आर्द्रकम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
आर्द्रकम्/ Ginger
Zingiber officinale - Köhler–s Medizinal-Pflanzen-146.jpg
संरक्षणस्थितिः
निरापदम्
जैविकवर्गीकरणम्
जगत् (जीवविज्ञानम्) Plantae
(अश्रेणिकृतः) Angiosperms
(अश्रेणिकृतः) Monocots
(अश्रेणिकृतः) Commelinids
गणः Zingiberales
कुलम् Zingiberaceae
वंशः Zingiber
जातिः Z. officinale
द्विपदनाम
Zingiber officinale
Roscoe

आर्द्रकम्, शुण्ठी वा भारते वर्धमानः कश्चन कन्दविशेषः । शुण्ठी सस्यजन्यः आहारपदार्थः । एषा शुण्ठी आङ्ग्लभाषायां Ginger इति उव्यते । अस्याः शुण्ठ्याः सस्यशास्त्रीयं नाम अस्ति Coriandrum satirum इति । संस्कृते अशुष्कां शुण्ठीम् आर्द्रकम् इति वदन्ति, शुष्कां च शुण्ठी इति । अस्याः शुण्ठ्याः महौषधं, विश्वं, नागरं, विश्वभेषजं, शृङ्गवेरं, विश्वौषधं, कटुभद्रम् इत्यादीनि अन्यानि अपि नामानि सन्ति ।

चरकः स्वस्य चरकसंहितायाम् अर्द्रकं विश्वभेषजम् इति स्तौति । एषा शुण्ठी कटुरसयुक्ता, उष्णवीर्या च । एषा स्निग्धगुणयुक्ता अपि । अयं अत्युत्तमः पाचकः इति कारणेन शरीरे स्थितेन अजीर्णेन अहारेण जायमानान् अनेकान् रोगान् निवारयति । तेन सह स्वस्य तीक्ष्णमुणेन शरीरे स्रोतसाम् अवरोधमपि निवारयति । एताभ्यां द्वाभ्यां गुणाभ्यां आर्द्रकं सामान्यतः सर्वान् रोगान् उपशमयितुं शक्नोति । शुष्कम् आर्द्रकं शुण्ठिः इति कथ्यते ।

“शुण्ठी कटूष्णा स्निग्धा च कफसोफानिलापहा ।
शूलबद्धोदराध्मानश्वासश्लीपदनाशिनी ॥“ (राजकोषे पिप्पल्यादिवर्गः)
आर्द्रकम्
आर्द्रकक्षेत्रम्

शुण्ठीकषायम्[सम्पादयतु]

मुख्यलेखः: शुण्ठीकषायम्
शुण्ठीरसः

अस्य शुण्ठीकषायस्य निर्माणम् अपि अत्यन्तं सुलभम् । शुण्ठीं प्रक्षाल्य सम्यक् कुट्टनीयम् । अनन्तरं चषपकपरिमिते जले तत् संयोज्य सम्यक् क्वथनीयम् । जलम् अर्धचषकमितं यावत् भवेत् तावत् क्वथनीयम् । क्वथनावसरे यदि अपेक्ष्यते तर्हि तत्र मरीचचूर्णं, जीरिकाचूर्णं, हरिद्रां, गुडं च योजयितुं शक्यते । तदनन्तरं शोधनं करणीयम् । तथैव अथवा तस्मिन् शोधिते कषाये दुग्धं योजयित्वा तदा तदा किञ्चित् किञ्चित् पातुं शक्यते ।‎

शुण्ठीरसः[सम्पादयतु]

मुख्यलेखः: शुण्ठीरसः

अस्य शुण्ठीरसस्य निर्माणम् अपि अत्यन्तं सुलभम् । प्रथमम् शुण्ठीं प्रक्षाल्य त्वक् निष्कास्य लघु लघु खण्डाः करणीयाः । तदनन्तरं तेषु खण्डेषु शर्करां योजयित्वा सम्यक् पेषणं करणीयम् । तदनन्तरं तत्र जलं योजनीयम् । यदि लघु खण्डानां पेषणं न जातं तर्हि शोधनीयम् । अपेक्षितं चेत् तत्र एलायाः मरीचस्य च चूर्णम् अपि योजयितुं शक्यते । अत्र शुण्ठीखण्डानां प्रमाणम् अत्यन्तं न्यूनं भवेत् अन्यथा शाकरसः अत्यन्तं कटुः भवति । अन्यशाकानां रसस्य निर्माणे एवं नास्ति ।‎

आर्द्रके विद्यमानाः अंशाः[सम्पादयतु]

आर्द्रके ८०% आर्द्रता, २.३% प्रोटीन्, २.४% (फैबर्) सूत्रम्, १२.३% कार्बोहैड्रेट्, खनिजांशाः –क्याल्सियं फास्परस्, अयः, अयोडिन् च, विटमिन् ऎ, बि,सि च भवन्ति । शुण्ठीतैले Zingiberene, Zingiberol च भवति

आर्द्रकस्य आयुर्वेदीय स्वभावः उपयोगश्च[सम्पादयतु]

जीर्णक्रियायाम्, अजीर्णनिवारणे[सम्पादयतु]

बुभुक्षायाः उत्पादने, वर्धने च अर्द्रकम् अग्रस्थानं भजते । तक्रेण सह निर्मितम् आद्रकस्य ताक्रम्, उपसेचनं वा खादिवम् आहारं जिर्णीकरोति । तेन शरीरे आमसंग्रहः न भवति । उदरवेदनायां, अजीर्णतायां च आर्द्रकरससेवनं हितकरम् । प्रतिदिनं भोजनात् पूर्वं लघुना अर्द्रकखण्डेन किञ्चित् लवणं योजयित्वा खाद्यते चेत् भुक्तः आहारः सम्यक् जीर्णः भवति ।

आर्द्रकस्य लेपनादि बाह्यप्रयोगः[सम्पादयतु]

आमवातः ग्रन्थिवेदना इत्यादिषु आर्द्रकस्य कलकः किञ्चित् उष्णीकृत्य लेपनीयः । शीतत्वम् अवसादत्वं च इदं दूरीकरोति । शुण्ठेः (शुष्कम् आर्दकम् )चूर्णं तिलतैलेन मिश्रीकृत्य अभ्यङ्गः क्रियते चेदपि पूर्वम् उक्ताः दोषाः निवारिताः भवन्ति । शुण्ठेः चूर्णं शरीरे लेपयन्ति चेत् शोथः अपगच्छति । शीरपिते, शिलीपदे (elephentiasis) च अर्द्रकस्य प्रयोगः उत्तमं परिणामं जनयति

आद्रकरसस्य उपयोगः[सम्पादयतु]

पीनसः कासः, श्वाससमस्या, हिक्कः इत्येतेषु अर्द्रकरसः प्रयोजनकारी भवति । अयं रसः कफहरः । कण्ठे सञ्चितं सर्वं कफं द्रवीकरोति । अयं रसः नराणाम् उत्तेजकः । समान्यज्वरेषु औषधस्य आर्द्रकरसेन सह सेवनस्य पद्धतिः अपि रूदौ अस्ति । विषमज्वरे शुण्ठेः चूर्णं हितकरम् ।

सन्तानशक्तिवर्धकम्[सम्पादयतु]

उर्द्रकम् उत्तमम् उत्तेजकम् इति कारणेन पुरुषस्य सन्तानशक्तिं वर्धयति । वाजीर्करणस्य औषधिषु आर्द्रकम् अपि अन्यतमम् । प्रसवोत्तर-दौर्बल्यनिवारणाय शुण्ठीपाकः सेवनीयः ।

इतरे उपयोगाः[सम्पादयतु]

रोगस्य तीव्रतायाः कारणेन यूदा हस्तपादं शीतलं भवति तदा आर्दकरसेन लशुनरसं समप्रमाणेन मिश्रीकृत्य हस्तपादस्य लेपयित्वा सम्यक् मर्दनीयम् । तदा उष्णता उत्पद्यते, दौर्बल्यमपि न्यूनं भवति । नेग्गिलमुळ्ळु – कषायेन सह आर्दकरसं मिश्रीकृत्य प्रतिदिनं प्रातः पिबन्ति चेत् आमवातः कटिवेदना च अपगच्छति इति वृन्दमाधरग्रन्थे उक्तमस्ति कुष्ठरोगे, रक्तहीनतायां, मूत्रकृच्छ्रे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च सति ग्रीष्मऋतौ, शरदृतौ च आद्रकस्य सेवनं न हितकरम् इति भावप्रकाशे उक्तम् ।

जागरुकता[सम्पादयतु]

कुष्ठरोगे, रक्तहीनतायां, मूत्रकृच्छ्रे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च सति ग्रीष्मऋतौ, शरदृतौ च आद्रकस्य सेवनं न हितकरम् इति भावप्रकाशे उक्तम् ।

आयुर्वेदीयेषु औषधेषु आद्रकप्रयोगः[सम्पादयतु]

  • आर्द्रकखण्डः
  • पञ्चसमचूर्णः
  • समशर्करचूर्णः
  • रास्नादिक्वाथः
  • सौभाग्यशुण्ठीपाकः
  • शुण्ठीसुरा (Ginger Tinture) च प्रमुखानि औषधानि येषु आर्द्रकस्य (शुण्ठेः च ) प्रयोगः भवति ।

सेवनप्रमाणः[सम्पादयतु]

  • आर्द्रकरसः – ५-१० मि.ली
  • चूर्णम् – १-२ ग्राम्
  • शुण्ठिपानकम् -२-४ मि.ली


शुण्ठीसस्यं, पुष्पं, सस्यस्य अधोभागे शुण्ठी च
शुण्ठीचायम्

संक्षिप्तचिकित्सासूची[सम्पादयतु]

१. एषा शुण्ठी कफं, वातं, सोफं च परिहरति ।
२. शुण्ठी बद्धोदरम्, आध्मानं, श्वासरोगं, श्लीपदरोगं चापि परिहरति ।
३. शुण्ठी वृष्या, अग्निदीपिका च ।
४. शुण्ठी पाण्डुरोगं, गजपादरोगं च परिहरति इति धन्वन्तरिकोषः वदति ।
५. शुण्ठ्याः गुणाः एव आद्रकस्य अपि इति वदति भावप्रकाशः ।
६. शुण्ठी अरुचिम्, आमवातम्, अपचनं, विबन्धं, स्वरविकारं च निवारयति ।
७. शुण्ठी कासं, श्वासरोगं, हृदयरोगं, शोथम्, अशकम्, आनाहं, वमनं च शमयति ।
८. भोजनात् पूर्वं सैन्धवलवणेन सह शुण्ठी सेविता चेत् अग्निदीप्तिः भवति, जिह्वायाः, कण्ठस्य च शोधनम् अपि भवति ।
९. कुष्ठरोगे, मूत्रकृच्छ्ररोगे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च आर्द्रकस्य (आशुष्कस्य) उपयोगः न करणीयः ।
१०. ग्रीष्मे तथा शरदृतौ च आर्द्रकस्य (आशुष्कस्य) उपयोगः न कर्तव्यः ।
११. आमवातरोगे, सन्धिवातरोगे च शुण्ठ्याः लेपनं करणीयम् ।
१२. पीनसस्य निवारणार्थं शुण्ठीं जले योजयित्वा स्नातव्यम् ।
१३. शुण्ठ्याः रसेन सह पुरातनं गुडं योजयित्वा सेवनेन शीतपित्तं निवारितं भवति, अग्निदीप्तिः अपि भवति ।
१४. शुण्ठ्याः “नेग्गिलु” नामकस्य कण्टकयुक्तस्य सस्यस्य च कषायं प्रातःकाले पिबन्ति चेत् सामवातः, कटिवेदना च अपगच्छति । पाचनशक्तिः अपि वर्धते ।
१५. शुण्ठ्या निर्मितं कषायम् अग्निवर्धकम् । एतत् कषायं कासं, श्वासं, वातरोगम्, उदरबाधां, हृद्रोगं च निवारयति ।
१६. शुण्ठीं, तिलं, गुडं च दुग्धे योजयित्वा सेवनेन भोजनस्य अनन्तरं जायमाना उदरवेदना अपगच्छति ।
१७. आर्द्रकस्य रसं मधुना सह सेवन्ते चेत् श्वासः, कासः, अरुचिः, पीनसः च अपगच्छति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"http://sa.wikipedia.org/w/index.php?title=आर्द्रकम्&oldid=270890" इत्यस्माद् पुनः प्राप्तिः