सामग्री पर जाएँ

दाहोदमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(दहोडमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
दाहोदमण्डलम्
मण्डलम्
गुजरातराज्ये दाहोदमण्डलम्
गुजरातराज्ये दाहोदमण्डलम्
Country भारतम्
States and territories of India गुजरातराज्यम्
Headquarters दाहोद
Area
  Total ३,७३३ km
Population
 (२०११)
  Total २१,२६,५५८
Languages
  Official गुजराती, हिन्दी
Website dahod.gujarat.gov.in
मध्यगुजरात

दाहोदमण्डलम् (गुजराती: દાહોદ જિલ્લો, आङ्ग्ल: Dahod district) इत्येतत् गुजरातराज्ये स्थितं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति दाहोद इति नगरम् ।

भौगोलिकम्

[सम्पादयतु]

दाहोदमण्डलस्य विस्तारः ३,७३३ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं गुजरातराज्यस्य मध्यभागे अस्ति । अस्य मण्डलस्य पूर्वे मध्यप्रदेशराज्यं, पश्चिमे पञ्चमहलमण्डलम्, उत्तरे राजस्थानराज्यं, दक्षिणे वडोदरामण्डलम् अस्ति । अस्मिन् मण्डले १,१०७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- अनास, पानम, माछन, काली ।

जनसङ्ख्या

[सम्पादयतु]

२०११ जनगणनानुगुणम् अस्य मण्डलस्य जनसङ्ख्या २१,२६,५५८ अस्ति । अत्र १०,७०,८४३ पुरुषाः १०,५५,७१५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ५८२ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ५८२ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २९.९५% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८६ अस्ति । अत्र साक्षरता ६०.६०% अस्ति ।

उपमण्डलानि

[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- १ दाहोद २ देवगढबारिया ३ धानपुरं ४ फतेपुरा ५ गरबाडा ६ लीमखेडा ७ झालोद

कृषिः वाणिज्यं च

[सम्पादयतु]

इदं मण्डलं कृषिप्रधानम् अस्ति । गोधूमः, 'मेइज्', फलानि, शाकाः च अस्मिन् मण्डले उत्पाद्यमानानि प्रमुखाणि कृष्युत्पादनानि सन्ति । सस्योत्पादने गुजरातराज्यस्य मण्डलेषु अस्य मण्डलस्य द्वितीयं स्थानम् अस्ति । आहारोत्पादनं, 'रब्बर् एण्ड् प्ल्यास्टिक्', 'क्वार्ट्ज्'-उत्पादनं, 'ग्लास् एण्ड् सिरेमिक्' च अस्य मण्डलस्य प्रमुखाः उद्यमाः सन्ति ।

वीक्षणीयस्थलानि

[सम्पादयतु]

अस्मिन् मण्डले स्थितः औरङ्गजेब-दुर्गः एकं वीक्षणीयस्थलम् अस्ति । द्वादशे शतके निर्मितम् एकं शिवमन्दिरं दाहोद इत्यस्मिन् नगरे अस्ति । इदमप्येकं वीक्षणीयस्थलम् । छब-तलाव (छबनामकः तडागः) आकर्षकं वीक्षणीयस्थलम् अस्ति । दाहोद इत्यस्मिन् नगरे विद्यमानं रतनमहल-वन्यजीविधाम तु पर्यटकानां प्रियतमं वीक्षणीयस्थलम् अस्ति ।

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=दाहोदमण्डलम्&oldid=478322" इत्यस्माद् प्रतिप्राप्तम्