सामग्री पर जाएँ

भावनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Bhavnagar district इत्यस्मात् पुनर्निर्दिष्टम्)
भावनगरमण्डलम्
मण्डलम्
गुजरातराज्ये भावनगरमण्डलम्
गुजरातराज्ये भावनगरमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters भावनगरम्
Area
  Total ९,९०० km
Population
 (२०११)
  Total २८,७७,९३१
Languages
  Official गुजराती, हिन्दी
Website bhavnagar.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

भावनगरमण्डलम् (गुजराती: ભાવનગર જિલ્લો, आङ्ग्ल: Bhavnagar district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन प्रमुखं मण्डलमस्ति। अस्य मण्डलस्य केन्द्रमस्ति भावनगरमिति‌ नगरम्।

भौगोलिकम्

[सम्पादयतु]

भावनगरमण्डलस्य विस्तारः ९,९०० चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे वर्तते । अरब्बीसमुद्रे विद्यमानस्य 'गल्फ् आफ् खम्भात्' इत्यस्य समीपे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे 'गल्फ् आफ् खम्भात्', पश्चिमे अमरेलीमण्डलम्, उत्तरे सुरेन्द्रनगरमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले ६०५ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- शेत्रुञ्जी, कालुभार, घेला ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं भावनगरमण्डलस्य जनसङ्ख्या २८,७७,९६१ अस्ति । अत्र १४,९०,४६५ पुरुषाः १३,८७,४९६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २८८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८८ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.५३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३१ अस्ति । अत्र साक्षरता ७६.८४% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ भावनगरम् २ बोटाद ३ गढडा ४ गारियाधार ५ घोघा ६ महुवा ७ पालिताणा ८ शिहोर ९ तलाजा १० उमराला ११ वलभीपुरम्

कृषिः वाणिज्यं च

[सम्पादयतु]

कार्पासः, बृहज्जम्बीरं, पलाण्डुः, 'ग्वावा', कदलीफलं, चिकूफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । पलाण्डुः, 'ग्वावा' इत्येतयोः उत्पादने गुजरातराज्यस्य मण्डलेषु अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कार्पासस्य उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । चिकू इत्येतस्य फलस्य उत्पादने अस्य मण्डलस्य तृतीयं स्थानम् अस्ति । इदं मण्डलं गुजरातराज्यस्य उद्यमकेन्द्रमपि अस्ति । अस्मिन् मण्डले अनेकाः उद्यमघटकाः सन्ति । वज्रकर्तनं/वज्रछेदनं, वज्रपरिष्करणं, 'सिमेण्ट् एण्ड् जिप्सम्', लवणोत्पादनं, 'सिरेमिक्स्', रासायनिकोद्यमः, 'प्ल्यास्टिक्स्', नौकानिर्माणं, 'फ्याब्रिकेशन्', आहारसंस्करणम् च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । वज्रकर्तनोद्यमे वज्रपरिष्करणोद्यमे च समग्रे भारते अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । समग्रे विश्वे बृहत्तमं नौकाविघटनप्राङ्गणम् अस्मिन्नेव मण्डले अलङ्ग इत्यत्र अस्ति ।

श्रीखोडियारदेवालयस्य मुख्यद्वारम्

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्य मण्डलस्य प्रमुखम् आकर्षणकेन्द्रं अस्ति वेलावदर राष्ट्रियोद्यानम् । शिहोर-दरबारगढ इत्येतत् पूर्वं राजपुत्राणां हर्म्यम् आसीत् । राज्यसर्वकारेण इदं भवनं रक्षितम् अस्ति । इदमपि अस्य मण्डलस्य वीक्षणीयस्थलम् अस्ति । तलाजा इत्येतत् शेत्रुञ्जीनद्याः तटे विद्यमानं नगरम् अस्ति । अत्र ३० प्राचीनबौद्धगुहाः सन्ति । गान्धीस्मृतिः, तख्तेश्वरमन्दिरं, गौरीशङ्करतडागः, सरदार वल्लभभाई पटेल-उद्यानं/पिल्-उद्यानं, पुरातनदरबारगढ च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।




बाह्यसम्पर्कतन्तुः

[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=भावनगरमण्डलम्&oldid=458236" इत्यस्माद् प्रतिप्राप्तम्