दैलेखमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


दैलेखमण्डलम् नेपालदेशस्य भेरी अञ्चले अवस्थितं एकं मण्डलं वर्तते ।

विवरणम्[सम्पादयतु]

दैलेखमण्डलं दधीचिऋषेः तपस्यास्थलं अस्ति । एतन्मण्डलं कतिचित्कालपूर्वं दधिलेक इति नाम्ना अपि प्रसिद्धिं प्राप्तवान् । योगिवर्यः नरहरिनाथः हिमवत्खण्डस्थितस्य अस्य जनपदस्य नाम देवलोक इत्यपि प्रोक्तवान् । अधुना एतन्मण्डलं कर्णालीप्रदेशे अवस्थितः अस्ति । अस्य जनपदस्य मुख्यकेन्द्रः दधिलेक आपणम् वर्तते । एतस्य पूर्वायां दिशि जाजरकोटजनपदः पश्चिमायां अछामजनपदः दक्षिणस्यां सुर्खेतजनपदः उत्तरस्यां कालीकोट जनपदः वर्तते । एतज्जनपदः मध्यपर्वतीयभूखण्डस्य रमणियधरातलशोभितः ऐतिहासिक-पुरातात्विकमहत्वेन समलङ्कृतः अस्ति । पुरा बाइसी-चौबिसीराज्यकाले खसमल्लराजानां शिशिरकालीनराजधानी बहुविधप्राचीधरोहरबिभ्रती दुल्लूनगरी अस्मिन्नेव जनपदे विराजते । दधिलेक जनपदे अनन्तकालात् अखण्डरुपेण प्रज्वलितं परमपावनं पञ्चक्रोशीज्वालातीर्थमपि अत्रैवास्ति । मुख्यसदरमुकामकेन्द्रस्य आपणे विशालः प्रस्तरनिर्मितः द्वादशकोणसमन्वितः सैनिकदुर्गः विराजते । पश्चिमे महती कर्णाली नदी वहति ।[सम्पादयतु]

अत्रापि दर्शनीयम्[सम्पादयतु]

आधाराः[सम्पादयतु]

बाह्यानुबंधाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दैलेखमण्डलम्&oldid=455082" इत्यस्माद् प्रतिप्राप्तम्