सामग्री पर जाएँ

दक्षिणकन्नडमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कर्णाटके दक्षिणकन्नडामण्डलम्

दक्षिणकन्नडमण्डलं (Dakshina Kannada) कर्णाटकराज्ये विद्यमानं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं मङ्गळूरुनगरम्

विस्तीर्णता

[सम्पादयतु]

दक्षिणकन्नडमण्डलस्य- विस्तीर्णता ४८४३ च.कि.मी मिताऽस्ति।

भौगोलिकता

[सम्पादयतु]

कर्णाटकस्य मण्डलेषु अतिविशिष्टं मण्डलं दक्षिणकन्नडमण्डलम् अस्ति । मङ्गळूरु अस्य मण्डलस्य केन्द्रस्थानम् । पूर्वम् उडुपी, कुन्दापुरं कार्कलं च उपमण्डलानि अस्य मण्डलस्य एव भागाः आसन् । अत्र तुळु इति विशिष्टा भाषा भाष्यते । अतः तुळुनाडु इति अपि एतस्य नाम अस्ति ।

इतिहासः

[सम्पादयतु]

पूर्वं दक्षिणोत्तरकन्नडमण्डले च मेलयित्वा केनरा इति कथयन्ति स्म । कर्णाटकस्य १५० कि.मी समुद्रतीरप्रदेशः अस्ति । क्रि.श. १८६० तमे वर्षे ब्रिटिश् जनाः उत्तरकेनरा, दक्षिणकेनरा इति विभागम् अकुर्वन् । क्रि.श.१८६२ तमे वर्षे उत्तरकेनराप्रदेशं मुम्बैप्रेसिडेन्सी मध्ये, दक्षिणकेनराप्रदेशं मद्रास् प्रेसिडेन्सी मध्ये प्रवेशितवन्तः । स्वातन्त्र्योत्तरकाले कासरगोडुप्रदेशः अपि दक्षिणकन्नडमण्डले अन्तर्गतः आसीत् । क्रि.श. १९९७ तमे वर्षे प्रशासनहितदृष्ट्या कर्णाटकसर्वकारः समग्रं दक्षिणकन्नडं विभज्य द.क., उडुपी इति मण्डलद्वयम् अकरोत् । एतं समुद्रतटप्रदेशं परशुरामसृष्टिः इति अपि भावयन्ति । अस्मिन् मण्डले मत्स्योद्यमः कृषिः च प्रधानौ उद्योगौ भवतः। किन्तु इदानीन्तनकाले यन्त्रोद्यमः अपि संवृद्धः अस्ति । शालिधान्यानि, नारिकेलफलानि च अत्र अधिकानि प्ररोहन्ति । वाणिज्योद्यमस्य फलचयरूपेण पूगफलानि अपि यथेष्टं प्ररोहन्ति । प्रगतिशीलप्रदेशेषु अस्य द्वितीयं स्थानम् अस्ति । अस्मिन् मङ्गळूरु , बण्टवाल , पुत्तूरु , सुल्य , बेल्तङ्गडि इति पञ्च उपमण्डलानि भवन्ति । शैक्षणिकदृष्ट्या अधिका अभिवृद्धिः अत्र दृश्यते । वैद्यकीयविज्ञाने, अभियान्त्रिकीशास्त्रे, नर्सिङ्ग्, एम्.बि.ए. विभागे च अत्र न्यूनशुल्केन अध्ययनार्थम् अवसराः लभ्यन्ते ।

कन्नड, तुलु, हव्यककन्नड, कोङ्कणी, ब्यारि, कुन्दकन्नड, इत्याद्याः भाषाः अत्र भाष्यन्ते ।

उपमण्डलानि ५

[सम्पादयतु]

मङ्गळूरु , बेळतङ्गडी , बण्ट्वाळ , पुत्तुरु सुळ्य च ।


पवित्रक्षेत्राणि

[सम्पादयतु]

मङ्गळूरु, धर्मस्थलं , कुक्केसुब्रह्मण्यं , मूडबिद्रि , पोळली , चिन्तामणिनृसिंहः , कोक्कड शिशिलेश्वरः , कान्तावर , उच्चिल , तोडिकान , वेणूरु कुद्रोळी , कटीलु कद्रि च ।

नेत्रावती, गुरुपुर, गङ्गोळ्ळी, सीतानदी, स्वर्णा


दर्शनीयानि स्थानानि

[सम्पादयतु]

मूडुबिदरे स्थितः सहस्रस्तम्भबसदिः , गुरुबसदिः , धर्मस्थले श्रीमञ्जुनाथदेवालयः , कद्रि मञ्जुनाथेश्वरदेवालयः , कटिलु श्री दुर्गापरमेश्वरीदेवस्थानम् , कुक्के श्रीसुब्रह्मण्यदेवालयः , शान्तिमोगरु श्रीसुब्रह्मण्यस्वामिदेवालयः, कार्कलगोम्मटेश्वरपर्वतः, चतुर्मुखबसदि, श्री अनन्तशयनदेवालयः, पुत्तिगे श्रीसोमनाथेश्वरदेवालयः, पोललि श्री राजराजेश्वरिमन्दिरं, बप्पनाडु श्री दुर्गापरमेश्वरी देवस्थानं, सोमेश्वरनाथदेवालयः, कृष्णापुरमठः, उल्लालदर्गा, पुत्तूरुमहालिङ्गेश्वरदेवालयः, मङ्गळूरु- मस्जिद् तक्वापम्प्वेल्, पुत्तूरुदर्गा शरीफ्माडन्नूर्, दर्गा शरीफ्बैतड्क, दर्गा शरीफ्काजूर् इत्यादीनि प्रसिद्धानि दर्शनीयानि स्थानानि सन्ति ।

मङ्गळूरुनगरं देवालयानाम् आश्र्यस्थानम् । मङ्गळादेवीदेवालयः प्रमुखः। श्रीमङ्गळादेवी नगरदेवता च । अतः एव नगरस्य मङ्गळूरु इति नाम प्राप्तम् अस्ति । अत्रत्याः अन्ये देवालयाः वेङ्कटरमणदेवालयः (२७३५), महामाया देवालयः मुख्यप्राणः, विठोबा, उमामहेश्वरः, सोमेश्वरः (उल्लाल) त्रिभुवनेश्वरः, गोरखनाथः काळी, शरवु गणपतिः च । “मैसूरु-अधिपतिः टिप्पुसुल्तान् अत्र आगन्य आक्रमणं कर्तुम् इष्टवान् । स्वप्ने देवं दृष्ट्वा पलायनं कृतवान् । अनन्तरं देवालयकार्यार्थं स्वराज्यकोशतः बहुधनं सुवर्ण-रत्नादिकं च दत्तवान्” इति इतिहासः सूचयति ।

गोकर्णनाथेश्वरमन्दिरम्
गोकर्णनाथेश्वरमन्दिरम्

मङ्गळूरुनगरे मत्स्योद्यमः, धूमवर्तिका-उद्यमः, काफीसंस्करणघटकः इत्यादयः अनेके उद्यमाः उत्तमतया कार्यं कुर्वन्ति ।

मार्गः

[सम्पादयतु]
  • कङ्कनाडी-रेल् निस्थानकम् ।
  • वायुमार्गः-बज्पेविमाननिस्थानकम् ।
  • लोकयानानि- यथेष्टं सर्वप्रदेशतः सन्ति ।

मङ्गळूरुसमीपे कुद्रोळिगोकर्णनाथमन्दिरं बहु सुन्दरम् अस्ति । अत्र दसरामहोत्सवः वैभवपूर्णः भवति । कद्रि श्रीमञ्जुनाथदेवालयः (दशमे शतके) प्रसिद्धः अस्ति । उल्लालसागरतीरः नवमङ्गलूरुनौकास्थानम् इत्यादीनि अन्यप्रेक्षणीयस्थलानि ।

एषः प्रदेशः फल्गुणीनदीतीरे विद्यमानानाम् आजिराजानां राजधानी आसीत् । ”’जैनकाशी”’ति प्रसिद्धः एषः स्थलविशेषः १८ बसदि( बसदिशब्दः वसतिमूलः, जैनमन्दिरम् इत्यर्थम् सूचयति)युक्तः । त्रिभुवनातिलकचूडामणिचन्द्रप्रभास्वामिनः महाचैत्यालयः (दोड्डबसदि- २४३३) सुन्दरः अस्ति । अत्र अष्टमतीर्थकरस्य सार्धषड्पादपरिमितोन्नता मूर्तिः मनोहरा प्रकाशमाना च अस्ति । त्रिस्तरेषु देवालयस्य विस्तारम् औन्नत्यं वैभवं कलासैन्दर्यम् च अत्र द्रष्टुं शक्यमस्ति । काष्ठनिर्मितानि शिलानिर्मितानि अत्र उत्तमानि शिल्पानि अत्र सन्ति । अग्रभागे एकशिला- निर्मितः ५० पादपरिमितोन्नतः शिलास्तम्भः भव्यः कलात्मकः च अस्ति । हिमाचलप्रदेशस्य शैली अत्र दष्टुम् शक्या अस्ति । सहस्रस्तम्भानां बसदिः गमनार्हः अस्ति । पार्श्वनाथस्वामिनः सन्निधिः ’गुरुबसदि’ ’हळेबसदि’ ’सिद्धान्तबसदि’ इति प्रसिद्धः अस्ति । अत्र अष्टपादपरिमितोन्नतम् नेल्लिकारुशिलानिर्मितं सुमनोहरं बिम्बम् , अन्यानि नवरत्ननिर्मितानि ३५ बिम्बानि च सन्ति ।

मार्गः

[सम्पादयतु]
  • मङ्गळूरुतः ३५ कि.मी
  • बण्ट्वाळ, बेळतङ्गडि समीपनगरे
  • कार्कळतः २० कि.मी

नेत्रावतीनदीतीरे स्थितं दक्षिणकन्नडमण्डालस्य प्रसिद्धेषु त्रिस्थलेषु अन्यतमं मुख्यं क्षेत्रम् इदम् । श्रीमञ्जुनाथस्वामिदेवालयः सोदे वादिराजस्वामिनः काले निर्मितः इति इतिहासेन ज्ञातुं शक्यम् । अधुनापि श्रीमञ्जुनाथस्वामिनः पूजा माध्वमतार्चकैः क्रियते । किन्तु अस्य क्षेत्रस्य व्यवस्थापकाः हेग्गडेवंशीयाः जैनाः इति तु विशेषः। श्रीमञ्जुनाथेश्वरस्य सन्निधाने विष्णुप्रतिकः नरसिंहशालिग्रामः अस्ति । प्रतिदिनम् अन्नदानं विद्यादानम् औषधदानम् अत्र प्रचलति । सहस्रशः जनाः प्रतिदिनम् आगच्छन्ति । देवालयव्यवस्थापकैः आवास-भोजन-दर्शन-पूजादिव्यवस्थाः कल्पिताः सन्ति । एकत्र धनधान्यव्यवहारः, यात्रिकानाम् आगमनम् साहित्य- सङ्गीतनृत्योत्सवाः, कायकसेवा, दानम् इत्यादिभिः कारणैः‘अभिनवतिरुपति’, इति धर्मस्थलस्य नाम आगतम् अस्ति । कार्त्तिकमासे लक्षदीपोत्सवः वैभवेन प्रचलति । तदा लक्षाधिकजनाः अत्र आगच्छन्ति ।

धर्मस्थलमञ्जुनाथमन्दिरम्
धर्मस्थलमञ्जुनाथमन्दिरम्

धर्मस्थळक्षेत्रस्य रक्षकः अण्णप्पस्वामी लघुपर्वतप्रदेशे स्थितः अस्ति । रत्नगिरिपर्वते गोमटेश्वरस्य मूर्तिः (१९७३) प्रतिष्ठापिता अस्ति ।मञ्जूषाकार् -यानसंग्रहालयः, मत्स्यागारः नेत्रावतीनद्यां स्नानम् इतरविशेषाः । सर्वधर्मसम्मेलनं सामूहिकविवाहसमारम्भाः अत्र प्रचलन्ति ।

मार्गः

[सम्पादयतु]

४.कुक्केसुब्रह्मण्यम्(सुळ्य) एतत् पुराणानुसारं कुक्केपदृणं परशुरामक्षेत्रं स्कन्दक्षेत्रमिति च प्रसिद्धम् अस्ति । एतत् क्षेत्रं कुमारपर्वतशेषपर्वतयोः मध्ये स्थितम् अस्ति । अस्य क्षेत्रस्य अधिपतिः पावनमूर्तिः श्रीसुब्रह्मण्यस्वामी । अत्रत्या पवित्रनदी ”’कुमारधारा”’। प्रतिदिनम् भक्तजनाः अत्र आगत्य स्कन्दस्य पूजाम् सर्पसंस्कारादिकं कुर्वन्ति । समीपे आदिसुब्रह्मण्यम् इति क्षेत्रम् अस्ति । जनाः तत्रत्यवल्मीकस्य दर्शनं कुर्वन्ति । अत्र मध्वसम्प्रदायानुसरी कश्चनः मठः अस्ति । अत्र श्रीनरसिंहदेवस्य विग्रहः अस्ति । श्रीमठस्य यतिपरम्परायाः वृन्दावनानि अपि सन्ति । श्री नरसिंहदेवस्य सम्पुटे एव पूजापद्धतिः अत्र अस्ति ।

मार्गः

[सम्पादयतु]

५.कटिलु (मङ्गळूरु) उडुपि-मङ्गळूरुराष्ट्रियमार्गस्य पार्श्वे श्रीदुर्गापरमेश्वरीमन्दिरम् अस्ति । नन्दिनीनदीतीरे प्रशान्तस्थले सुन्दरः प्राचीनः देवालयः अस्ति । एषः द्वीपदेवालयः। गर्भगृहे शक्तिस्वरूपिणी लिङ्गाकारेऽस्ति। तत्पश्चात् शङ्खचक्रधारिणी चतुर्भुजा वरदाभयमुद्रायुक्ता देवी लोहबिम्बरुपेण विराजते । मूर्तिः लिङस्य अपेक्षया प्राचीना न । वैष्णवाः एव अत्र अर्चकाः शाक्ततन्त्रमार्गतः पूजयन्ति । अत्र विशेषदिनानि नाम मेषसंक्रमणस्य अनन्तरम् अष्टादिनानि । तथैव सिंहशुक्रवारस्य पवित्रदिनम् । जागृतशक्तिस्थलमेतत् । देवालयस्य स्तम्भेषु सुन्दरशिल्पानि प्रसिद्धः शिल्पी रञ्जाळ गोपालशेणै उत्कीर्णवान् अस्ति।

मार्गः

[सम्पादयतु]

प्रसिद्धाः व्यक्तयः

[सम्पादयतु]

निर्देशाङ्काः

[सम्पादयतु]

कला संस्कृतिः

[सम्पादयतु]

आहारपद्धतिः, वेशभूषणानि,

बाह्यानुबन्धः

[सम्पादयतु]


"https://sa.wikipedia.org/w/index.php?title=दक्षिणकन्नडमण्डलम्&oldid=481176" इत्यस्माद् प्रतिप्राप्तम्