमे वर्षे मया धारानगरस्य प्रवास: कृत: । भोजराजेन एकादशे शतके निर्मिता भोजशाला अवश्यं द्रष्टव्या इति मम तीव्रा इच्छा अवर्तत । किन्तु यदा अहं तत्र गत:, तदा मम प्रवेश: तत्रत्यै: आरक्षकै: निराकृत: । भूतपूर्व: सांसद: अहम् इति ज्ञात्वा अपि तै: एवम् आचरितम् । मया उर्दुभाषया व्यवहार: कृत: इत्यत: ‘शुक्रवासरे भवान् तत्र उपस्थाय प्रवेशं प्राप्तुम् अर्हति’ इति अकथयत् आरक्षकाधीक्षक: । तस्य एवं कथने इदं कारणम् आसीत् - प्रतिशुक्रवासरं यवनेभ्य: प्रवेश: कल्प्यते स्म प्रार्थना (नमाज्) निमित्तम् । किन्तु हिन्दूनाम् अन्या एव कथा । यदा मया उक्तं - ‘नाहं यवन:, अपि तु हिन्दु:’ इति, तदा तेन उक्तं - ‘तर्हि भवता आगामिवसन्तपञ्चमीपर्यन्तम् अवश्यं प्रतीक्षणीयम् । नान्य: पन्था:’ इति । 1997 तमे वर्षे दिग्विजयसिङ्गवर्यस्य सर्वकारेण घोषित: अयं पक्षपातपूर्ण: निर्णय: एव स्वस्य असहायकाताया: कारणम् इति विवृतवान् स: आरक्षकाधीक्षक: ।’’
अन्ताराष्ट्रियस्तरे ख्यात: इतिहासतज्ज्ञ: भूगर्भशास्त्रज्ञश्च डा विष्णु-श्रीधरवाकणकरवर्य: 1961 तमे वर्षे लण्डन्नगरं गत्वा तत्रत्यस्य सरस्वतीविग्रहस्य विषये अध्ययनं कृतवान् । तस्य विग्रहस्य प्रत्यानयनाय तेन प्रयत्न: अपि विहित: । एतत्सम्बद्धतया स: प्रधानमन्त्रिणं नेहरूवर्यं, 1977 तमे वर्षे इन्दिरागान्धिवर्यां च सन्दृष्टवान् । किन्तु तेन न किमपि फलं सिद्धम् ।
एषु दिनेषु तन्नाम सप्टम्बर्मासस्य 25 तमे दिनाङ्के जनतापक्षस्य अध्यक्ष: सुब्रह्मण्यस्वामिवर्य: भोजशालां प्रति सन्दर्शनाय गत: आसीत् । स्वयं सर्वमपि प्रत्यक्षं दृष्ट्वा तेन लण्डन्नगरस्य न्यायालये अस्य सरस्वती-विग्रहस्य प्रत्यानयनाय अभियोग: कृत: वर्तते । किं ब्रिटिश्सर्वकार: एनं विग्रहं प्रतिदद्यात् ? तत्रत्या: भक्ता: तु सरस्वत्या: मूलविग्रहस्य प्रत्यागमनमेव प्रतीक्षमाणा: पूजादिकं निर्वर्तयन्त: वर्तन्ते । प्रति-शुक्रवासरं यवना: तत्र प्रार्थनां कुर्वन्ति । प्रतिमङ्गल-वासरं हिन्दव: पूजां कुर्वन्ति । अवशिष्टेषु दिनेषु कस्यापि प्रवेश: नास्ति तत्र । यदि सुब्रह्यण्य-स्वामिवर्यस्य अभियोग: फलप्रद: स्यात्, तर्हि विदेशे विद्यमाना: सर्वेऽपि भारतमूला: विग्रहा: अवश्यं प्रत्यागच्छेयु: । मुख्यमन्त्रिणि शिवराजे शासति - ‘अद्य धारा सदाधारा सदालम्बा सरस्वती’ इति कालिदासस्य श्लोकपङ्क्ति: किम् अन्वर्थतां प्राप्नुयात् इत्यस्य तु काल: एव उत्तरं दातुं प्रभवेत् ।
ज्ञानपीठपुरस्कारम् अलङ्करोति सरस्वतीज्ञानपीठप्रशस्ति: विविधासु भारतीयभाषासु, भाषासाहित्य-क्षेत्रे कृतभूरिपरिश्रमेभ्य: प्रतिभावद्भ्य: श्रेष्ठविद्वद्भ्य: प्रदीयते इति तु सर्वै: ज्ञातपूर्व: विषय: । प्रशस्तिविजेतृभ्य: विद्वद्भ्य: वाग्देव्या: सरस्वत्या: विग्रह: प्रदीयते । अयं च विग्रह:, एकादशे शतके धारा-नगरे भोजराजेन विनिर्मितस्य सरस्वती-मन्दिरस्य सरस्वतीविग्रहम् आधारीकृत्य उत्कीर्ण: । तथैव तेभ्य: दीयमाने कांस्य-फलके अपि अस्या: एव रूपम् उत्कीर्णं वर्तते । वाग्देव्या: सरस्वत्या: चतुर्षु हस्तेषु कमण्डलुग्रन्थकमलादिकं स्फुटम् अवलोकयितुं शक्यम् । सर्वेऽप्येते सङ्केता: ज्ञानस्य आध्यात्मिकदृष्टेश्च प्रतिबिम्बत्वेन परिगण्यन्ते ।
{{ Infobox settlement | name = अद्य धारा निराधारा… निरालम्बा सरस्वती… | image_skyline = Sri Sanjeevi Raya Hanuman Temple.jpg | image_caption = अद्य धारा निराधारा… निरालम्बा सरस्वती…
अद्वैतवेदान्तः
[सम्पादयतु]अद्वैतवेदान्तः (Advaita Vedanta) दर्शनेषु अन्यतमः। न द्वैतम् अद्वैतम् । ज्ञानस्य चरमस्थितिरेव अद्वैतमित्युच्यते । शङ्कराचार्याणाम् आगमनात् प्रागपि अद्वैतसिद्धान्तः आसीत् । परन्तु शङ्कराचार्याणाम् आगमनानन्तरं प्रसिद्धिं गतम् एतत् दर्शनम् । आस्य मतस्य प्रवर्तकः शङ्कराचार्यः । अद्वैतदर्शनं शङ्कराचार्यः प्रस्थानत्रयेण श्रुति स्मृतिसूत्रैः समर्थितवान् अस्ति। अतः अस्य दर्शनस्य "शाङ्करदर्शनम्" इत्यपि प्रसिद्धिः अस्ति। अस्मिन् दर्शने जीवब्रह्मणोः ऐक्यं प्रतिपादयन्ति। प्रपञ्चे जीवभावङ्गतस्य विवेकिनः प्रत्येकपुरुषस्य धर्मार्थकाममोक्षाख्याः चत्वारः पुरुषार्थाः सन्ति । चतुर्षु एतेषु आद्यास्त्रयः पाञ्चभौतिकेऽस्मिन् प्रपञ्चे भौतिकस्य जीवस्य कृते इहफलभोगत्वेन विहिताः भवन्ति । अन्तिमः मोक्षः परमसुखात्मकः इति कथनात् अयं परमपुरुषार्थः भवति । चतुर्णामेतेषां चतुर्वर्गत्वेन व्यवहारः। वर्गचतुष्टये आद्यास्त्रयः तत्तत्पुरुषमत्यनुसारम् उत्पन्नत्वात् एतेषाम् अनित्यत्वम् उच्यते । अन्तिमत्वेन निर्विशेषात्मकं सुखं प्राप्यते इत्यतः मोक्षः नित्यः इति शास्त्रेषु गीयते। नित्यभूतस्यास्य मौक्षस्वरूपस्य प्राप्त्यर्थं विभिन्नाः दर्शनकाराः भिन्नभिन्नप्रकारेण स्वमतं व्याचक्षुः । वेदान्तशास्त्रे केवलमात्मस्वरूपं प्रतिपाद्यते इति हेतोः मुमुक्षुः वेदान्तशास्त्रपठनश्रवणमननादिषु प्रवृत्तो भवति । तस्मात् एतत् शास्त्रं सर्वेषां शास्त्राणां शिरोमणिभूतं भवति । अस्मिन्नपि शास्त्रे आत्मनः स्वरूपप्रतिपादनं महता विस्तरेण प्रतिपादितमस्ति । यत्र समस्तवेदमन्त्राणां लक्ष्यत्वेन अन्तिमं तत्त्वमेकं वर्णितं भवति तत् वेदान्तशास्त्रमित्युच्यते ।
उपनिषन्मन्त्रसमूहस्यापि वेदान्तः इति संज्ञा, यतः समस्तवेदानां परमलक्ष्यात्मकं तत्त्वमुपनिषन्मन्त्रेषु निगदितमस्ति । परिदृश्यमानस्य चराचरात्मकस्य सकलप्रपञ्चस्य सृष्टिकर्तृत्वेन मूलकारणं यद् ब्रह्म, तस्य सम्पूर्णं विवेचनात्मकं ज्ञानमुपनिषत्स्वेव लभ्यते, एवमन्यत्र न प्राप्यते । अतः वेदानामन्तिमं रहस्यमुपनिषदि कथितत्वात् उपनिषत्वेदान्तत्वेन आद्रियते । उक्तं च वेदान्तो नाम उपनिषत्प्रमाणम् इति । परन्तु उपनिषत्सु अत्यन्तरहस्यत्वेन गूढतमभावाः सन्तीति कृत्वा उपनिषदर्थं सर्वैः ज्ञातुं न शक्यते । सर्वेषां सम्यगवबोधनाय परमकारुणिकः वेदव्यासः उपनिषत्सारभूतानाम् अर्थान् एकीकृत्य सूत्ररूपेण प्रणिनाय । यानि इदानीं गीयन्ते ब्रह्मसूत्राणि अथवा वेदान्तसूत्राणि इति । ब्रह्मसूत्रात्मकः भागः अत्यल्पः, अथापि महत्वपूर्णः इति कृत्वा एतेषां सूत्राणां व्याख्याने आहत्य एकादशजनाः स्वजन्म समर्पितवन्तः ।
{{ Infobox settlement
| name
| image_skyline=<figure class="mw-default-size">[./सञ्चिका:Pandith.jpg सञ्चिका:Pandith.jpg]<figcaption>sankaracharya</figcaption></figure>| image_caption
}}
अद्वैतवेदान्ते कारणकार्यभावः
[सम्पादयतु]अस्य जगतः कारणं ब्रह्म, कार्यं तु जगत्। अनयोः मध्ये कार्यकारणभावः विद्यते। तत्र ब्रह्म जगतः निमित्तोपादानकरणम् इत्युच्यते। कारणं द्विविधम्:
- निमित्तकारणम्।
- उपादानकारणम् चेति।
कार्यभिन्नं कारणं निमित्तकारणम्। कार्याभिन्नं कारणम् उपादानकारणम्। अस्मिन् मते कारणं कार्ये अनुवर्तते। एवं कार्यकारणयोः अनन्यत्वं अङ्गीकुर्वन्ति।
{{ Infobox settlement
| name
| image_skyline=<figure class="mw-default-size">[./सञ्चिका:Rishikumaraha.jpg सञ्चिका:Rishikumaraha.jpg]<figcaption>pandith</figcaption></figure>| image_caption
}}
अनकोना
[सम्पादयतु]अनकोना इटली देशस्य एकः नगरं अस्ति । इटली यूरोप दक्षिणे एक: प्राचीन क्षेत्र अस्ति ।
{{ Infobox settlement
| name
| image_skyline=
| image_caption
}}
अनङ्गजीवनम्
[सम्पादयतु]कोटुङ्ङल्लूर् कोच्चुम्णित्तम्पुरान् (१८५३-१९२६) महोदयेन विरचितं भाणं भवति अनङ्गजीवनम् । श्रृङ्गारसारस्य माणिक्यमालायाः च परस्परानुरागः एव विषयः । कुलशेखरपुरे विष्णुदेवालये उत्सववेलायां भाणमिदम् ऐदम्प्राथम्येन अवतारितम् । अस्य सम्पादनंकेरळविश्वविद्यालयतः १९५८ तमे संवत्सरे शूरनाट् कुञ्ञन् पिल्लमहोदयेन कृतम् ।
अनन्तपद्मनाभदेवालयः (तिरुवनन्तपुरम्)
[सम्पादयतु]प्रपञ्चस्य सम्पद्भरितदेवस्थानेषु अन्यतमम् तथा सम्पदा प्रसिध्दं देवस्थानं केरलस्य राजधान्यां तिरुवनन्तपुरे अस्ति । तदेव अनन्तपद्मनाभस्वामिनः देवस्थानम् । प्राचीनः देवालयः एषः गतवर्षपर्यन्तं (२०११ जनवरी) तिरुवाङ्कूरुराजवंशस्य नियन्त्रणे आसीत् । राजवंशस्थाः एव विश्वस्थाः सन्तः देवस्थानस्य निर्वहणं कुर्वन्ति स्म ।
अनन्तपद्मनाभदेवालयः(तिरुवनन्तपुरम्)
८०वर्षेभ्यः पूर्वं तन्नाम १९३१तमवर्षस्य डिसेम्बरमासस्य ६ दिनाङ्के देवस्थानस्य स्वर्णाभरणस्थापनस्य भूतलप्रकोष्ठं तिरुवाङ्कूरुमहाराजः चित्तिरतिरुनलबलरामवर्मणः सम्मुखे यदा उद्घाटितं तदा तत्र भूतलकुसूलः आसीत् । । तस्मिन् ३०० स्वर्णकलशाः, स्वर्णस्य तथा रजतस्य नाणकानि, आभरणानि, वज्राभरणानि, अमूल्यानि रत्नानि च आसन् । अग्निशामकाधिकारिणां साहाय्येन देवस्थानस्य भूम्यन्तरगुहाप्रकोष्ठम् उद्घाट्य तत्र विद्यमानानि अमूल्यवस्तूनि शोधयित्वा पट्टिकामेका सज्जीकर्तुं २०११तमवर्षस्य जनवरीमासे परमोच्चन्यायालयेन पुरातत्त्वशाखां प्रति आदेशः कृतः अस्ति । आदेशानुसारं देवस्थानस्य सर्वाभरणानां , सर्वसंपत्तेः च परिशीलनं कृतम् । स्वर्णाभरणेषु १८ तमशतकस्य नेपोलियन् युगस्य नाणकानि सार्धत्रिपादपरिमिता महाविष्णोः ३० के. जि.भारयुक्ता मूर्तिरेका लब्धा । देवस्थानं तथा तस्य सम्पत्तिं राज्यसर्वकारः निर्वहतु इति केरलस्य उच्चन्यायालयेन २०११तमे वर्षे जनवरीमासस्य ३१ तमे दिने आदेशः प्रकटितः । देवस्थानस्य विश्वस्थमण्डल्याः अध्यक्षस्थाने स्थिताः राजवंशजाः निर्णयस्यास्य औचित्यं पृष्टवन्तः । राज्यन्यायालयस्य निर्णयं तिरस्कुर्वन् सर्वोच्चन्यायालयः देवस्थानस्य अन्तः बहिः च अतिसुरक्षायाः व्यवस्थां कर्तुं तथा देवस्थानस्य अमूल्यवस्तूनां मौल्यनिर्देशं कर्तुम् आदेशम् अकरोत् । देवस्थानस्य अन्तः तथा बहिः सुरक्षितव्यवस्थाकरणेन स्वर्णाभरणस्य तथा सर्वसंपत्तेः मौल्यमापनेन ज्ञातम् यत् पद्मनाभस्वामिदेवालयः भारते अत्यन्तसम्पद्भरितदेवस्थानमिति । सम्पद्दृष्ट्या तिरुमलतिरुपतिवेङ्कटेश्वरदेवस्थानादपि सम्पद्भरितम् इति अवगतम् । स्वर्णाभरणस्य, इतरसम्पत्तेः मौल्यं तावत् ३२०दशलक्ष (अमेरिकन् डालर् ७.१४ मि.अमेरिकयाः डालर्) रुप्यकाणि । स्वर्णाभरणस्य मौल्यं १.२ ट्रिलियन् रुप्यकाणि (६.७६बि.डालर्) (१,२०००००००० रुप्यकाणि) एतादृशसम्पत्तिः जगति यस्मिन् कस्मिन् देवालये अपि न दृश्यते । अतः एतत् देवस्थानं भूमण्डले अत्यन्तं सम्पद्भरितं देवस्थानम् । देवस्थानस्य सर्वाभरणानि प्राचीनानि अतः अद्यत्वे तस्य मूल्यं दशगुणितं अधिकं भवति । देवस्थानस्य सर्वाणि आभरणानि पुरा वणिग्भिः, यात्रिभिः राजवंशस्थैः भक्तजनैः समर्पितानि सन्ति । इतिहासज्ञैः उच्यते यत् एतत् कररुपेण वा परितोषिकरूपेण राज्ञे समर्पितं स्यात् । अथवा युध्दे विजयम् अवाप्य अधीनराज्यस्य आभरणानि सुरक्षा दृष्ट्या अत्र निक्षिप्तानि स्युः । मध्ययुगे मन्नार प्रदेशात् वा जाफ़्नाप्रदेशात् ये वणिजः आगच्छन्ति स्म ते तथा अन्ये यात्रिकाः देवस्थानस्य अस्य भक्ताः आसन् । १५८७ तमे वर्षे तिरुवनन्तपुरस्य देवस्थानस्य नाशः अभवत् । केभ्यश्चित् वर्षेभ्यः अनन्तरं गोपुरं निर्मितम् । देवस्थाने आहत्य ६ भूम्यन्तरगुहाः सन्ति । ताः क्रमात् ‘ए’ ‘बि’ इति नामाङ्कितानि सन्ति । ‘ए’ ‘बि’ भुम्यन्तरगृहाः १३० वर्षेभ्यः नोद्घाटिताः । ‘सि’ तः 'एफ़्'पर्यन्तं विद्यमानाः गुहाः तदा तदा पूजार्थं, धार्मिकक्रियार्थम् आभरणानि उपयोक्तुं च उद्घाट्येते।, एतदर्थं उच्चन्यायालयेन आदेशः प्रदत्तः अस्ति । ‘ए’ तथा ‘बि’ भूम्यन्तरगृहं स्वर्णाभरणशोधनार्थं उद्घाट्य अनन्तरं द्वारं पिहितं स्यात् । ‘बि’ भूम्यन्तर्गृहस्य अन्तः किमस्ति इति तज्ञाः अपि कुतूहलिनः सन्ति । तस्य उद्घाटनविषये निर्धारयितुम्, उच्च न्यायालयेन समितिः उपस्थापिता अस्ति । समितौ अष्टसदस्याः सन्ति । आभरणानां मौल्यमापनं, ‘बि’ भुम्यन्तर्गृहस्य विषयोऽपि ते परिशीलनं कुर्वन्ति ।
देवस्थानस्य इतिहासः[edit]
[सम्पादयतु]देवस्थानमेतत् अष्टमे शतके निर्मितम् । तदा तिरुवनन्तपुरं चेरिसाम्राज्यस्य राजानः परिपालयन्ति स्म । केरळे विद्यमानेषु एकादशदिव्यदेवस्थानेषु एतत् अन्यतमम् इति आळ्वास नामकः कविः स्वस्य ‘दित्यप्रबन्धे’ वर्णितवान् अस्ति। ब्रह्म-वायु-वराह-पद्म-पुराणेषु देवस्थानस्य उल्लेखः अस्ति । देवस्थानमेतत् सप्तसु परशुरामक्षेत्रेषु अन्यतमम् इति अपि एतेषु पुराणेषु प्रतिपादितम् अस्ति । देवस्थानस्य शिखरं पाण्डयशैलीम् अनुसृत्य निर्मितम् अस्ति । तस्य औनत्यम् १००पादपरिमितम् अस्ति । शिखरस्य मूलशिलास्थापनं १५६६ तमे वर्षे अभवत् । देवस्थानम् पद्मतीर्थनामकस्य सरोवरस्य तीरे अस्ति । देवस्थाने ३६५ शिलाशासनानि उपस्थापितानि सन्ति । तस्य पुरतः ८०पादपरिमितः ध्वजस्तम्भः अस्ति । शिखरस्य अधः नाट्यशाला निर्मिता तत्र वर्षे द्विवारं कथक्कलीनृत्योत्सवः दशदिनपर्यन्तं प्रचलति । १८ शतके पद्मनाभदेवस्थानस्य समस्तसम्पत् अष्ट-आळ्वाराणां नियन्त्रणे आसीत् । १७५०तमवर्षस्य जनवरीमासस्य तृतीयदिनाङ्के राजा मार्ताण्डवर्मा तिरुवाङ्कूरसाम्राज्यं पद्मनाभस्वामिपदतले समर्प्य “अहं तथा मदीया सन्ततिः पद्मनाभस्य दासाः भूत्वा जीवनं यापयामः” इति प्रतिज्ञां कृतवान् । सः आत्मानम् ‘पद्मनाभदासः’ इति वदति स्म । ततः प्रभृतिः तिरुवाङ्कूरुसाम्राज्यस्य प्रतिराजस्य नाम पद्मनाभदास इति प्रसिध्दम् । राजवंशस्य स्त्रियः पद्मनाभसेविकाः इति नाम्ना प्रसिध्दाः सन्ति ।
{{ Infobox settlement
| name
| image_skyline=<figure class="mw-default-size">[./सञ्चिका:Gods_place.jpg सञ्चिका:Gods place.jpg]<figcaption>temple</figcaption></figure>| image_caption
}}
विद्युथ्षक्ति एवं तस्य संऱआषणां
गुजराथप्रदेषे वडोदरपश्व्वे छाणीग्रमे सोरऊजार्जासंचालितशीतागार:वर्तते|पंचमहालणडस्य खण्डीयग्रामः सॉरऊर्जाद्वारा रत्रिप्रकाशं प्राप्नोति|खेडमण्डलागतकळ्याणापुरग्राममपि सॉरग्रामम् विद्यते| वडोदरानगरे ' गुजरात एनजार् डॅवलपमेष्ट एजेन्सी' स्तपितास्ति| सा जेडा नामाटतः ख्यातिप्राप्तास्ति | अनाया संस्थाया सौरऊर्जायाः प्रसारः प्रचारः अधिकः क्रुतोस्ति | अनेकवध्यालय, यन्त्रालय, ऑषाधालयश्च सॉरेर्जाद्वर ऊर्जा प्रप्नुवन्त्ति | सूर्यकूकरस्यापि प्रचारः अनायैव बवत|
सूर्य्रोर्जायाः अखंडितस्त्रोतः वर्तते | सूर्यात् प्राप्तोर्जायाः केवलं द्वूयबुतामो भगंएव पृथ्विमुक्थपति| तभ्दगेनैव समग्रजीवशृष्टॅः भवति| त्स्मात् कारणादेव अस्मभिहः सम्हं पर्यावरणं पृथिव्यां वर्तते | वतवरणनूक्कूलं भवति | सुर्याप्रकाशॅ जम्बुफलंसद्रुश किरणॅः सह विद्युत् चुम्बकीयं तरड्ग्म् भवति | सुर्यप्रकशसमीपे शॉषकपदर्थं ध्रुत्व वयं सॉरऊर्जा प्राप्नुमः | सॉरऊर्जातः सामान्यविद्युच्चक्तिः प्रप्यते | तेन वैटरहीटर, रेफ्रिजिरेटर एवं प्रकशॉत्पादकोर्जा प्रप्नुमः सॉरऊर्जाप्राकृतिकं साधनमस्ति |
विश्व्वस्मिन् सॉरऊर्जायाः उपयोगः सततं वर्धमानः अस्ति | ऑस्ट्ऱेलियादेशस्य सम्पुर्नब्रिस्बेननगरं सॉरऊर्जायाः उपयोगं करोति | सॉरऊर्जाताः आकाशमण्डले उपग्राहाः परिब्रममाणाः पृथिव्यां सॉरऊर्जासंचालितयाननि भ्रमन्ति चलन्ति च | प्राचीनकालदेव मानवः पवनशक्तेः उपयोगं करोति | गलयानं पवनेन चलति स्म | भारते राजस्थान, हिमचलप्रदेश, मेघलयादिराज्येषु पवनचक्की संख्या दिने दिने वर्तते |