न चैतद्विद्मः कतरन्नो गरीयो...
न चैतद्विद्मः कतरन्नो गरीयो... युद्धोपरामतायाः सन्देहः | |
---|---|
श्लोकसङ्ख्या | २/६ |
श्लोकच्छन्दः | उपजातिच्छन्दः |
पूर्वश्लोकः | गुरूनहत्वा हि महानुभावान्... |
अग्रिमश्लोकः | कार्पण्यदोषोपहतस्वभावः... |
न चैतद्विद्मः कतरन्नो गरीयो ( ( शृणु)) इत्यनेन श्लोकेन अर्जुनः युद्धात् उपरामस्य निर्णयं प्रति सन्दिग्धः भवति । अस्याध्यायस्य द्वितीये, तृतीये च श्लोकयोः श्रीकृष्णेन उक्तानि वचनानि अर्जुनस्य उपरि अत्यन्तं प्रभावम् अकुर्वन् । अतः पूर्वस्मिन् श्लोके सासांरिकभोगान् भोक्तुं नेच्छामि इत्यनेन वचनेन भगवतः वचनैः सह सामञ्जस्यं स्थापयितुं प्रयत्नं कृत्वा अत्रार्जुनः युद्धोपरामस्य निर्णयं प्रति सन्देहं प्रकटयति । सः वदति यत्, युद्धायुद्धयोः किम् अस्मभ्यम् उचितम् इत्यपि वयं न जानीमः । वयं जीविष्यामः उत मरिष्यामः इत्यपि वयं न जानीमश्च । यान् मारयित्वा अहं जीवनमपि नेच्छामि, ते धृतराष्ट्रपुत्रा एव अस्माकं सम्मुखे सन्ति इति ।
श्लोकः
[सम्पादयतु]- न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः ।
- यानेव हत्वा न जिजीविषामस्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ॥ ६ ॥
पदच्छेदः
[सम्पादयतु]- न, च, एतत्, विद्मः, कतरत्, नः, गरीयः, यत्, वा, जयेम, यदि, वा, नः, जयेयुः । यान्, एव, हत्वा, न, जिजीविषामः, ते, अवस्थिताः, प्रमुखे, धार्तराष्ट्राः ॥
अन्वयः
[सम्पादयतु]यान् हत्वा न जिजीविषामः ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः (तस्मात्) यद् वा जयेम यदि वा नो जयेयुः (अनयोः) कतरत् नः गरीयः (इति) एतत् न विद्मः ।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
न | अव्ययम् | न |
च | अव्ययम् | च |
एतत् | द.सर्व.नपुं.द्वि.एक. | इदम् |
विद्मः | √विद ज्ञाने-पर.कर्तरि, लट्.उपु.बहु. | जानीमः |
कतरत् | कतरत्-त.नपुं.प्र.एक. | किम् |
नः | अस्मद्-द.सर्व.ष.बहु. | अस्माकम् |
गरीयः | गरीयस्-स.नपुं.प्र.एक. | श्रेयः |
यद् | यद्-द.सर्व.नपुं.प्र.एक. | यदि |
वा | अव्ययम् | वा |
जयेम | √जि जये-पर.कर्तरि, वि.लिङ्.उपु.बहु. | जयं प्राप्नुयाम |
यदि | अव्ययम् | अथ |
वा | अव्ययम् | वा |
नः | अस्मद्-द.सर्व.ष.बहु. | अस्मान् |
जयेयुः | √जि जये-पर.कर्तरि, वि.लिङ्.प्रपु.बहु. | (ते) पराजयेरन् |
यान् | यद्-द.सर्व.पुं.द्वि.बहु. | यान् |
एव | अव्ययम् | एव |
हत्वा | क्त्वान्तम् अव्यययम् | मारयित्वा |
न जिजीविषामः | √जीव्-(सन्)पर.कर्तरि, लट्.उपु.बहु. | जीवितुं न इच्छामः |
ते | तद्-द.सर्व.पुं.प्र.बहु. | तादृशाः |
धार्तराष्ट्राः | अ.पुं.प्र.बहु. | धृतराष्ट्रस्य सुताः |
प्रमुखे | अ.पुं.स.एक. | सम्मुखे |
अवस्थिताः | अ.पुं.प्र.बहु. | उपस्थिताः । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- चैतत् – च + एतत् – वृद्धिसन्धिः
- एतद्विद्मः = एतत् + विद्मः – जश्त्वसन्धिः
- कतरन्नः = कतरन् नः - अनुनासिकसन्धिः
- नो गरीयो यद्वा = विसर्गन्धिः (सकारः) उकारः, गुणः
# गरीयः + यत् – विसर्गसन्धिः (सकारः) उकारः, गुणः # यत् + वा – जश्त्वसन्धिः
- नो जयेयुः = नः + जयेयुः – विसर्गसन्धिः (सकारः) उकारः, गुणः
- जिजीविषामस्ते = जिजीविषामः + ते – विसर्गसन्धिः (सकारः)
- तेऽवस्तिताः = ते + अवस्थिताः - पूर्वरूपसन्धिः
कृदन्तः
[सम्पादयतु]- अवस्थिताः = अव + स्था + क्त । (कर्तरि)
तद्धितान्तः
[सम्पादयतु]- कतरत् = किम् + डतरच् (स्वार्थे)
- गरीयः = गुरु + ईयसुन् (अतिशये) । अतिशयेन गुरुः इत्यर्थः ।
- धार्तराष्ट्राः = धृतराष्ट्र + अण् (अपत्यार्थे) । धृतराष्ट्रस्य अपत्यानि पुमांसः ।
अर्थः
[सम्पादयतु]यान् हत्वा वयं जीवितुं न शक्नुमः तादृशाः दुर्योधनादयः समरे उपस्थिताः सन्ति । युद्धे अन्यस्य हननम् अन्यस्य च जीवनम् इत्येतत् अवश्यम्भावि । तस्मात् यदि वयं जीवनम् इच्छामः तर्हि अवश्यं तेषां मरणं काङ्क्षणीयम् । अथ वयं मरणम् इच्छामः ते कामं जीवन्ति । किन्तु समरशूराणाम् अस्माकम् एतत् अवमानं भवति । तस्मात् अनयोः किम् अस्माकम् उचितमिति न जानीमः ।
भवार्थः
[सम्पादयतु]'न चैतद्विद्मः कतरन्नो गरीयः' – अहं युद्धं करवाणि उत न इति निर्णयेऽप्यहम् असमर्थः । किञ्च भवतः दृष्ट्या युद्धम् एव उचितम् उत्तमं वास्ति । परन्तु मे दृष्ट्या गुरुजनानां हत्या महत् पापम् अस्ति । अतः अयुद्धम् एव मह्यम् उत्तमम् अस्ति । एवम् उभयोः पक्षयोः मह्यं किं श्रेष्ठम् अस्ति ? इत्यहम् अवगन्तुम् असमर्थः । एवम् उक्त्वा अर्जुनस्य मनसि ईश्वरस्य, स्वस्य च पक्षौ विरुद्धौ परन्तु समकक्षौ अभवताम् ।
'यद्वा जयेम यदि वा नो जयेयुः' – यदि भवतः आज्ञानुसारं युद्धं कुर्मः, तर्हि वयं जेष्यामः ते वा जेष्यन्ति इत्यपि वयं न जानीमः । अत्र अर्जुनः स्वबलं प्रति सन्देहं न प्रदर्शयति, अपि तु भविष्यं प्रति स्वस्य अविश्वासं प्रकटयति । किञ्च भविष्यस्य गर्भे किं निहितम् अस्ति ? इत्यस्य विषये वक्तुं कोऽपि न समर्थः ।
'यानेव हत्वा न जिजीविषामः' – वयं तु कुटुम्बकानां हननोत्तरं जीवनस्य कल्पनाम् अपि न कुर्मः । अतः राज्योपभोगस्य तु तत्र स्थानमेव नास्ति । यतो हि अस्माकं कुटुम्बिनः मरिष्यन्ति चेत्, वयं जीवित्वा किं करिष्यामः ? स्वहस्तैः कुटुम्बकानां हत्यायाः चिन्तां, शोकं चैव करिष्यामः । चिन्तायां, शोके, वियोगे च दुःखमयस्य जीवनस्य इच्छां वयं न कुर्मः ।
'तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः' – वयं यान् मारयित्वा जीवनमपि नेच्छामः, ते एव धृतराष्ट्रपुत्राः, अस्माकं सम्बन्धिनश्च अस्माकं सम्मुखं युद्धाय उपस्थिताः सन्ति । तेषां वधम् अस्माकं जीवनस्य कृते धिक्कारः अस्ति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये न चैतद्विद्मः कतरन्नो गरीयो... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च