क्लैब्यं मा स्म गमः पार्थ...
क्लैब्यं मा स्म गमः पार्थ... कापुरुषतां त्यक्तुमुपायः | |
---|---|
श्लोकसङ्ख्या | २/३ |
श्लोकच्छन्दः | अनुष्टुप्छन्दः |
पूर्वश्लोकः | कुतस्त्वा कश्मलमिदं... |
अग्रिमश्लोकः | कथं भीष्ममहं सङ्ख्ये... |
क्लैब्यं मा स्म गमः पार्थ ( ( शृणु)) इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनं कापुरुषतां त्यक्तुमुपायं वदति । पूर्वस्मिन् श्लोके युद्धात् उपरतः सन् कापुरुषत्वं प्रदर्शितम् अर्जुनं तस्य विचारस्य निर्णयस्य वा तुच्छतायाः बोधं कारयित्वा अत्र भगवान् कापुरुषतायाः निवृत्त्यै किं करणीयम् ? इति कथयति । भगवान् कथयति यत्, हे पृथानन्दन ! अर्जुन ! एवं नपुंसकत्वं मा प्रदर्शय । यतः तन्न योग्यम् । हे परन्तप ! हृदयस्य एतां तुच्छदुर्बलतां त्यक्त्वा युद्धाय सज्जो भव इति ।
श्लोकः
[सम्पादयतु]- क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते ।
- क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ॥ ३ ॥
अयं भगवद्गीतायाः द्वितीयोध्यायस्य सांख्ययोगस्य तृतीयः श्लोकः ।
पदच्छेदः
[सम्पादयतु]क्लैब्यम्, मा, स्म, गमः, पार्थ, न, एतत्, त्वयि, उपपद्यते । क्षुद्रम्, हृदयदौर्बल्यम्, त्यक्त्वा, उत्तिष्ठ , परन्तप ॥
अन्वयः
[सम्पादयतु]हे पार्थ ! ईदृशं क्लैब्यं मा स्म गमः । त्वयि एतत् न उपपद्यते । परन्तप ! क्षुद्रं हृदयदौर्बल्यं त्यक्त्वा उत्तिष्ठ ।
शब्दार्थः
[सम्पादयतु]अन्वयः | विवरणम् | सरलसंस्कृतम् |
पार्थ | अ.पुं.सम्बो.एक. | हे अर्जुन ! |
क्लैब्यम् | अ.नपुं.द्वि.एक. | नपुंसकत्वम् |
मा | अव्ययम् | मा |
स्म | अव्ययम् | |
गमः | √गम्लृ गतौ-कर्तरि,, लुङ्.मपु.एक. | प्राप्नुहि |
त्वयि | युष्मद्-द.सर्व.स.एक. | भवति |
एतत् | एतद्-द.सर्व.नपुं.प्र.एक. | इदम् |
न | अव्ययम् | न |
उपपद्यते | उप+पद गतौ-आत्म.कर्तरि, लट्.प्रपु.एक. | युज्यते |
परन्तप | अ.पुं.सम्बो.एक. | शत्रुपीडक ! (अर्जुन) |
क्षुद्रम् | अ.नपुं.द्वि.एक. | तुच्छम् |
हृदयदौर्बल्यम् | अ.नपुं.द्वि.एक. | चित्तवैक्लव्यम् |
त्यक्त्वा | क्त्वान्तम् अव्ययम् | विसृज्य |
उत्तिष्ठ | उद् + स्था अवस्थाने-पर.कर्तरि, लोट्.मपु.एक. | सन्नद्धो भव । |
व्याकरणम्
[सम्पादयतु]सन्धिः
[सम्पादयतु]- नैतत् = न + एतत् - वृद्धिसन्धिः
- त्वय्युपपद्यते = त्वयि + उपपद्यते – यण्सन्धिः
- त्यक्त्वोत्तिष्ठ = त्यक्त्वा उत्तिष्ठ - गुणसन्धिः
समासः
[सम्पादयतु]- हृदयदौर्बल्यम् = हृदयस्य दौर्बल्यम् – षष्ठीतत्पुरुषः ।
कृदन्तः
[सम्पादयतु]- त्यक्त्वा = त्यज् + क्त्वा ।
तद्धितान्तः
[सम्पादयतु]- क्लैब्यम् = क्लीब + ष्यञ् (भावे) । क्लीबस्य भावः इत्यर्थः ।
- दौर्बल्यम् = दुर्बल + ष्यञ् (भावे) । दुर्बलस्य भावः इत्यर्थः ।
अर्थः
[सम्पादयतु]हे अर्जुन ! नपुंसकत्वं मा प्राप्नुहि । वीरस्य तव एतत् न युज्यते । एतादृशं तुच्छं चित्तवैक्लव्यं त्यक्त्वा युद्धार्थं सन्नद्धो भव ।
'पार्थ' – मातुः पृथायाः (कुन्त्याः) सन्देशस्य स्मरणं कारयन् अर्जुनस्य अन्तःकरणे क्षत्रिययोग्यं वीरतायाः भावं जागरितुं भगवान् अर्जुनस्य कृते 'पार्थ' इति सम्बोधनम् अकरोत् । कुन्त्याः उद्देशः आसीत् यत्,
एतद् धनञ्जयो वाच्यो, नित्योद्युक्तो वृकोदरः ।
यदर्थं क्षत्रिया सूते, तस्य कालोऽयमागतः ।। [२]
अर्थात्, हे कृष्ण ! भवान् अर्जुनं, युद्धाय सर्वदा तत्परं भीमं च कथयतु यत्, यस्य क्षत्रियधर्मस्य कृते क्षत्रियमाता पुत्रं जनते, तस्य कार्यस्य समयः सम्प्राप्तोऽस्ति इति । भगवतः तात्पर्यम् अस्ति यत्, स्वस्मिन् कापुरुषतायाः भावम् उत्पाद्य स्वमातुः आज्ञायाः उल्लङ्घनं मा कुरु इति ।
'क्लैब्यं मा स्म गमः' – अर्जुनः कापुरुषतायाः कारणेन युद्धेऽधर्मः, युद्धनिवृत्तौ धर्मः चेति मनुते । अतः अर्जुनं पूर्वसूचनां दातुं भगवान् कथयति यत्, युद्धं न करणीयम् इति धर्मसङ्गतं नास्ति । एतत् नपुंसकत्वम् अस्ति । अतः त्वमेतत् नपुंसकत्वं त्यज इति ।
'नैतत्त्वय्युपपद्यते' – तवैतत् नपुंसकत्वम् अकराणम् अस्ति; यतः त्वं कुन्तीसदृशायाः क्षत्रियाण्याः शूरवीरः पुत्रः असि । अस्य तात्पर्यम् अस्ति यत्, जन्मना, स्वभावेन च नपुंसकत्वं तेऽयोग्यम् अस्ति इति । 'परन्तप' – त्वं स्वयं परन्तपः असि । अर्थात् शत्रुतापकः त्वम् एतस्मात् युद्धात् विमुखो भूत्वा शत्रून् मोदयिष्यसि किम् ?
'क्षुद्रहृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ' - 'क्षुद्रम्' इत्यस्य पदस्य द्विधा अर्थः भवति । प्रथमं तु हृदयदौर्बल्यं त्वं तुच्छीकरिष्यति । अर्थात् तत् हृदयदौर्बल्यं मुक्तिः, स्वर्गं, कीर्तिः इत्यादिषु ते पतनं कारयिष्यति । यदि त्वं हृदयदौर्बल्यस्य त्यागं न करिष्यसि, तर्हि त्वं तुच्छीभविष्यसि । द्वितीयार्थः अस्ति यत्, हृदयदौर्बल्यं तुच्छवस्तु अस्ति । त्वत् सदृशेभ्यः शूरवीरेभ्यः एतस्य तुच्छवस्तुनः त्यागः न कठिनं कार्यम् इति । त्वं यदि स्वं धर्मात्मानं मत्वा "युद्धरूपिपापं कर्तुं नेच्छामि" इति चिन्तयसि, तर्हि तत् ते हृदयदौर्बल्यम् अस्ति । तस्य हृदयदौर्बल्यस्य त्यागं कृत्वा स्वकर्तव्यपालनार्थं युद्धाय सज्जो भव ।
अत्र अर्जुनस्य सम्मुखं युद्धरूपिकर्तव्यम् अस्ति । अतः जाग्रहि, उत्तिष्ठ, युद्धकर्तव्यस्य पालनं कुरु इति भगवान् कथयति । भगवतः मनसि अर्जुनस्य कर्तव्यविषये किञ्चिदपि सन्देहः नास्ति । सः जानाति यत्, सर्वासु परिस्थितिषु अर्जुनस्य कृते युद्धम् एव कर्तव्यपालनमार्गः अस्ति इति । अतः पूर्णबलेन कर्तव्यपालनाय आज्ञां ददाति ईश्वरः ।
रामानुजभाष्यम्
[सम्पादयतु]संजय उवाच श्रीभगवानुवाच एवम् उपविष्टे पार्थे कुतः अयम् अस्थाने समुत्थितः शोक इति आक्षिप्य तम् इमं विषमस्थं शोकम् अविद्वत्सेवितं परलोकविरोधिनम् अकीर्तिकरम् अतिक्षुद्रं हृदयदौर्बल्यकृतं परित्यज्य युद्धाय उत्तिष्ठ इति श्रीभगवान् उवाच।
भाष्यार्थः
[सम्पादयतु]एवम् अर्जुनस्य रथे उपवेशनोत्तरं "एषः अस्थाने उद्भूतः शोकः अस्ति" इति आक्षेपं कुर्वन् भगवान् श्रीकृष्णः कथयति यत्, अज्ञानिभिः सेवितं, परलोकविरोधिनम्, अकीर्तिकरं, हृदयदौर्बल्येनोत्पन्नम् अत्यन्तं क्षुद्रम्, असमये उद्भूतं शोकं त्यक्त्वा युद्धाय उत्तिष्ठ इति ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये क्लैब्यं मा स्म गमः पार्थ... सम्बन्धिताः सञ्चिकाः सन्ति। |
- http://spiritual-teaching.org/ewExternalFiles/Bhagavad%20Gita%20-%20comm%20Sankara,%20tr.%20Aiyar.pdf
- http://www.srimatham.com/uploads/5/5/4/9/5549439/ramanuja_gita_bhashya.pdf
- https://www.youtube.com/watch?v=50UvBKzWpD4
- https://www.youtube.com/watch?v=7sEMuF3hAvU
उद्धरणम्
[सम्पादयतु]अधिकवाचनाय
[सम्पादयतु]- गीताप्रवेशः, द्वितीयभागः, प्रथमखण्डः, ISBN - 978-81-88276-39-8, संस्कृतभारती
- श्रीमद्भगवद्गीतायाः परिचयात्मकलेखः
- श्रीमद्भगवद्गीतायाः मूलपाठः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह आङ्ग्लानुवादः
- श्रीमद्भगवद्गीताशाङ्करभाष्येण सह
- श्रीमद्भगवद्गीता सान्वयम्, आङ्ग्लानुवादश्च