पोरबन्दरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पोरबंदरमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
पोरबन्दरमण्डलम्
मण्डलम्
गुजरातराज्ये पोरबन्दरमण्डलम्
गुजरातराज्ये पोरबन्दरमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters पोरबन्दर
Area
 • Total २,२९५ km
Population
 (२०११)
 • Total ५,८६,०३२
Languages
 • Official गुजराती, हिन्दी
Website porbandar.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

पोरबन्दरमण्डलम् (गुजराती: પોરબંદર જિલ્લો, आङ्ग्ल: Porbandar district) इत्येतत् गुजरातराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पोरबन्दर इति नगरम् । अस्मिन्नेव नगरे मोहनदासकरमचन्दगान्धिः जन्म अलभत ।

भौगोलिकम्[सम्पादयतु]

पोरबन्दरमण्डलस्य विस्तारः २,२९५ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे राजकोटमण्डलं, पश्चिमे अरब्बीसमुद्रः, उत्तरे जामनगरमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले ६६० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- भादर, ओझत, मीनसरः, मधुवन्ती ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं पोरबन्दरमण्डलस्य जनसङ्ख्या ५,८६,०६२ अस्ति । अत्र ३,००,९६७ पुरुषाः २,८५,०९५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ९.१७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४७ अस्ति । अत्र साक्षरता ७६.६३% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- १ कुतियाणा २ पोरबन्दर ३ राणावाव

कृषिः वाणिज्यं च[सम्पादयतु]

कलायः, 'बाजरा', गोधूमः, 'जवार्', धान्यानि, कार्पासः, एरण्डं, पलाण्डुः, वृन्ताकं, वार्तिकी च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । 'सिमेण्ट्', रासायनिकोद्यमः, लोहसम्बद्धाः उद्यमाः, नौकानिर्माणम्, मत्स्यसंस्करणं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

कीर्तिमन्दिरम् इत्येतत् गान्धेः जन्मस्थलम् अस्ति । भारतमन्दिरं, नेहरू-तारालयः, विजयविलासश्च प्रसिद्धानि वीक्षणीयस्थलानि । पोरबन्दर-तः ३० किलोमीटर्दूरे बरडा-गिरिधाम अस्ति । इदमपि वीक्षणीयस्थलम् । अस्य मण्डलस्य भासरानामके ग्रामे सप्तमशतके निर्मितानि सप्त मन्दिराणि सन्ति । माधवरायजी हवेली मन्दिरं, सुदामपुरी मन्दिरं, हजूर् सभा, सागरतटाः च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=पोरबन्दरमण्डलम्&oldid=458257" इत्यस्माद् प्रतिप्राप्तम्