सामग्री पर जाएँ

पोरबन्दरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(पोरबन्दरमण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
पोरबन्दरमण्डलम्
मण्डलम्
गुजरातराज्ये पोरबन्दरमण्डलम्
गुजरातराज्ये पोरबन्दरमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters पोरबन्दर
Area
  Total २,२९५ km
Population
 (२०११)
  Total ५,८६,०३२
Languages
  Official गुजराती, हिन्दी
Website porbandar.gujarat.gov.in
सौराष्ट्रम् (पश्चिमगुजरात)

पोरबन्दरमण्डलम् (गुजराती: પોરબંદર જિલ્લો, आङ्ग्ल: Porbandar district) इत्येतत् गुजरातराज्यस्य किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पोरबन्दर इति नगरम् । अस्मिन्नेव नगरे मोहनदासकरमचन्दगान्धिः जन्म अलभत ।

भौगोलिकम्

[सम्पादयतु]

पोरबन्दरमण्डलस्य विस्तारः २,२९५ चतुरस्रकिलोमीटर्मितः अस्ति । गुजरातराज्यस्य पश्चिमभागे अर्थात् सौराष्ट्रे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे राजकोटमण्डलं, पश्चिमे अरब्बीसमुद्रः, उत्तरे जामनगरमण्डलं, दक्षिणे अरब्बीसमुद्रः अस्ति । अस्मिन् मण्डले ६६० मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- भादर, ओझत, मीनसरः, मधुवन्ती ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणं पोरबन्दरमण्डलस्य जनसङ्ख्या ५,८६,०६२ अस्ति । अत्र ३,००,९६७ पुरुषाः २,८५,०९५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ९.१७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९४७ अस्ति । अत्र साक्षरता ७६.६३% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले त्रीणि उपमण्डलानि सन्ति । तानि- १ कुतियाणा २ पोरबन्दर ३ राणावाव

कृषिः वाणिज्यं च

[सम्पादयतु]

कलायः, 'बाजरा', गोधूमः, 'जवार्', धान्यानि, कार्पासः, एरण्डं, पलाण्डुः, वृन्ताकं, वार्तिकी च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । 'सिमेण्ट्', रासायनिकोद्यमः, लोहसम्बद्धाः उद्यमाः, नौकानिर्माणम्, मत्स्यसंस्करणं च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

कीर्तिमन्दिरम् इत्येतत् गान्धेः जन्मस्थलम् अस्ति । भारतमन्दिरं, नेहरू-तारालयः, विजयविलासश्च प्रसिद्धानि वीक्षणीयस्थलानि । पोरबन्दर-तः ३० किलोमीटर्दूरे बरडा-गिरिधाम अस्ति । इदमपि वीक्षणीयस्थलम् । अस्य मण्डलस्य भासरानामके ग्रामे सप्तमशतके निर्मितानि सप्त मन्दिराणि सन्ति । माधवरायजी हवेली मन्दिरं, सुदामपुरी मन्दिरं, हजूर् सभा, सागरतटाः च अस्य मण्डलस्य अन्यानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=पोरबन्दरमण्डलम्&oldid=458257" इत्यस्माद् प्रतिप्राप्तम्