दूरेण ह्यवरं कर्म...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.४९ दूरेण ह्यवरं… इत्यस्मात् पुनर्निर्दिष्टम्)
दूरेण ह्यवरं कर्म...


सकामत्वं तुच्छत्वम्
श्लोकसङ्ख्या २/४९
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः योगस्थः कुरु कर्माणि
अग्रिमश्लोकः बुद्धियुक्तो जहातीह

दूरेण ह्यवरं कर्म () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः सकामकर्मेच्छुकान् कृपणत्वेन सम्बोधयति । पूर्वस्मिन् श्लोके भगवान् कर्म कुर्वन् समत्वेन कथं भवितव्यम् ? इति उक्त्वा अत्र सकामत्वस्य तुच्छतां वर्णयति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय ।
बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ॥ ४९ ॥

पदच्छेदः[सम्पादयतु]

दूरेण, हि, अवरं, कर्म, बुद्धियोगात्, धनञ्जय । बुद्धौ, शरणम्, अन्विच्छ, कृपणाः, फलहेतवः ॥

अन्वयः[सम्पादयतु]

धनञ्जय ! बुद्धियोगात् हि कर्म दूरेण अवरम् । बुद्धौ शरणम् अन्विच्छ । फलहेतवः कृपणाः ।

शब्दार्थः[सम्पादयतु]

अन्वयः

विवरणम्

सरलसंस्कृतम्

बुद्धियोगात्

अ.पुं.पं.एक.

ज्ञानयोगापेक्षया

कर्म

कर्मन्-न.नपुं.प्र.एक.

क्रिया

दूरेण

अ.नुपुं.तृ.एक.

अत्यन्तम्

अवरं

अ.नपुं.प्र.एक.

नीचा (अस्ति) ।

धनञ्जय

अ.पुं.सम्बो.एक.

(अतः) हे अर्जुन ! (त्वं)

बुद्धौ

इ.स्त्री.स.एक.

ज्ञाने (एव)

शरणम्

अ.नपुं.द्वि.एक.

आश्रयम्

अन्विच्छ

अनु+इषुँ इच्छायाम्- पर.कर्तरि, लोट्.मपु.एक.

भजस्व ।

हि

अव्ययम्

यतो हि

फलहेतवः

उ.पुं.प्र.बहु.

फलकारणभूताः

कृपणाः

अ.पुं.प्र.बहु.

दीनाः (भवन्ति) ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

ह्यवरम् = हि + अवरम् - यण्सन्धिः

समासः[सम्पादयतु]

१. बुद्धेः योगः, तस्मात् - षष्ठीतत्पुरुषः ।

२. फलस्य हेतवः - षष्ठीतत्पुरुषः ।

अर्थः[सम्पादयतु]

हे अर्जुन ! ज्ञानयोगापेक्षया सकामं कर्म अत्यन्तं तुच्छम् । अतः त्वं ज्ञानयोगमेव आश्रयस्व । तेन परमार्थज्ञानं शरणं गतः भवसि । अवरं कर्म आचरन्तः तु फलतृष्णायुक्ताः भवन्ति इति ते दीनाः ।

भावार्थः [१][सम्पादयतु]

'दूरेण ह्यवरं कर्म बुद्धियोगात्' – बुद्धियोगस्य अर्थात् समतायाः अपेक्षया सकामभावेन कर्म अत्यन्तं निकृष्टम् अस्ति । यतः कर्म अपि उत्पन्नं, नष्टं च भवति । तथा च तस्य कर्मणः अपि संयोगः, वियोगश्च भवति । परन्तु योगः (समता) नित्यः अस्ति । तस्य कदापि वियोगः न भवति । तस्मिन् न कापि विकृतिः समुद्भवति । अतः समतायाः अपेक्षया सकामकर्म अत्यन्तं निकृष्टम् । सर्वेषु कर्मसु समता एव श्रेष्ठतमा । समतया विना सर्वेऽपि जीवाः कर्मरताः एव भवन्ति । तथा च ते कर्मणां परिणामेषु जन्ममृत्यू प्राप्नुवन् दुःखोपभोगं कुर्वन्तः भवन्ति । यतः समतया विना कर्मसु उद्धारस्य क्षमता नास्ति । कर्मसु समता एव परिपाकः अस्ति । यदि कर्मसु समता न भविष्यति, तर्हि शरीरे अहङ्कारः, ममता च उद्भविष्यति । शरीरे अहङ्कारः, ममता च पशुबुद्धेः लक्षणम् अस्ति [२]

'दूरेण' – यथा प्रकाशः, अन्धकारश्च कदापि एकस्मिन्नेव काले न भवतः, तथैव बुद्धियोगः, सकामकर्म च कदापि एकस्मिन्नेव काले न भवतः । तौ उभौ दिनरात्र्यौ इव भिन्नौ स्तः । यतः बुद्धियोगः तु परमात्मनः साक्षात्कारं कारयति, अपरत्र सकामकर्म तु जन्ममृत्य्वोः बन्धने क्षिपति ।

'बुद्धौ शरणमन्विच्छ' – त्वं बुद्धौ शरणं स्वीकरु अर्थात् समतायाः शरणं स्वीकुरु । समतायां निरन्तरस्थितिः एव समतायाः शरणम् उच्यते । समतायां स्थिरत्वेनैव त्वं स्वरूपे स्वस्थितेः अनुभवं करिष्यसि ।

'कृपणा फलहेतवः' – कर्मणः फले इच्छा निकृष्टतमम् अस्ति । कर्म-कर्मफल-कर्मसामग्री-शरीरादिभिः सह सम्बन्धस्थापनम् एव कर्मफलस्य हेतुत्वम् उच्यते । अतः भगवान् कर्मफले इच्छायुक्तः मा भव इति कथयति [३] । कर्म, कर्मफलं च भिन्नौ विभागौ स्तः । तयोः रहितं तत्त्वं नित्यम् अस्ति । तत् नित्यतत्त्वम् अनित्यकर्मफलस्य आश्रितं भवति – तस्मात् अपरा का निकृष्टता ?

शाङ्करभाष्यम् [४][सम्पादयतु]

यत्पुनः समत्वबुद्धियिक्तमीश्वराराघनार्थं कर्मैतस्मात्कर्मणो -

दूरेण  अतिविप्रकर्षेण अत्यन्तमेव  हि अवरम्  अधमं निकृष्टं कर्म फलार्थिना क्रियमाणं  बुद्धियोगात्  समत्वबुद्धियुक्तात् कर्मणः जन्ममरणादिहेतुत्वात्। हे  धनञ्जय  यत एवं ततः योगविषयायां  बुद्धौ  तत्परिपाकजायां वा सांख्यबुद्धौ  शरणम्  आश्रयमभयप्राप्तिकारणम् अन्विच्छ  प्रार्थयस्व परमार्थज्ञानशरणो भवेत्यर्थः। यतः अवरं कर्म कुर्वाणाः  कृपणाः  दीनाः  फलहेतवः  फलतृष्णाप्रयुक्ताः सन्तः यो वा एतदक्षरं गार्ग्यविदित्वास्माल्लोकात्प्रैति स कृपणः इति श्रुतेः।।

भाष्यार्थः[सम्पादयतु]

समत्वबुद्ध्या ईश्वराराधनार्थं यत् क्रियमाणं कर्म अस्ति, तस्य अपेक्षया (सकामकर्म निकृष्टम् अस्ति इति प्रकटयति) –

हे धनञ्जय ! बुद्धियोगस्य अपेक्षया अर्थात् समत्वबुद्ध्या युक्तः सन् क्रियमाणानां कर्मणाम् अपेक्षया, कर्मफलेच्छुकैः सकामिमनुष्यैः क्रियमाणानि कर्माणि जन्ममृत्य्वोः हेतुकारणात् अत्यन्तं निकृष्टानि भवन्ति । अतः त्वं योगविषयकबुद्धौ उत तस्याः परिपाकात् उत्पन्नायाः साङ्ख्यबुद्धेः अभयं प्राप्तुं प्रयत्नं कुरु । अर्थात् साङ्ख्यबुद्धेः (परमार्थज्ञानस्य) शरणं गच्छ । यतः फलतृष्णया प्रेरिताः सन्तः सकामकर्मकर्तारः कृपणाः दीनाः वा । श्रुतौ अपि उक्तम् अस्ति यत्, हे गार्गि ! यः एतत् अक्षरब्रह्म न ज्ञात्वा एतस्मात् लोकात् गच्छति, सः कृपणः अस्ति । (बृ. ३/८/१०) इति ।। ४९ ।।

रामानुजभाष्यम् [५][सम्पादयतु]

किमर्थम् इदम् असकृद् उच्यते इत्यत आह -

यः अयं प्रधानफलत्यागविषयः अवान्तरफलसिद्ध्यसिद्ध्योः समत्वविषयश्च बुद्धियोगः तद्युक्तात् कर्मणः इतरत्  कर्मदूरेण अवरम्।  महद् एतद् द्वयोः उत्कर्षापकर्षरूपं वैरूप्यम् उक्तबुद्धियोगयुक्तं कर्म निखिलं सांसारिकं दुःखं विनिवर्त्य परमपुरुषार्थलक्षणं च मोक्षं प्रापयति इतरद् अपरिमितदुःखरूपं संसारम् इति अतः कर्मणि क्रियमाणे उक्तायां  बुद्धौ शरणम् अन्विच्छ।  शरणं वासस्थानम् तस्याम् एव बुद्धौ वर्तस्व इत्यर्थः।  कृपणाः फलहेतवः  फलसङ्गादिना कर्म कुर्वाणाः कृपणाः संसारिणो भवेयुः।

भाष्यार्थः[सम्पादयतु]

एतादृशं किमर्थं पौनःपुन्येन उच्यते ? इति वदति –

प्रधानफलस्य त्यागविषयकः, अवान्तरफलरूपिण्योः सिद्ध्यसिद्ध्योः समत्वविषयकश्च यः बुद्धियोगः अस्ति, तेन बुद्धियोगेन युक्तः कर्मणाम् अपेक्षया अपरकर्माणि अत्यन्तनिकृष्टानि सन्ति । तयोः परस्परम् उत्कर्षरूपिणी, अपकर्षरूपिणी च महती विषमता अस्ति । उपर्युक्तेन बुद्धियोगेन युक्तं कर्म समस्तेभ्यः सांसारिकदुःखेभ्यः पूर्णतया मुक्त्वा परमपुरुषार्थरूपस्य मोक्षस्य प्राप्तिं कारयति । द्वितीयं बुद्धियोगाद् रहितं कर्म अपरिमितं दुःखरूपं संसारमेव प्रापयति । अत एव कर्म कुर्वन् त्वम् उपर्युक्तस्य बुद्धियोगस्य आश्रयं स्वीकर्तुम् इच्छतात् । वासस्थानम् इत्युक्ते आश्रयः (शरणम्) इति । तात्पर्यम् अस्ति यद्, त्वं तस्मिन् बुद्धियोगे स्थित्वा कर्माचरणं कुरु । फलहेतुकः मनुष्यः कृपणः अस्ति । अर्थाद् फलादीनाम् इच्छया कर्मकः मनुष्यः कृपणः अर्थाद् संसारी (विषयी) इति ।  

श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
योगस्थः कुरु कर्माणि
दूरेण ह्यवरं कर्म... अग्रिमः
बुद्धियुक्तो जहातीह
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. त्वं तु राजन् मरिष्येति पशुबुद्धिमिमां जहि, श्रीमद्भागवतमहापुराणं, १२/५/२, शुकदेवः परिक्षितम् उद्दिश्य वदति ।
  3. मा कर्मफलहेतुर्भूः, गीता, अ. २, श्लो. ४७
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  5. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=दूरेण_ह्यवरं_कर्म...&oldid=403627" इत्यस्माद् प्रतिप्राप्तम्