पाण्डुरङ्ग वामन काणे
पाण्डुरङ्ग वामन काणे | |
---|---|
जन्म |
रत्नागिरिमण्डलम्, महाराष्ट्रराज्यम् | ७, १८८०
मृत्युः |
८, १९७२[१] मुम्बई | (आयुः ९२)
शिक्षणस्य स्थितिः | मुंबई विश्वविद्यालयम् |
वृत्तिः | राजनैतिज्ञः, Indologist |
पुरस्काराः | भारतरत्नम् (१९६३) |
डा. पाण्डुरङ्ग वामन काणे ( क्रि.श. १८८०तः १९७२) प्रसिद्धः संस्कृतभाषायाः तथा भारतशास्त्रस्य (इण्डलजि) पण्डितः । अस्य जन्म भारदेशस्य महाराष्ट्रराज्यस्य रत्नागिरिमण्डलस्य साम्प्रदायिके चित्पवनविप्रकुटुम्बे अभवत् ।
जीवनम्
[सम्पादयतु]धर्मशास्त्रस्य इतिहासः भारते प्राचीनाः तथा मध्ययुगीयाः धर्माः प्रजाधर्मः च इति आङ्ग्लभाषा महाग्रन्थरचनेन डा. काणेवर्यः सुप्रसिद्धः [२]। प्राचीनकाले तथा मध्यकाले धर्मशास्त्रस्य विकासस्य विषये अयं महाग्रन्थः अनेकशतमानस्य ग्रन्थान् हस्तप्रतयः च संशोध्य प्रणीतः । पञ्चभागेषु प्रकाशितः । अस्य प्रथमस्कन्दः क्रि.श. १९२०तमे वर्षे लोकार्पितः अन्तिमः क्रि.श १९६२तमे वर्षे प्रकाशितः । डा.काणेवर्यः मुम्बैनगरस्य एशियाटिक् सोसैटि तथा पुणेनगरस्य भण्डार्कर ओरियण्टल रिसर्च इन्स्टिट्यूट् इत्यादिसंस्थानां ग्रन्थानाम् अध्ययनम् अकरोत् । महाभारतम्, पुराणानि, कौटिल्यः इत्यादीन् वैशाल्ययुक्तविषयान् गाढं संशोध्य लिखितः इति अस्य ग्रन्थस्य वैशिष्ट्यम् । अस्य संस्कृतपाण्डित्येन पुरातनग्रन्थान् न वैभवीकृत्य वसुनिष्ठदृशा विमर्शितवान् इति अस्य कृतेः विशेषता । व्यवहारमयूखम् इति ग्रन्थं काणेमहोदयः लिखितवान् । पाठकानां धर्मशास्त्रस्य स्थूलपरिचयार्थं प्राक्कथनरूपेण धर्मशास्त्रस्य इतिहासं योजितुम् इष्टवान् । किन्तु तदेवविस्तारतां प्राप्य पञ्चभागेषु बृहद्ग्रन्थः अभवत् । तथापि आङ्ग्लभाषया धर्म इति पदस्य समानर्थकपदं नास्तीति प्रतिपादितवान् । संस्कृतम्, मराठी, आङ्ग्लम् इति भाषासु आहत्य १५०००पुटानि लिखितवान् ।
प्रशस्तिपुरस्काराः
[सम्पादयतु]डा. काणेवर्यः स्वस्य अपारेण पाण्डित्येन महामहोपाध्यायः इति सम्मानितः मुम्बैविश्वविद्यालयस्य उपकुलपतिरिति सेवाम् अकरोत् । कुरुक्षेत्रविश्वविद्यालये भारतशास्त्रस्य विभागं समारब्धुम् अस्य साहाय्यम् प्रार्थितम् । क्रि.श. १९५६तमे वर्षे तस्य महाग्रन्थस्य चतुर्थभागः संस्कृतभाषासंशोधनविभागे साहित्याकादमीपुरस्कारेण सम्मानिततः । एष भारतीयविद्याभवनस्य गौरवसदस्यः अपि आसीत् [३]। शिक्षाक्षेत्रे अस्य योगदनं परिगणय्य राज्यसभायाः डा.काणे सदस्यत्वेन नामाङ्कितः। क्रि.श. १९६२तमे वर्षे एषः भारतस्य अत्युच्चनागरिकप्रशस्त्या भारतरत्नेन सम्मानितः ।
अन्यविष्ययाः
[सम्पादयतु]भारतस्य संविधानम् जनानां मनसि प्रत्येकं केवलम् अधिकरः अस्ति कर्तव्यं न इति भावं जनयति भारतस्य साम्प्रदायिकमौल्येभ्यः दूरं तिष्ठति इति काणेवर्यस्य अभिप्रायः । अस्य ग्रन्थस्य विश्वकोशीयव्याप्तेः विषयाणाम् आधिकारिकनिरूपणेन च राजनैतिकचर्चासु अस्य ग्रान्थानाम् उल्लेखः भवति स्म । अटल बिहारी वाजपेयी वर्यस्य मन्त्रिमण्डलस्य काले प्राचीनभारतीयाः गोवधासक्ताः उत न इति चिन्तने समागते परविरोधिनः च काणेमहोदयस्य ग्रन्थात् एव विषयान् समुद्धरन् ।
काणेस्मरणार्थम्
[सम्पादयतु]क्रि.श. १९७४तमे वर्षे पौर्वात्याध्यायनस्य प्रोत्साहनर्थं मुम्बैनगरस्य एशियाटिक् सोसैटि इति संस्थया पि.वि.काणे वर्यस्य संस्मरणे महामहोपाध्ययः पिविकाणे स्नातकोत्तरसंशोधनकेन्द्रम् आरब्धम् । वैदिकधर्मशास्त्रे अथवा अलङ्कारशास्त्रे अमूल्यं योगदानं येषां भवति तेभ्यः वर्षत्रये एकवारं पि.वि.काणे सुवर्णपदकसहितं सम्माननं क्रियते ।
टिप्पणी
[सम्पादयतु]- ↑ "RAJYA SABHA MEMBERS BIOGRAPHICAL SKETCHES 1952 - 2003". Rajya Sabha Secretariat. आह्रियत 30 September 2015.
- ↑ S.G. Moghe, (1997). Professor Kane's Contribution to Dharmasastra Literature. p. 380. ISBN 9788124600757. Archived from the original on 2016-03-04. आह्रियत 2014-08-20.
- ↑ "Honorary member of Bharatiya Vidya Bhavan". Archived from the original on 2018-02-13. आह्रियत 20 अगस्त 2014.
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]- Rare letters of Panduranga Kane Archived २०१५-०४-०७ at the Wayback Machine