सामग्री पर जाएँ

मरुद्रुमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
सपुष्पः मरुद्रुमः
सपुष्पः मरुद्रुमः

अस्य कुटुम्बः फ्याबेसी इति । अस्य सस्यशास्त्रीयं नाम अकेसिया फ़र्नेसिआन वैल्ड । अरिमेडा, विटः इति अस्य वृक्षस्य नामान्तरम् अस्ति । अन्यभाषासु अस्य वृक्षस्य नामानि यथा...

आङ्ग्लम् - क्यासिया, स्पाञ्ज् ट्री । Indian lyabarnum, Golden power.
कन्नडम् - करिजालि, कस्तुरि जालि, सण्णजालि । ಕರಿಜಾಲಿ, ಕಸ್ತೂರಿಜಾಲಿ, ಸಣ್ಣಜಾಲಿ।
हिन्दी - गुड् बबूल्, विलायति, कैकर ।
तमिळु - कडिवेल्, वेदुमुल् । கடிவேல், வேதுமுல் ।
तेलुगु - कस्तूरितुम्म, मुरिकितुम्म । కస్తూరితుమ్మ, మురికితుమ్మ।
मराठि - गुबबुल, कंक्रि,येरिबबुल् ।
मलयाळम् - पिवेलम् । പിവേലമ്।

सस्यगुणलक्षणानि

[सम्पादयतु]

मरुद्रुमः १०-२०पादपरिमितम् औन्नत्यं प्राप्नोति । अस्य काण्डस्य वर्णः गाढपिङ्गलवर्णः । द्विदलयुक्तानि पत्राणि भवन्ति । पत्राणां दीर्घता २.५-५सें.मी. पर्यन्तमपि भवति ।६-८मि.मी.व्यासास्य वर्तुलाकारस्य पुष्पानां गुच्छम् एव भवति । पीतवर्णस्य पुष्पाणां सुगन्धः अतीव तीक्ष्णः भवति । नवेम्बर् तः मार्च मासाभ्यान्तरं वृक्षाः कुसुमिताः भवन्ति । अस्य फलानि ५-९सें.मी.दीर्घाणि वक्राणि च भवन्ति । अस्य वृक्षस्य वंशाभिवृद्धिः बीजैः एव भवति ।

उपयोगाः

[सम्पादयतु]

मरुद्रुमस्य वल्कलानि दन्तक्षयस्य रक्तसम्बद्धरोगाणां क्षतानां च उपशमनार्थं उपययोजयन्ति । किसलयाः गोनेरिया इति रोगोपशमनार्थं प्रयोजनकारिणः भवन्ति । अस्य वल्कलस्य कषायं कुष्टरोगस्य अन्यचर्मरोगाणां निवारणार्थं प्रयोजयन्ति । वल्कलचूर्णम् आस्तमारोगं नियन्त्रयति । पुष्पाणाम् उपयोगेन केसि इति सुगन्धरसम् उत्पादयन्ति । वृक्षनिर्यासः चर्मोद्यमेषु मधुराणि निर्मातुं च उपयुज्यते । किसलयस्य पाकशालासु उपयोगः भवति ।

"https://sa.wikipedia.org/w/index.php?title=मरुद्रुमः&oldid=358513" इत्यस्माद् प्रतिप्राप्तम्