कुतस्त्वा कश्मलमिदं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.२ कुतस्त्वा कष्मलम्… इत्यस्मात् पुनर्निर्दिष्टम्)
कुतस्त्वा कश्मलमिदं...


अर्जुनस्य शोकेन भगवतः आश्चर्यम्
श्लोकसङ्ख्या २/२
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः तं तथा कृपयाविष्टम्...
अग्रिमश्लोकः क्लैब्यं मा स्म गमः पार्थ...

कुतस्त्वा कश्मलमिदम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनम् असमये कापुरुषत्वं कुतः त्वयि उद्भूतम् ? इति पृच्छति । पूर्वस्मिन् श्लोके सञ्जयः धृतराष्ट्रम् उद्दिश्य श्रीकृष्णार्जुनयोः संवादस्य आरम्भम् अकरोत् । सः वदति यत्, अर्जुनं मधुसूदनः एतानि वाक्यानि अवदत् इति । एवम् अत्र भगवान् अर्जुनम् उद्दिश्य तस्य युद्धोपरामस्य निर्णयं वारयितुं प्रत्यनम् आरभते । अत्र भगवान् कथयति यत्, हे अर्जुन ! एतस्मिन् विषमे प्रसङ्गे तव मनसि कुत एष कापुरुषतापूर्णः विचारः समागतः ? एतादृशाः विचाराः श्रेष्ठपुरुषस्य मनसि कदापि नोद्भवन्ति । एते विचाराः अस्वर्गम्, अकीर्तिं च प्रापयन्ति इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः

श्रीभगवानुवाच -

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् ।
अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ॥ २ ॥

पदच्छेदः[सम्पादयतु]

कुतः, त्वा, कश्मलम्, इदम्, विषमे, समुपस्थितम् । अनार्यजुष्टम्, अस्वर्ग्यम्, अकीर्तिकरम्, अर्जुन

अन्वयः[सम्पादयतु]

अर्जुन ! विषमे अनार्यजुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदं कश्मलं कुतः त्वा समुपस्थितम् ?

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
अर्जुन अ.पुं.सम्बो.एक. हे अर्जुन !
विषमे अ.पुं.स.एक. विपत्तिकाले
अनार्यजुष्टम् अ.नपुं.प्र.एक. असाधुसेवितम्
अस्वर्ग्यम् अ.नपुं.प्र.एक. स्वर्गायोग्यम्
अकीर्तिकरम् अ.नपुं.प्र.एक. अयशस्करम्
इदम् इदम्-म.सर्व.नपुं.प्र.एक. एतत्
कश्मलम् अ.नपुं.प्र.एक. चित्तकालुष्यम्
कुतः अव्ययम् कस्मात् कारणात्
त्वा युष्मद्-द.सर्व.पुं.द्वि.एक. त्वाम्
समुपस्थितम् अ.नपुं.प्र.एक. समागतम् ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. कुतस्त्वा = कुतः त्वा – विसर्गसन्धिः (सकारः)

समासः[सम्पादयतु]

  1. अनार्यजुष्टम् = आर्यैः जुष्टम् – आर्यजुष्टम् – तृतीयतत्पुरुषः ।
  2. न आर्यजुष्टम् – नञ्तत्पुरुषः ।
  3. अस्वर्ग्यम् = न स्वर्ग्यम् – नञ्तत्पुरुषः ।
  4. अकीर्तिकरम् = न कीर्तिकरम् – नञ्तत्पुरुषः ।

कृदन्तः[सम्पादयतु]

  1. समुपस्थितम् = सम् + उप + स्था + क्त (कर्तरि)
  2. जुष्टम् = जुष् + क्त (कर्मणि)

तद्धितान्तः[सम्पादयतु]

  1. कुतः = किम् + तसिल् (कु आदेशः) । कस्मात् इत्यर्थः ।

अर्थः[सम्पादयतु]

हे अर्जुन ! क्लिष्टसमये असाधुसेवितम्, अस्वर्गफलम्, अयशस्करं च एतादृशं चित्तकालुष्यं कथं त्वां समागतम् ?

भावार्थः [१][सम्पादयतु]

'अर्जुन' एतस्य सम्बोधनपदस्य तात्पर्यम् अस्ति यत्, त्वं स्वच्छः, निर्मलः, शुद्धान्तःकरणः असि । अतः तव स्वभावे एतादृशी कापुरुषता न भवेत् । तथापि त्वयि एषा कापुरुषता कुतः सम्प्राप्ता ?

'कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम्' – भगवान् आश्चर्यं प्रकटयन् अर्जुनं कथयति यत्, सद्यः युद्धस्य प्रसङ्गे तव मनसि शूरवीरतायाः, उत्साहस्य च विचाराः आगच्छेयुः, परन्तु अस्मिन् अनुपयुक्ते समये तव मनसि कापुरुषतायाः विचाराः कुतः सम्प्राप्ताः ?

आश्चर्यं द्विधा भवति । प्रप्रथमं तु स्वस्य अज्ञानवशात्, द्वितीयम् अन्यस्मै पूर्वसूचनां दातुञ्च । भगवान् अत्र अर्जुनाय पूर्वसूचनां दातुमेव आश्चर्यं प्रकटयति, येन अर्जुनस्य ध्यानं कर्तव्यं प्रति आकृष्टं स्यात् ।

'कुतः' इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतस्याः कापुरुषतायाः विचारः तव नास्ति, अपि तु आगन्तुकः विचारः अस्ति, यः दीर्घकालं यावत् न स्थास्यति इति ।

'समुपस्थितम्' – इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, एतस्याः कापुरुषतायाः प्रभावः न केवलं तव वचनेषु अस्ति, अपि तु तव क्रियायाम् अपि अस्ति । एवं सा तव व्यक्तित्वे पूर्णतया आक्रमणम् अकरोत्, येन त्वं धनुष्काण्डं त्यक्त्वा स्थितोऽसि ।

'अनार्यजुष्टम्' – इत्यस्य पदस्य तात्पर्यम् अस्ति यत्, ज्ञानी श्रेष्ठः मनुष्यः एतादृशान् विचारान् न करोति । स स्वकल्याणस्य उद्देश्यं पश्यति । अतः श्लोकस्यास्य उत्तरार्धे भगवान् प्रप्रथमम् एतस्य पदस्य उपयोगं कृत्वा अस्थाने कापुरुषतापूर्णविचारान् श्रेष्ठपुरुषाः न कुर्वन्ति इति सङ्केतयति । यतः सा कापुरुषता स्वकल्याणस्य मार्गम् अवरुणद्धि । श्रेष्ठपुरुषाः प्रवृत्तौ, निवृत्तौ च स्वकल्याणस्यैवोद्देश्यं साधयितुं प्रयतन्ते । तेषु स्वकर्तव्यं प्रति कापुरुषत्वं न जायते । परिस्थित्यनुगुणं यत् कर्तव्यं श्रेष्ठजनानां सम्मुखं समायाति, तत् कल्याणप्राप्तेः उद्देशस्य साधनत्वेनैव ते पश्यन्ति । ते तत् कार्यम् उत्साहेन सह तत्परतापूर्वकं साङ्गोपाङ्गं कुर्वन्ति । ते तव सदृशं कापुरुषत्वं प्रदर्श्य कर्तव्यकर्मभ्यः न उपरमन्ति । अतः युद्धरूपिणः प्राप्तकर्तव्यात् उपरतिः ते कल्याणकरः नास्ति ।

'अस्वर्ग्यम्' – कल्याणस्य विषये अविचिन्त्यापि सांसारिकसुखं प्रति जागृतः भवति चेदपि, संसारात् स्वर्गलोकः उच्चः अस्ति । परन्तु ते कापुरुषतैषा स्वर्गलोकस्य सुखम् अपि अपक्रक्ष्यति । अर्थात् युद्धात् उपरतित्वात् स्वर्ग्यसुखात् त्वं वञ्चितः भविष्यसि ।

'अकीर्तिकरम्' – यदि स्वर्गप्राप्तिः ते लक्ष्यं नास्ति, तर्ह्यपि सत्पुरुषः जगति कीर्तिं प्राप्तुं कर्माणि करोति । परन्तु ते एषा कापुरुषता इह लोकेऽपि कीर्तिदा (यश) नास्ति, अपि तु अपकीर्तिदा अस्ति । अतः ते कापुरुषतायाः उद्भव एव अयोग्यः अस्ति ।

त्रिधा मनुष्याः भवन्ति । १. विचारशीलाः, २. पुण्यात्मनः, ३. साधारणाः । विचारशीलाः केवलं स्वकल्याणमेवेच्छन्ति । तेषां ध्येयः, उद्देश्यं च केवलं कल्याणमेव भवति । पुण्यात्मनः शुभकर्मभिः स्वर्गं प्राप्तुम् इच्छन्ति । अतः तेषाम् उद्देश्यं स्वर्गप्राप्तिः भवति । साधारणमनुष्याः संसारमेव पश्यन्ति । अतः ते संसारे स्वकीर्तिम् इच्छन्ति । अतः तेषां ध्येयः कीर्तिः भवति । उक्तानि त्रीणि पदानि (अस्वर्ग्यम्, अकीर्तिकरम्, अनार्यजुष्टम्) उयुज्य भगवान् अर्जुनं सावधानं करोति यत्, युद्धनिवृत्तेः ते विचार एषः क्रमेण विचारशीलस्य, पुण्यात्मनः, साधारणस्य च मनुष्यस्य ध्येयान् साधयितुम् अपि अशक्तः अस्ति । अतः मोहग्रस्तः तव एषः निर्णयः अतीव तुच्छः अस्ति । एषः निर्णयः त्वं नरकं प्रति नेष्यति इति ।


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
तं तथा कृपयाविष्टम्...
कुतस्त्वा कश्मलमिदं... अग्रिमः
क्लैब्यं मा स्म गमः पार्थ...
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. गीतामञ्जरी, गीताप्रेस

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुतस्त्वा_कश्मलमिदं...&oldid=470745" इत्यस्माद् प्रतिप्राप्तम्