सामग्री पर जाएँ

राजकोटमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(Rajkot district इत्यस्मात् पुनर्निर्दिष्टम्)
राजकोटमण्डलम्
मण्डलम्
गुजरातराज्ये राजकोटमण्डलम्
गुजरातराज्ये राजकोटमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters राजकोट
Area
  Total ११,२०३ km
Population
 (२०११)
  Total ३७,९९,७७०
Languages
  Official गुजराती, हिन्दी
Website rajkot.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

राजकोटमण्डलम् (गुजराती: રાજકોટ જિલ્લો, आङ्ग्ल: Rajkot district) इत्येतत् गुजरातराज्यस्य किञ्चन प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति राजकोट इति महानगरम् ।

भौगोलिकम्

[सम्पादयतु]

राजकोटमण्डलस्य विस्तारः ११,२०३ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे सौराष्ट्रे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे सुरेन्द्रनगरमण्डलं, पश्चिमे जामनगरमण्डलम्, उत्तरे कच्छमण्डलं, दक्षिणे जुनागढमण्डलम्, अमरेलीमण्डलं च अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले तिस्रः नद्यः प्रवहन्ति । ताः यथा- भादर, मच्छु, आजी ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं राजकोटमण्डलस्य जनसङ्ख्या ३७,९९,७७० अस्ति । अत्र १९,७५,१३१ पुरुषाः १८,२४,६३९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३३९ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३३९ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२४ अस्ति । अत्र साक्षरता ८२.२०% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले चतुर्दश उपमण्डलानि सन्ति । तानि- १ धोराजी २ गोण्डल ३ जामकण्डोरणा ४ जसदण ५ जेतपुरं ६ कोटडासाङ्गाणी ७ लोधिका ८ मालिया ९ मोरबी १० पडधरी ११ राजकोट १२ टङ्कारा १३ उपलेटा १४ वाङ्कानेर

कृषिः वाणिज्यं च

[सम्पादयतु]

कार्पासः, कलायः, आम्रफलं, चिकूफलं, बृहज्जम्बीरं, पपितफलं, पलाण्डुः, लसुनं, जीरकः, गन्धद्रव्याणि च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । गुजरातराज्यस्य मण्डलेषु कार्पासस्य उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । कलायस्य, पलाण्डोः, गन्धद्रव्याणां च उत्पादने अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । 'एञ्जिनियरिङ्ग्', कर्गजं, 'सिरेमिक्स्', क्षीरोत्पन्नानि, 'इलेक्ट्रोनिक्स्', वस्त्रोत्पादनं, 'फार्मस्युटिकल्स्', रासायनिकोद्यमः च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]
गोण्डल-पत्तने स्थितं नौलखा-राजगृहम्

'काबा गान्धि नो डेलो' इत्येतत् १८८०-८१ वर्षे गान्धिना निर्मापितं गृहम् अस्ति । इदं गृहं राष्ट्रियस्मारकत्वेन उद्घोषितम् अस्ति । वाट्सन्-सङ्ग्रहालये पुरातत्वशास्त्रसम्बद्धवस्तूनि, नैकानि प्राचीनवस्तूनि च रक्षितानि सन्ति । १८७० वर्षे निर्मितं राजकुमार-महाविद्यालये अनेकाः राजकुमाराः, राजसुताः, धनिकाः अधीतवन्तः । शक्ति-उद्यानम् ('एनर्जी पार्क्') इत्येतत् जनेषु शक्तिविषयकजागरणार्थं संस्थापितम् अस्ति । 'कम्युनिटि' विज्ञानकेन्द्रं, तारालयः च इत्येतत् कयाचित् 'एन् जी ओ' द्वारा स्थापितम् अस्ति । 'रोटरि'-पुत्तिका-सङ्ग्रहालये भारतस्य गुजरातराज्यस्य च सांस्कृतिकाः, पारम्परिकाः च पुत्तिकाः सङ्गृहीताः सन्ति । मुक्तिधाम, रामकृष्णमन्दिरं, स्वामिनारायणमन्दिरम्, आजी-जलबन्धः ('आजी ड्याम्') च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।




बाह्यसम्पर्कतन्तुः

[सम्पादयतु]



"https://sa.wikipedia.org/w/index.php?title=राजकोटमण्डलम्&oldid=458258" इत्यस्माद् प्रतिप्राप्तम्