सामग्री पर जाएँ

कर्णावतीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(अहमदाबाद् मण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
कर्णावतीमण्डलम्
मण्डलम्
गुजरातराज्ये अहमदाबादमण्डलम्
गुजरातराज्ये अहमदाबादमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters अहमदाबाद
Area
  Total ८,०८७ km
Population
 (२०११)
  Total ७२,०८,२००
Languages
  Official गुजराती, हिन्दी
Website amdavad.gujarat.gov.in
मध्यगुजरात

कर्णावतीमण्डलं (गुजराती: અમદાવાદ જિલ્લો, आङ्ग्ल: Ahmedabad district) गुजरातराज्ये स्थितं प्रमुखं मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति कर्णावती इति महानगरम् । संस्कृतभाषायाम् अहमदाबाद इत्यस्य महानगरस्य पुरातनं नाम कर्णावती इति आसीत् ।

भौगोलिकम्

[सम्पादयतु]

कर्णावतीमण्डलस्य विस्तारः ८,०८७ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे खेडामण्डलं, पश्चिमे सुरेन्द्रनगरमण्डलम्, उत्तरे मेहसाणामण्डलं, दक्षिणे 'गल्फ् आफ् खम्भात' अस्ति । अस्मिन् मण्डले १,०१७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले नव नद्यः प्रवहन्ति । ताः यथा- साबरमतीनदी, खारी, मेश्वो, भोगावो, ॐकारः, भादर, नाईका, उतावली, रोध ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणम् कर्णावतीमण्डलस्य जनसङ्ख्या ७२,०८,२०० अस्ति । अत्र ३७,८७,०५० पुरुषाः ३४,२१,१५० महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ८९० जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ८९० जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.३१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०३ अस्ति । अत्र साक्षरता ८६.६५% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले एकादश उपमण्डलानि सन्ति । तानि- १ कर्णावती २ बरवाला ३ बावला ४ दस्क्रोई ५ देत्रोज-रामपुरा ६ धन्धूका ७ धोलका ८ माण्डल ९ राणपुरं १० साणन्द ११ विरमगाम

कृषिः वाणिज्यं च

[सम्पादयतु]

कार्पासः, जीरकः, कपिशाकं ('क्याबिज्'), बृहज्जम्बीरं, कूष्माण्डः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । समग्रे गुजरातराज्ये कूष्माण्डस्य उत्पादने अस्य मण्डलस्य प्रथमं स्थानम् अस्ति । कार्पासस्य उत्पादनेऽपि अस्यैव मण्डलस्य आद्यं स्थानम् अस्ति । इदं मण्डलं गुजरातराज्यस्य वाणिज्यकेन्द्रं, प्रमुखं तन्त्रोद्यमकेन्द्रं च अस्ति । तत्रापि कर्णावती इत्यस्मिन् महानगरे बहवः उद्यमाः, यन्त्रागाराः च सन्ति । कर्णावती इतीदं महानगरं प्रमुखं वस्त्रोत्पादनकेन्द्रम् अस्ति । अतः कर्णावतीमहानगरं 'म्याञ्चेस्टर् आफ् इण्डिया' इति प्रसिद्धम् आसीत् । 'ड्रग्स् एण्ड् फार्मस्युटिकल्स्', 'आटोमोबैल्स्', 'एञ्जिनियरिङ्ग्', 'इलेक्ट्रोनिक्स्', 'बायोटेक्नोलजी', 'इन्फर्मेषन्-टेक्नोलजी', प्रवासोद्यमः इत्येते अस्य मण्डलस्य अन्ये उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]
साबरमती आश्रमः

अस्मिन्नेव मण्डले विद्यमानम् अडालज-वाव इत्येतत् विश्वपारम्परिकस्थानेषु अन्यतमम् अस्ति । इदं प्रसिद्धं वीक्षणीयस्थलम् अस्ति । विश्वस्य प्रसिद्धेषु वस्त्रसङ्ग्रहालयेषु अस्मिन् मण्डले स्थितः क्यालिको-सङ्ग्रहालयः सुप्रसिद्धः अस्ति । अस्मिन् मण्डले स्थितं विज्ञान-नगरम् ('सायिन्स्-सिटि') अपरं वीक्षणीयस्थलम् अस्ति । नळसरोवरपक्षिधाम तु अस्य मण्डलस्य सुप्रसिद्धं वीक्षणीयस्थलम् अस्ति । कर्णावतीमहानगरस्य अधिष्ठात्रीदेव्याः भद्रकाल्याः अतिपुरातनं प्रसिद्धं मन्दिरं प्रमुखं वीक्षणीयस्थलम् अस्ति । कर्णावतीमहानगरे विद्यमानं 'सरखेज-रोजा' इति किञ्चन यवनधर्ममन्दिरम् (मस्जिद्) अपि वीक्षणीयस्थलम् अस्ति । गान्धि आश्रमः, 'सिटि-म्यूजियम्', 'शेकिङ्ग्-मिनरेट्स्', स्वामिनारायणमन्दिरं च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यानुबन्धाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=कर्णावतीमण्डलम्&oldid=488109" इत्यस्माद् प्रतिप्राप्तम्