सामग्री पर जाएँ

छत्तीसगढराज्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(छत्तीसगढ़ इत्यस्मात् पुनर्निर्दिष्टम्)
छत्तीसगढराज्यम्
भारतस्य भूपटे छत्तीसगढराज्यम्
भारतस्य भूपटे छत्तीसगढराज्यम्
Political Map of Chhattisgarh
Political Map of Chhattisgarh
Established १ नोवेम्बर २०००
Capital रायपुर
Largest city Raipur
मण्डलानि 27 (9 dist. new)
Government
  Governor शेखर दत्तः
  Chief Minister रामन् सिंहः (भारतीयजनतापक्षः)
  Legislature Unicameral (90 seats)
  Parliamentary constituency 11 (year 2010)
  High Court Chhattisgarh High Court
Area
  Total १,३५,१९४.५ km
Area rank 10th
Population
 (2011)
  Total २,५५,४५,१९८
  Rank 16th
  Density १९०/km
Time zone UTC+05:30 (IST)
ISO 3166 code IN-CT
HDI increase 0.516 (medium)
HDI rank 23rd (2005)
Literacy 64.7% (23rd)
Official languages हिन्दी भाषा, छत्तीसगरि
Website chhattisgarh.nic.in

छत्तीसगडराज्यं (Chhattisgarh) भारते स्थितं किञ्चन राज्यम् अस्ति । इदं नूतनतया निर्मितम् अस्ति । मध्यप्रदेशराज्यस्य कानिचनमण्डलानि मेलयित्वा पृथक्राज्यं सा.श.२००० तमे वर्षे नवम्बरमासस्य प्रथमदिने कृतम् । अस्मिन् राज्ये ३५ जातीयजनाः निवसन्ति । नाल्कार् बैरा, मुण्डमदिया, नाहर् इत्यादयः जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्यं, लोहोद्यमं च कुर्वन्ति । हजारीबाग् प्रपातप्रदेशे एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र प्राचीनकाले गुहासु निर्मितभित्तिचित्राणि करणपुरं, सौत् पहार्, इत्यदिषु स्थानेषु सन्ति । एतत् दृष्ट्वा इङ्ग्लैण्ड् देशस्य स्टोन् देञ्ज् स्थानस्य स्मरणं भवति । बस्तारप्रदेशः जगदलपुर् मण्डलेऽस्ति । छत्तीसगढ मध्यभारतस्य किञ्चन राज्यं भवति । मध्यप्रदेशस्य आग्नेय कोणे विद्यमानः प्रदेशः छत्तीसगढ भवति। अत्र "छत्तीसगढि" भाषया व्यवहरन्ति स्म जनाः। ’२७’ मण्डलानि सन्ति छत्तीसगढ राज्ये । छत्तीसगढराज्यस्य राजधानी रायपुर भवति । भारतीय राज्येषु विस्तीर्णे अस्य राज्यस्य दशमस्थानं भवति । अस्य विस्तारः ५२,१९९ चतुरस्रमैलपरिमितं भवति । अस्य राज्यस्य वायव्ये मध्यप्रदेशः, पश्चिमे महाराष्ट्रा, दक्षिणे आन्ध्रप्रदेशः, पूर्वे ओरिस्सा, ईशान्ये झारखण्डः, उत्तरे उत्तरप्रदेशादयः सन्ति । “छत्तीस् घरी” एषा भाषा हिन्दीभाषायाः कश्चन प्रकारः। एषा भाषा अस्य राज्यस्य मुख्या भाषा अस्ति । ’द्राविडभाषया’ प्रभाविताः भाषाः प्रान्तीयाः भाषाः अपि अत्र सन्ति । छत्तीसगढमूलतः किञ्चन ग्रामीणं राज्यम् अस्ति । नगरप्रदेशे केवलं २०% प्रतिशतं जनाः वासं कुर्वन्ति । छत्तीसगढराज्यस्य अद्यतनमौल्याधारेण २००४ तमे संवत्सरे १२ बिलियन् यु एस् डालर् गृहोत्पन्नम् आसीत् इति । अस्य राज्यस्य मध्यप्रदेशात् विभागकरणानन्तरं ३०% प्रतिशतं खनिजस्य उत्पादनं कुर्वन्ति ।

नामव्युत्पत्तिः

[सम्पादयतु]

अस्य राज्यस्य “छत्तीसगढ” इति नाम्ना व्यवहारः कुतः? अत्रत्याः प्राचीनाः शासकाः ३६ राज्येषु शासनं कुर्वन्ति स्म । हिन्दीभाषया छत्तीस् नाम ३६ संख्या, "गढ्" इत्यस्य दुर्गम् इति अर्थः । तानि राज्यानि एवं सन्ति -- रतनपूर्, विजयपूर्, खरौण्ड्, मारो, कौट्गढ, नवागढ्, सोन्दि, औखर्, पदर्भट्ट्, सेम्रिया, चम्पा, लाफा, छुरि, केण्ड, माटिन्, अपरोरा, पेण्ड्रा, कुकुटिखण्ड्रि, राजपुर्, पटान्, सिमगा, सिङ्गारपुर्, लवन्, ओमेरा, दुर्ग, सरधा, सिरसा, मेन्हदि, खल्लारि, सिर्पुर्, फिगेश्वर्, राजिम्, इन्घङ्गन् गढ, सुवर्मर्, तेङ्गान् गढ तथा अकाल्तारादि इति।

भौगोलिकपरिचयः

[सम्पादयतु]

अस्य राज्यस्य उत्तरे तथा दक्षिणे च पर्वताः सन्ति । मध्यभागस्य भूमिः सुफला तथा समतला च अस्ति । राज्यस्य ४४% प्रतिशतं भागम् अरण्येन व्यापृतम् अस्ति । राज्यस्य उत्तरभागः सिन्धु-गङ्गासमतलप्रदेशस्य शिखरभागे अस्ति । गङ्गायाः उपनदी रैहाण्ड् स्थले प्रवहति । पूर्वपश्चिमभागयोः पर्वतानाम् आवलिः, महानद्याः प्रान्तभूमेः तथा सिन्धु-गङ्गासमतलप्रदेशयोः विभागं जनयति । रज्यस्य मध्यभागः महानद्याः तथा उपनदीनां तीरेषु अस्ति । अस्मिन् प्रदेशे “व्रीहेः” फलचयः अधिकतया भवति। पश्चिमभागस्य माय्कल् पर्वतानां कारणात् महानद्याः तीरात् नर्मदातीरं पृथक्कृतं भवति । एवं पूर्वओरिसाराज्यस्य समतलप्रदेशाः पर्वतराजिभिः पृथक्कृताः दृश्यन्ते। राज्यस्य दक्षिणभागः डेकन् प्रस्थभूमौ अस्ति। एतं प्रदेशं प्रति गोदावरी तथा अस्याः उपनद्यः जलं ददति। महानदी अस्य राज्यस्य मुख्या नदी भवति। अन्यनद्यः हस्दो,रिहान्द, इन्द्रावति, जोङ्क् अर्पा च ।

आर्थिकव्यवस्था

[सम्पादयतु]

इदानीन्तनेषु वर्षेषु छत्तीसगढस्य वाणिज्यस्य क्षिप्रगतिरस्ति। २००४-०५ तः २००८-०९ समये जि.डि.पि ७.३% प्रतिशतं प्रवृद्धम् । रज्यस्य ८०% प्रतिशतस्यापेक्षया अधिकाः जनाः व्यवसायमेव अवलम्बिताः सन्ति । राज्यस्य ४३% प्रतिशतं भूमिः कृषियोग्या अस्ति । अत्रत्य मुख्याः फलचयाः व्रीहिः, कलायः, लङ्गुरा, विविधधान्यानि, तैलबीजाः च सन्ति । छत्तीसगढप्रदेशं “भारतस्य अन्नपात्रम्” इति आह्वयन्ति । अस्मिन् राज्ये जलबन्धाः सन्ति । अतः जलाभावः न दृश्यते । राज्यस्य ४१.३३% प्रतिशतं भूमिः काननैः पूरिता अस्ति । छत्तीसगढराज्ये खनिजस्य समृद्धिरस्ति। अस्मिन् राज्ये भारतस्य २०% प्रतिशतं अयः वज्रचूर्णञ्च उत्पादयन्ति । ’लोहः’, ’अङ्गारः’, ’बाक्सैट्’ इत्यादयः खनिजाः अत्र अधिकतया लभ्यन्ते । भारतदेशे कांस्यम् अधिकतया अत्रैव लभ्यते । अन्यखनिजाः ’कोराण्डम्’, ’ग्र्यानेट्’, ’अमृतशिला’, ’वज्रादयः’ भवन्ति । राज्यस्य उत्तम अर्थव्यवस्थायै यन्त्रागाराणां महद्योगदानम् अस्ति । तेषु सार्वकारस्य “भिलाय्” अयसः यन्त्रागारः तथा "एन् .टी.पि.सि." इत्यादयः। स्वतन्त्राः यन्त्रागाराः ’बाल्को’, ’लाफार्गे’ तथा ’जिन्दाल् स्टील्’ इत्यादयः भवन्ति ।

मण्डलानि

[सम्पादयतु]

छत्तीसगढराज्ये १३ मण्डलानि सन्ति । प्रशासनसौकर्यार्थं एतानि मण्डलानि पञ्चभागेषु विभक्तानि सन्ति ।

सङ्केतः मण्डलम् केन्द्रम् जनसङ्ख्या (२००१) विस्तीर्णता (किमी²) सान्द्रता (प्रती किमी²)
BAबस्तरमण्डलम्जगदलपूरम्१,३०२,२५३१४,९६८८७
BIविलासपुरमण्डलम्विलासपूरम्१,९९३,०४२८,२७०२४१
DAदन्तेवाडामण्डलम्दन्तेवाडा७१९,०६५१७,५३८४१
DHधाम्तरीमण्डलम्धाम्तरी७०३,५६९३,३८३२०८
DUदुर्गमण्डलम्दुर्ग२,८०१,७५७८,५४२३२८
JAजशपुरमण्डलम्जशपूर७३९,७८०५,८२५१२७
JCजाञ्जगीर-चम्पामण्डलम्जाञ्जगीर१,३१६,१४०३,८४८३४२
KBकोर्बामण्डलम्कोर्बा१,०१२,१२१६,६१५१५३
KJकोरीयामण्डलम्कोरिया५८५,४५५६,५७८८९
KKकाङ्केरमण्डलम्काङ्केर६५१,३३३६,५१३१००
KWकवर्धामण्डलम्कावर्धा५८४,६६७४,२३७१३८
MAमहासमुदमण्डलम्महासमुद८६०,१७६४,७७९१८०
RGरायगढ्मण्डलम्रायगर१,२६५,०८४७,०६८१७९
RNराजनन्दगांवमण्डलम्राजनन्दगांव१,२८१,८११८,०६२१५९
RPरायपुरमण्डलम्रायपूर३,००९,०४२१३,०८३२३०
SUसरगुजामण्डलम्अम्बिकापूर१,९७०,६६११५,७६५१२५

धार्मिकता

[सम्पादयतु]

अस्मिन् राज्ये ९५% प्रतिशतं जनाः हैन्दवाः सन्ति । परुशरामनामिवल्लभाचार्यादीनां केषाञ्चन साधूनां मूलस्थानानि अस्मिन् राज्ये सन्ति । महर्षिः महेशयोगी इति प्रख्यातः हिन्दूप्रमुखः हरिकथाकारः च आसीत् । अयं जबलपुरप्रदेशीयः आसीत् । अल्पसंख्याकाः क्रिश्चियन् जानाः सन्ति । तेलि, सत्नामि तथा कुर्मि इत्यादयः समतलप्रदेशेषु विद्यमानाः जनजातयः । अरण्यप्रदेशे विद्यमानाः जातयः गोण्ड, हल्बा, कमार् बुज्ज् तथा ओरयान् इत्यादयः भवन्ति ।

प्रवासोद्यमः

[सम्पादयतु]
सूरजपूरजलपातः

छत्तीसगढ भारतस्य हृदयभागे विद्यमानं राज्यम्। इदं राज्यं सांस्कृतिकपरम्परागतं प्रकृतिरम्यञ्च अस्ति । अस्मिन् राज्ये ’शिल्पकलामन्दिराणि’, ’पुरातनस्मारकाणि’, ’वन्यजन्तवः’, ’बौद्धधर्मसम्बद्धानि’ स्थलानि च सन्ति । एवं ’प्रासादाः’, ’जलपाताः’, ’गुहादयः’ अस्मिन् राज्ये विराजन्ते । आगतेभ्यः यात्रिकेभ्यः सन्तोषं जनयन्ति एते । “भोराम् देव्” छत्तीसगढप्रदेशस्य अत्यन्तप्राचीनदेवालयः भवति । अस्य देवालयस्य “लघु खूजुराहो” इति प्रसिद्धिरस्ति । अस्य देवालयस्य निर्माणकालः सप्तमशतकादारभ्य एकादशशतकं यावत् भवेदिति । अयं देवालयः कवार्धाद समीपे अस्ति । इतः १८ कि.मी.दूरे देवालयः विद्यते। "गिरौध् पुरि" सत्नामिधर्मस्य पवित्रक्षेत्रं भवति। ’सिर् पुर्’ तथा ’मल्हार्’ उभावपि ऐतिहासिके स्थले स्थः । चीनदेशस्य इतिहासकारः ’झुयान् झाङ्ग्’ उभयत्र आगतवान् आसीत् । इतः २० कि.मी. दूरे “तालारुद्र” नामकः प्रख्यातदेवालयः अस्ति । ’पालियाक्षेत्रे’ शिवस्य देवालयः अस्ति । जञ्जिगिर् क्षेत्रे विष्णोः अपूर्णः देवालयः अस्ति । खरोद् क्षेत्रे ’लक्ष्मणेश्वरस्य’ देवालयः अस्ति । शियोरिनारायण् क्षेत्रे ’श्रीरामस्य’ देवालयः अस्ति । सिङ्घ्पूर् प्रदेशे ऐतिहासिकचित्रसहिताः गुहाः सन्ति । राजिम् भगवान् क्षेत्रं “राजीवलोचन” देवालयाय प्रसिद्धमस्ति । रतन्पुरे महामायायाः देवालयः अस्ति। अत्रैव रतन्पुर्रे खुदिया जलबन्धः, खुताघाट् जलबन्धः तथा लोर्मि जलबन्धाश्च सन्ति । “अचानक् मार्” अस्य राज्यस्य प्रसिद्धं वन्यमृगसंरक्षणोद्यानम् अस्ति । “अचानक् मार्” संरक्षणोद्यानस्य ’१९७५’ तमे संवत्सरे स्थापनं कृतम् ।

छत्तीसगढराज्यस्य प्रेक्षणीयस्थानानि

[सम्पादयतु]

छत्तीसगढराज्यं नूतनतया निर्मितम् अस्ति । २००० तमवर्षस्य नवम्बरप्रथमदिनाङ्के मध्यप्रदेशतः एतत् राज्यं पृथक् कृतमस्ति । छोटानागपूरप्रस्थभूमिप्रदेशे व्याप्तम् अस्ति । अस्मिन् राज्ये ३५ आदिवासिजनजातियाः निवसन्ति । नाल्कारु, बैरा, मुण्ड, मादिया नाहर् इत्यादि जनाः अत्र कृषिं मृगयां मत्स्योद्यमं सीवनं काष्ठकार्याणि लोहोद्यमः इत्यादिकार्येषु निरताः सन्ति । हजारीबाग् उपत्यकासु एतेषां जीवनदर्शनं कर्तुं शक्यते । अत्र करनपुर सौत् पहार् इत्यादिस्थानेषु आदिकालतः निर्मितासु गुहासु भित्तिचित्राणि दृश्यन्ते । एतस्य दर्शनेन इङ्ग्लेण्डदेशस्य स्टोन् हेञ्जस्थानस्य स्मरणं भवति ।

बस्तरप्रदेशे जगदलपुरमण्डलम् अस्ति । निसर्गरमणीयः अयं प्रदेशः नदीभिः जलपातैः पर्वतैः युक्तः अस्ति । अत्र जनानां वस्त्रालङ्काराः जीवनशैली कार्याणि च आकर्षकाणि सन्ति । रायपुर राज्यस्य राजधानी अस्ति । बस्तरवनप्रदेशे नद्यः गुहाः च विशिष्टानि सन्ति ।

चित्रकूटे जलपातः अतीवसुन्दरः अस्ति । धनुराकारकं ९६ पादमितं जलपातं छत्तीसगढ्राज्यस्य नयागरा इति वदन्ति । कङ्गारराष्ट्रियोद्यानं विशालं रमणीयं च अस्ति । अत्र पादचारणं पर्वतारोहणं प्राणिवीक्षणं वर्णयुक्तानां पतङ्गानां दर्शनं च अतीव हर्षाय भवन्ति । पूर्वघट्टप्रदेशे एतत् धूमशकटयानं गच्छति । मार्गे ५० सुरङ्गमार्गाः निर्मिताः सन्ति ।

मैन् पाट् प्रदेशः छत्तीसगड् राजस्य ‘शिम्ला’ इति वदन्ति । बरसूरप्रदेशे स्थिताः गणेशविग्रहाः वालुकशिलाभि निर्मिताः, दन्तेश्वरी (दन्तेवाडा), विष्णुदेवालयः, च महानदी तीरस्य इतराकर्षकस्थानानि सन्ति । अमरकाण्टकम् अपि अस्य सीमायां भवति ।

प्रकृतिरम्यः

[सम्पादयतु]

निसर्गरमणीयः अयं प्रदेशः नदीजलपाः पर्वताः इत्यादिभिः युक्तः अस्ति । एवमत्र जनानां वस्त्रालङ्काराः जीवनशैली कार्याणि च आकर्षकाणि सन्ति । रायपुरराजस्य राजधानी अयम् अस्ति । बस्तारवननदी गुहाः च विशिष्टाः सन्ति । चित्रकोटेजलपातः अतीव सुन्दरः अस्ति । धनुराकाके ९६ पादमितोन्नतः जलपातः छत्तीसगडस्य नयागरा इति ख्यातः अस्ति । कङ्गारराष्ट्रीयोद्यानम् अतिविशलं रमणीयमं चास्ति । अत्र पादचारण पर्वतारोहण प्राणिवीक्षणं वर्णयुक्ताना पतङ्गानां दर्शनं च अतीव हर्षदं भवन्ति । कोटमसार कैलाष् प्रदेशस्याः गुहाः संशोधनयोग्याः इति दर्शकानाम् अभिप्रायः । इतः खनिजानि विशाखापत्तनं नियन्ते । केरन्दूलतः विशाखापत्तनं धूमशकटमार्गेण सञ्चारः अतीव रोमाञ्चकः भवति । पूर्वघट्टप्रदेशे एतत् धूमशकटयानं गच्छति । मार्गे ५० सुरङ्गाः निर्मिताः सन्ति । मैन् पाट् प्रदेशः छत्तीसगड राजस्य ‘शिम्ला’ इति वदन्ति । बरसूरप्रदेशे स्थिता गणेश विग्रहाः वालुकशिलाभि निर्मिताः ,दन्तो- वादस्य दन्तेश्चरी राजी विष्णुदेवालयः महानदी तीरस्यः इतराकर्षक स्थाननि सन्ति । अमरकाण्टक स्थलमायुत्त- म यात्रास्थलमस्ति । वाहनमार्गः रायपूरतः जगदलपुर १९५ कि.मी. । जगदलपुरतः द्न्तेवाद- ८५ कि.मी. ।

कैलासगुहाः

[सम्पादयतु]

छत्तीसगडराजस्य रायगडमण्डले अनेकानि दर्शनीयानि स्थाननि सन्ति । सुन्दराणि चित्रकोटे, माण्ड्वाजलपातानि , निसर्ग रमणीयानि सन्ति । भूगर्भम् इति बहुदूरपर्यन्तं व्याप्ताः कैलासगुहाः प्रवासीजनानाम् अपूर्वम् अनदन्तं जनयति । साक्षात् दर्शनेन एव सर्व ज्ञातुं शक्यते । मार्गः - जगदल् पुरतः ४० कि.मी.दूरे अस्ति । धूमशकटमार्गः- रायघट् धूमशकटनिस्थानतः अपि वाहनसौ- कर्यमस्ति ।

वाहनमार्गः

[सम्पादयतु]

रायपूरतः जगदलपुर १९५ कि.मी. । जगदलपुरतः द्न्तेवाडा ८५ कि.मी. ।

कैलासगुहाः

[सम्पादयतु]

कोटम्मसारप्रदेशस्य तथा कैलासप्रदेशस्य गुहाः संशोधनयोग्याः इति दर्शकानाम् अभिप्रायः अस्ति । इतः खनिजानि विशाखपट्टनं प्रति नीयन्ते। केरन्दूलतः विशाखापत्तनधूमशकटमार्गः अतीव रोमाञ्चकारि- अनुभवं जनयति । छत्तीसगढराजस्य रायगढमण्डले अनेकानि दर्शनीयानि स्थानानि सन्ति । चित्रकूटे माण्ड्वा जलपाताः, निसर्गरमणीयाः च सन्ति । बहुदूरपर्यन्तं व्याप्ताः भूगर्भकैलासगुहाः प्रवासीजनानाम् अपूर्वम् अनुभवं यच्छन्ति । प्रत्यक्षं दर्शनम् एव वरम् ।

मार्गः

[सम्पादयतु]

जगदलपुरतः ४० कि.मी. ।

धूमशकटमार्गः

[सम्पादयतु]

रायगढधूमशकटनिस्थानतः अपि वाहनसौकर्यमस्ति । सम्‍बन्‍धित-विषया:

बाह्यानुबन्धः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=छत्तीसगढराज्यम्&oldid=483486" इत्यस्माद् प्रतिप्राप्तम्