बेङ्गळूरुग्रामान्तरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(बेंगळूरु ग्रामीय मण्डल इत्यस्मात् पुनर्निर्दिष्टम्)
बेङ्गळूरुग्रामान्तरमण्डलम्

ಬೆಂಗಳೂರು ಗ್ರಾಮೀಣ
मण्डलम्
कर्णाटकराज्ये बेङ्गळूरुग्रामान्तरमण्डलम्
कर्णाटकराज्ये बेङ्गळूरुग्रामान्तरमण्डलम्
राष्ट्रम्  भारतम्
राज्यम् कर्णाटकराज्यम्
उपमण्डलानि देवनहळ्ळी, दोड्डबळ्ळापुर, होसकोटे, नेलमङ्गल
भाषाः
 • अधिकृतभाषाः कन्नडभाषा
Time zone UTC+5:30 (भारतीयसामान्यकालमानम्)
दूरवाणीसंज्ञा + 91 (0)
Vehicle registration KA-
Website bangalorerural.nic.in

बेङ्गळूरुग्रामान्तरमण्डलम् (Bangalore Rural district) अपि कर्णाटकस्य २९ मण्डलेषु अन्यतमम् अस्ति । १९८६ तमक्रैस्ताब्दस्य आगस्ट १५ दिनाङ्के समग्रबेङ्गळूरुमण्डलं नगरं ग्रामीणं च इति द्विधा विभक्तम् । राज्ये वैशाल्ये अस्य स्थानं १६ तमम् । एतत् कर्णाटकस्य आग्नेयकोणे अस्ति । ग्रामीणमण्डले चत्वारि उपमण्डलानि २५ प्रमुखाः ग्रामाः, १७१३ ग्रामाः, ९ पत्तनानि, २२९ ग्रामपञ्चायतानि च सन्ति ।

विस्तीर्णता[सम्पादयतु]

५०१५ च.कि.मी.

उपमण्डलानि[सम्पादयतु]

देवनहल्ली, दोड्डबळ्ळापुर, होसकोटे, नेलमङ्गल च तानि उपमण्डलानि ।

नद्यः[सम्पादयतु]

अर्कावती, कण्वा, दक्षिणपिनाकिनी, त्रिभूतरी नद्यः अस्मिन् मण्डले प्रवहन्ति । पवित्रा प्रसिद्धा च नदी कावेरी अपि इतः १६कि.मी दूरे प्रवहति । कृषिकार्याणि एव एतेषां जनपदवासिनाम् उपजीविकासाधनं भवति । ते प्रायशः वृष्टिम् आश्रित्य कृषिकार्यं कुर्वन्ति । आम्रवृक्षाणाम् , पनसफलानाम्, द्राक्षाफलानाम्, बहुबीजफलानाम्, च कृषिम् अधिकतया कुर्वन्ति ।

प्रसिद्धक्षेत्राणि[सम्पादयतु]

सावनदुर्ग, अरिसिनकुण्टे, बृन्दावन, शिवगङ्गे, धारीसुब्रहमण्य, काकोळु, देवनहळ्ळी च ।

१.शिवगङ्गे[सम्पादयतु]

एतत् पर्वतीयक्षेत्रम् । अस्य एकशृङ्गगिरिः मन्दाकिनीपर्वतः वृषभाद्रिः कमदूगिरिः इति च नामानि सन्ति । अयं पर्वतः भिन्नभिन्नदिक्भ्यः भिन्नरुपेण दृश्यते । पर्वतः (४५५ पाद) आरोहणाय कष्टसाध्यः । सोपानमार्गः अस्ति । तत्र नैसर्गिकगुहालयाः शिखराणि देवस्थानानि च सन्ति । श्री गविगङ्गाधरेश्वरः, होन्नादेवी, शारदाम्बा, शान्तीश्वरः, बडेगणपतिः पादेकल्लु वीरभद्रः, एम्मे बसव इत्यादयः प्रमुखाः देवालयाः । प्रमुखतीर्थानि- गविमठसमीपे पातालगङ्गा, अगस्त्येश्वरतीर्थम् च । अत्यन्तकष्टेन गम्यस्थानानि तीर्थोदकं, कोडगुल्लु बसव, केम्पेगौडहजार इति ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ५६ कि.मी । नेलमङ्गलतः ३२. कि.मी । निडुवन् समीपस्थं रेल् निस्थानकम् अस्ति ।

२.घाटिसुब्रह्मण्यः[सम्पादयतु]

बेङ्गळूरुसमीपे अस्ति । एषः श्रीसुब्रह्मण्यदेवालयः अस्ति । अस्य समीपे एव श्रीनरसिंहः स्वयम् उद्भवगोचरः अस्ति । देवालयस्य पार्श्वे कुमारधारा इति पवित्रपुष्करिणी अस्ति । अत्र पुष्यशुद्धषष्ठीदिने बहवः आगच्छन्ति । अत्रैवा गवां यात्रा प्रसिद्धा, कर्णाटके अद्वितीया च ।

मार्गः[सम्पादयतु]

बेङ्गळूरुतः ५२ कि.मी. दोड्ड्बळ्ळापुरतः १२ कि.मी । समीपे माकळिरेलनिस्थानम् अस्ति ।


बाह्यानुबन्धः[सम्पादयतु]