पाटणमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पाटणमण्डलं इत्यस्मात् पुनर्निर्दिष्टम्)
पाटणमण्डलम्
मण्डलम्
गुजरातराज्ये पाटणमण्डलम्
गुजरातराज्ये पाटणमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters पाटण
Area
 • Total ५,७०० km
Population
 (२०११)
 • Total १३,४२,७४६
Languages
 • Official गुजराती, हिन्दी
Website patan.gujarat.gov.in
उत्तरगुजरात

पाटणमण्डलम् (गुजराती: પાટણ જિલ્લો, आङ्ग्ल: Patan district) इत्येतत् गुजरातराज्ये विद्यमानं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पाटण इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

पाटणमण्डलस्य विस्तारः ५,७०० किलोमीटर्मितः अस्ति । गुजरातराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे मेहसाणामण्डलं, पश्चिमे कच्छमण्डलम्, उत्तरे बनासकाठामण्डलं, दक्षिणे सुरेन्द्रनगरमण्डलम् अस्ति । अस्मिन् मण्डले ६०० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले एकैव नदी प्रवहति । सा सरस्वती ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं पाटणमण्डलस्य जनसङ्ख्या १३,४२,७४६ अस्ति । अत्र ६,९४,०६२ पुरुषाः ६,४८,६८४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २३४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २३४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.५३% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३५ अस्ति । अत्र साक्षरता ७३.४७% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- १ चाणस्मा २ हारीज ३ पाटण ४ राधनपुरं ५ समी ६ सान्तलपुरं ७ सिद्धपुरम्

कृषिः वाणिज्यं च[सम्पादयतु]

गोधूमः, 'बाजरा', धान्यानि, कार्पासः, एरण्डं, सर्षपः/तन्तुभः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि सस्यानि सन्ति । बृहज्जम्बीरं, 'बेर्', दाडिमः, 'ग्वावा', पपितफलं च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि फलानि सन्ति । आलुकं, 'बीन्स्', वृन्ताकं, कपिशाकं ('क्याबिज्'), वार्तिकी, 'कोलीफ्लवर्' च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि शाकानि सन्ति । आहारसंस्करणं, कृषिः, वस्त्रोत्पादनं, 'पेपर् एण्ड् पल्प्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति । पाटणस्य 'पटोळा'-शाटिकाः तु समग्रे प्रपञ्चे सुप्रसिद्धाः सन्ति । 'मश्रू' इति अपरः वस्त्रविशेषः कार्पासकौशेययोः मिश्रणेन पाटणे उत्पाद्यते ।

पाटण-नगरे स्थितम् राणी की वाव्

वीक्षणीयस्थलानि[सम्पादयतु]

एकादश-द्वादशशतके निर्मितं 'राणी की वाव्' इतीदम् अस्य मण्डलस्य प्रमुखम्, आकर्षकं च वीक्षणीयस्थलम् अस्ति । सहस्रलिङ्गतडागः अपरं वीक्षणीयस्थलम् अस्ति । अस्मिन् मण्डले अनेकानि जैनमन्दिराणि सन्ति । तेषु पञ्चसारपार्श्वनाथमन्दिरं बृहत्तमं, प्रसिद्धं, प्रमुखं च अस्ति । इदमपि एकं वीक्षणीयस्थलम् ।







बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पाटणमण्डलम्&oldid=458266" इत्यस्माद् प्रतिप्राप्तम्