दावणगेरेमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दावणगेरे इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
दावणगेरेमण्डलम्
मण्डलम्
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
केन्द्रम् दावणगेरेनगरम्
उपमण्डलानि दावणगेरे, हरिहर, जगलुरु, होन्नळ्ळि, चन्नगिरि, हरप्पनहाळ्ळि
Population
 (2001)
 • Total १७,९०,९५२
भाषाः
 • अधिकृतभाषा कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
PIN
577001-006
दूरवाणिसंज्ञा + 91 (08192)
Vehicle registration KA-17
Website davanagere.nic.in
कर्णाटकराज्ये दावणगेरेमण्डलम्

दावणगेरेमण्डलम् (०८१९२)

नद्यः[सम्पादयतु]

तुङ्गा, भद्रा

विस्तीर्णता[सम्पादयतु]

६०१८ च.कि.मी

स्थापना[सम्पादयतु]

१९९७तमे क्रैस्ताब्दे तदानीन्तनः राज्यमुख्यमन्त्री जे.एच्.पटेल महोदयः एतस्य पृथक् मण्डलत्वं कल्पितवान् । मध्यकर्णाटकस्य प्रधानं मण्डलम् एतत् ।

स्थानम्[सम्पादयतु]

एतत् चित्रदुर्ग-हावेरी-शिवमोग्गा-बल्लारीमण्डलैः परिवृत्तं वर्तते ।

निर्देशाङ्काः[सम्पादयतु]

कर्णाटकस्य हृदयस्थाने विद्यमानम् एतत् मण्डलं १४° २८’ रेखांशे ७५° ५९’ अक्षांशे च अस्ति । समुद्रस्तरात् ६०२.५ मी. औन्नत्ये अस्ति ।

उपमण्डलानि -६[सम्पादयतु]

दावणगेरे, हरिहर, हरपनहळ्ळि, जगलूरु, होन्नाळी, चन्नगिरि, इति षट् उपमण्डलानि अत्र सन्ति ।

उद्यमाः[सम्पादयतु]

वस्रोद्यमः अत्र जनप्रियः। प्रसिद्धं वाणिज्यक्षेत्रम् अपि अस्ति । दावणगेरे काटन् मिल्स वस्त्रोद्यमे ख्यातं नाम । अस्य पूर्वतनं नाम देवनगरी इति आसीत् ।

कृषिः[सम्पादयतु]

कार्पासः, तण्डुलः, चणकः, जवः, गोधूमः, सूर्यकान्तिः अत्र क्रियमाणा कृषिः।

शिक्षणम्[सम्पादयतु]

इदानीम् एतत् राज्यस्य प्रमुखविद्याकेन्द्रम् इव प्रवर्धमानम् अस्ति । चित्रकला, वस्त्रवर्णविन्यासशास्त्रम्, अभियन्तृशास्त्रं, वैद्यविज्ञानं, कला, वाणिज्यम् इत्यादीनां महाविद्यालयाः अत्र प्रतिष्ठापिताः सन्ति ।

दर्शानीयानि स्थानानि[सम्पादयतु]

तुङ्गभद्रानदी, हरिहरेश्वरदेवालयः, शान्तिसागरजलाशयः, कोण्डज्जी अरण्यधाम , बागलिकल्लेश्वरमन्दिरं, नीलगुन्ददेवालयः, सन्तेबेन्नूरुपुष्करिणी, दोड्डबातिपवित्रवनम्, कुन्दवाडसरः ।

पुण्यक्षेत्राणि[सम्पादयतु]

मायकोण्ड, अनगोडु, चेन्नगिरिः, होन्नाळी हरिहर देवरहळ्ळि, बसवपट्टणम्, कम्मारगट्टे, असगोडु, आनेकोण्ड,उच्चङ्गिदुर्ग, बेळगुत्ति, कुदूरु, बागळि, तीर्थरामेश्वर

१)आनेकोण्ड -(दावणागेरे)[सम्पादयतु]

राज्ञः गजानां बन्धनं स्नानकरणं च अत्र कुर्वन्ति स्म । तत्कारणात् ग्रामस्य आनेकोण्ड इति नाम अस्ति। अत्र कलात्मकः शिल्पविशिष्टः ईश्वरदेवालयः सुन्दरः अस्ति । अत्र चत्वारः स्तम्भाः गोलाकाराः कलासहिताः सन्ति ।

मार्गः[सम्पादयतु]

  • दावणगेरेतः २ कि.मी

२) चेन्नगिरिः[सम्पादयतु]

चेन्नगिरिसमीपे चेन्नगिरिदुर्गम् अस्ति । उन्नते पर्वते दुर्गं देवालयः च दर्शनीयौ । देवः रङ्गनाथस्वामी त्रिपादपरिमितोन्नतः व्याधवेषधारी शङ्खचक्र- धनुर्बाणहस्तः स्थितवान् । एषः मृगयासक्तः बेटे(मृगया) रङ्गस्वामी । अत्र पञ्चमुखी अष्टभुजयुक्तः हनुमान् च अस्ति । अत्रत्य श्रीराघवेन्द्रमठः पञ्चमः मन्त्रालयः इति ख्यातः अस्ति ।

मार्गः[सम्पादयतु]

३)होन्नाळी[सम्पादयतु]

एतत् पुराणप्रसिद्धं भास्करक्षेत्रम् अस्ति । तुङ्गभद्रानदीतीरे इदं क्षेत्रम् अस्ति । अत्र प्राचीनः श्रीराघवेन्द्रदेवालयः अस्ति । भक्तः श्री रामाचार्यः एतत् स्थापितवान् । अत्र बृन्दावनप्रतिष्ठासमये श्रीराघवेन्द्रस्वामिनः दर्शनमभवदिति जनानां विश्वासः अस्ति । यादवार्याणां शिष्यः श्री श्रीनिवासतीर्थः श्री राघवेन्द्रस्वामिनः समकालिकः। श्रीराघवेन्द्रस्वामिनः ’तीर्थ’ इति विशेषनाम दत्तवन्तः । बृन्दावनं तुङ्गभद्रासेतोः अधः अस्ति । तत्र आराधनामहोत्सवः प्रतिवर्षं प्रचलति । दक्षिणे पार्श्वे वड्डनकेरि भागे बृहत् प्राणदेवमूर्तिः देवालये अस्ति। एतां मूर्तिं श्री व्यासरायस्वामी प्रतिष्ठापितवन्तः इति इतिहासेन ज्ञायते । श्री प्राणदेवः हनुमान् समुद्रलङ्घनसमये एतत् रुपं धृतवानिति जनानामाभिप्रायः ।

मार्गः[सम्पादयतु]

४) कम्मारगट्टे[सम्पादयतु]

अस्मिन् क्षेत्रे श्रीपरशुरामः स्वदिग्विजयानन्तरं खड्गं प्रक्षालितवान् इति कारणात् एतत् क्षेत्रम् कर्महरक्षेत्रमिति प्रख्यातम् अस्ति । मलेबेन्नुरुक्षेत्रे हेळवनकट्टे गिरियम्मा इति भक्ता कीर्तनकत्री चासीत् । एषा अनेकचमत्कारकर्त्री च । हेळवनकट्टे गिरियम्मा वैराग्यनिधिः सर्वत्र अटित्वा स्वामिनः आदेशात् अत्र आगत्य श्रीप्राणदेवस्य दर्शनं प्राप्तवती । अन्ते च श्रीप्राणदेवं प्रणम्य नदीप्रवाहे आत्मार्पणं कृतवती इति त्रिशतवर्षपूर्वतनः इतिहासः । श्रावणशुद्धपञ्चमीदिने अत्र यात्रामहोत्सवः प्रचलति ।

मार्गः[सम्पादयतु]

आहारवैशिष्ट्यम्[सम्पादयतु]

अत्र पचमानाः बेण्णेदोसे, खारमण्डक्की, गुल्लडकि उण्डी, मेणसिनकायि, नर्गीस्, मसाले मण्डक्कि इत्यादीनि प्रसिद्धभक्ष्यानि ।

प्रसिद्धाः व्यक्तयः[सम्पादयतु]

महाकविः महलिङ्गरङ्गः । कोण्डज्जि बसप्प । जगलूरु महमद् इमाम् । नल्लूरु प्रसादः । बि.एन्. शान्ताराम् । चिगटेरि मुरिगेप्प। कासल् श्रीनिवास शेट्टि । ब्रह्मप्प तवनप्पनवर् । डा. मुरिगेप्प चेन्नवीरप्प मोदि । डा. एस्.एम्.एलि । मागनूरु बसप्प । टि.जि.षडाक्षरप्प । के.मल्लप्प । जे.एच्.पटेल । राजनहल्लि हनुमन्तप्प । जि.मल्लिकार्जुनप्प। शामनूरु शिवशङ्करप्प । बि.वि.वीरभद्रप्प । अ.रा.सेतुराम राव् । चिन्दोडी वीरप्प । चिन्दोडी लीला । इत्यादयः अत्र प्रसिद्धिमापन्नाः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दावणगेरेमण्डलम्&oldid=431037" इत्यस्माद् पुनः प्राप्तिः