बिल्वः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Bael

जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Eudicots
(अश्रेणिकृतः) Rosids
गणः Sapindales
कुलम् Rutaceae
उपकुलम् Aurantioideae
ट्राइबस् Clauseneae
वंशः Aegle
Corrêa
जातिः A. marmelos
द्विपदनाम
Aegle marmelos
(L.) Corrêa
बिल्वफलम्

परिचयः[सम्पादयतु]

बिल्वः कश्चित् वृक्षविशेषः । भारते अयं अतिपवित्रः तरुः अस्ति । शिवस्य बहुप्रियं बिल्वपत्राणि इति भारतीयानां दृढः विश्वासः| धार्मिकभावनया आयुर्वेदीयप्रयोजनेन च अस्य वृक्षस्य प्रामुख्यम् अस्ति । अयं श्लोकः अस्य गरिमां सूचयति । अयं मध्यमप्रमाणेन प्ररोहति । एशियाखण्डे सर्वत्र एषः वृक्षः दृश्यते । मन्दिराणां पुरतः उद्यानेषु च विशेषातया प्रारोपयन्ति ।

अश्वत्थमेकं पिचुमन्दमेकं, न्यग्रोधमेकं दशतिन्त्रिणीकम् ।
कपित्थबिल्वामलकी त्रयञ्च, पञ्चाम्ररोपी नरकं न पश्येत् ।।

अयं बिल्ववृक्षः भारते वर्धमानः कश्चन वृक्षविशेषः । अयं वृक्षः सर्वेषु अपि प्रदेशेषु वर्धते । विशेषतया ४,००० पादमिते औन्नत्ये वर्धते । धार्मिकदृष्ट्या अयं बिल्वः भगवतः शिवस्य अत्यन्तं प्रियः इति विश्वसन्ति भारते । अयं वृक्षः २५ – ३० पादमितम् उन्नतः भवति । ३ – ४ पादमितः स्थूलः भवति । १ अङ्गुलं यावत् दीर्घाणि कण्टकानि भवन्ति । अस्य पर्णानां कश्चन गन्धः भवति । पुष्पाणि हरितमिश्रितश्वेतानि, सुगन्धयुक्तानि च भवन्ति । फलानि २ – ४ अङ्गुलं यावत् स्थूलानि, गोलाकारकाणि भवन्ति । फलानाम् अन्तः बहूनि बीजानि भवन्ति । अस्य फलेषु ४.६ % यावत् शर्करांशः, ६ %यावत् टेनिक्, २ % निर्यासः, तिक्तसत्त्वम्, उडनतैलं, पेक्किन् इत्यादयः अंशाः भवन्ति । अस्य पर्णेषु एलिगन्, एगलिनिन् इत्यादयः अंशाः भवन्ति ।

इतरभाषाभिः अस्य बिल्ववृक्षस्य नामानि[सम्पादयतु]

बिल्ववृक्षः रुटसिये कुटुम्बसम्बद्धः अस्य सस्यशास्त्रीयं नाम अजेल् मर्मेलस् (Aegle Marmelos) इति । । हिन्दीभाषया “बेल्” इति, तेलुगुभाषया “मोरेडु” इति, तमिळ्भाषया “विल्व्म्" इति, मलयाळभाषया “विल्वम्” इति, बेङ्गालीभाषया “बेल्” इति, मराठीभाषया अपि “बेल्” इति, कन्नडभाषया “बिल्व” इति उच्यते ।

आयुर्वेदस्य अनुसारम् अस्य बिल्ववृक्षस्य प्रयोजनानि[सम्पादयतु]

अस्य बिल्ववृक्षस्य रसः तिक्तः कषायः च । विपाके सः कटुः भवति । अयम् उष्णवीर्यः, लघु, रूक्षः चापि ।

१. अस्य बिल्वस्य पर्णानि वातहराणि, वेदनास्थापकानि च ।
२. अयं बिल्वः नेत्राभिष्यन्दे, पार्श्ववेदनायां, शोथे चापि उपयुज्यते । नेत्राभिष्यन्दे अस्य पर्णानां रसः नेत्रे स्थाप्यते । पार्श्ववेदनायां पर्णानि उष्णीकृत्य शाखदानं क्रियते ।
३. अस्य उपयोगेन उन्मादः, अग्निमान्द्यम्, अतिसारः चापि अपगच्छति ।
४. अयं वातव्याधेः आक्षेपकः अपि ।
५. अयं रक्तातिसारं, उदरवेदनां, हृदयदौर्बल्यं चापि परिहरति ।
६. प्रवाहिकाग्रहणे, कासे, श्वासरोगे, सूतिकारोगे, विषमज्वरे, श्वेतप्रदरे च अयं हितकरः ।
७. अस्य चूर्णं ५ – १० ग्रां यावत्, स्वरसः १० – २० मि.ली यावत् सेवितुं शक्यते ।
८. अनेन निर्मितानि “बिल्वपञ्चकक्वातम्”, “बिलादिचूर्णं”, “बिल्वादिघृतं”, “बिल्वतैलं”, “बिल्वमूलादिगुटिका” इत्यादीनि औषधानि आयुर्वेदस्य आपणेषु उपलभ्यन्ते ।

गुणलक्षणानि[सम्पादयतु]

अयं पर्णपाती वृक्षः। इत्युक्ते यदा पर्णानि परिपक्वानि/वृद्धानि भवन्ति तदा पर्णानि पातयति । प्रतिवर्षं निरिष्टे ऋतौ जीर्णपर्णानि त्यक्त्वा नूतनानि प्राप्नोति इत्यर्थः । वृक्षकाण्डे कण्टकानि

उपयोगः[सम्पादयतु]

अस्य पत्राणि शिवपूजायां श्रेष्ठानि इति परिगणितानि ।अस्य प्रत्त्येकम् अङ्गम् आयुर्वेदे उपयुज्यते ।{कर्णाटकस्य सस्यानि}}

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=बिल्वः&oldid=481686" इत्यस्माद् प्रतिप्राप्तम्