आर्द्रकम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्
आर्द्रकम्
आर्द्रकक्षेत्रम्

एषा शुण्ठी भारते वर्धमानः कश्चन कन्दविशेषः । शुण्ठी सस्यजन्यः आहारपदार्थः । एषा शुण्ठी आङ्ग्लभाषायां Ginger इति उव्यते । अस्याः शुण्ठ्याः सस्यशास्त्रीयं नाम अस्ति Coriandrum satirum इति । संस्कृते अशुष्कां शुण्ठीम् आर्द्रकम् इति वदन्ति, शुष्कां च शुण्ठी इति । अस्याः शुण्ठ्याः महौषधं, विश्वं, नागरं, विश्वभेषजं, शृङ्गवेरं, विश्वौषधं, कटुभद्रम् इत्यादीनि अन्यानि अपि नामानि सन्ति ।

चरकः स्वस्य चरकसंहितायाम् अर्द्रकं विश्वभेषजम् इति स्तौति । एषा शुण्ठी कटुरसयुक्ता, उष्णवीर्या च । एषा स्निग्धगुणयुक्ता अपि । अयं अत्युत्तमः पाचकः इति कारणेन शरीरे स्थितेन अजीर्णेन अहारेण जायमानान् अनेकान् रोगान् निवारयति । तेन सह स्वस्य तीक्ष्णमुणेन शरीरे स्रोतसाम् अवरोधमपि निवारयति । एताभ्यां द्वाभ्यां गुणाभ्यां आर्द्रकं सामान्यतः सर्वान् रोगान् उपशमयितुं शक्नोति । शुष्कम् आर्द्रकं शुण्ठिः इति कथ्यते ।

“शुण्ठी कटूष्णा स्निग्धा च कफसोफानिलापहा ।
शूलबद्धोदराध्मानश्वासश्लीपदनाशिनी ॥“ (राजकोषे पिप्पल्यादिवर्गः)

अन्तर्विषयाः

आर्द्रके विद्यमानाः अंशाः [सम्पादयतु]

आर्द्रके ८०% आर्द्रता, २.३% प्रोटीन्, २.४% (फैबर्) सूत्रम्, १२.३% कार्बोहैड्रेट्, खनिजांशाः –क्याल्सियं फास्परस्, अयः, अयोडिन् च, विटमिन् ऎ, बि,सि च भवन्ति । शुण्ठीतैले Zingiberene, Zingiberol च भवति

शुण्ठ्याः आयुर्वेदीय स्वभावः उपयोगश्च [सम्पादयतु]

जीर्णक्रियायाम्, अजीर्णनिवारणे [सम्पादयतु]

बुभुक्षायाः उत्पादने, वर्धने च अर्द्रकम् अग्रस्थानं भजते । तक्रेण सह निर्मितम् आद्रकस्य ताक्रम्, उपसेचनं वा खादिवम् आहारं जिर्णीकरोति । तेन शरीरे आमसंग्रहः न भवति । उदरवेदनायां, अजीर्णतायां च आर्द्रकरससेवनं हितकरम् । प्रतिदिनं भोजनात् पूर्वं लघुना अर्द्रकखण्डेन किञ्चित् लवणं योजयित्वा खाद्यते चेत् भुक्तः आहारः सम्यक् जीर्णः भवति ।

आर्द्रकस्य लेपनादि बाह्यप्रयोगः [सम्पादयतु]

आमवातः ग्रन्थिवेदना इत्यादिषु आर्द्रकस्य कलकः किञ्चित् उष्णीकृत्य लेपनीयः । शीतत्वम् अवसादत्वं च इदं दूरीकरोति । शुण्ठेः (शुष्कम् आर्दकम् )चूर्णं तिलतैलेन मिश्रीकृत्य अभ्यङ्गः क्रियते चेदपि पूर्वम् उक्ताः दोषाः निवारिताः भवन्ति । शुण्ठेः चूर्णं शरीरे लेपयन्ति चेत् शोथः अपगच्छति । शीरपिते, शिलीपदे (elephentiasis) च अर्द्रकस्य प्रयोगः उत्तमं परिणामं जनयति

आद्रकरसस्य उपयोगः [सम्पादयतु]

पीनसः कासः, श्वाससमस्या, हिक्कः इत्येतेषु अर्द्रकरसः प्रयोजनकारी भवति । अयं रसः कफहरः । कण्ठे सञ्चितं सर्वं कफं द्रवीकरोति । अयं रसः नराणाम् उत्तेजकः । समान्यज्वरेषु औषधस्य आर्द्रकरसेन सह सेवनस्य पद्धतिः अपि रूदौ अस्ति । विषमज्वरे शुण्ठेः चूर्णं हितकरम् ।

सन्तानशक्तिवर्धकम् [सम्पादयतु]

उर्द्रकम् उत्तमम् उत्तेजकम् इति कारणेन पुरुषस्य सन्तानशक्तिं वर्धयति । वाजीर्करणस्य औषधिषु आर्द्रकम् अपि अन्यतमम् । प्रसवोत्तर-दौर्बल्यनिवारणाय शुण्ठीपाकः सेवनीयः ।

इतरे उपयोगाः [सम्पादयतु]

रोगस्य तीव्रतायाः कारणेन यूदा हस्तपादं शीतलं भवति तदा आर्दकरसेन लशुनरसं समप्रमाणेन मिश्रीकृत्य हस्तपादस्य लेपयित्वा सम्यक् मर्दनीयम् । तदा उष्णता उत्पद्यते, दौर्बल्यमपि न्यूनं भवति । नेग्गिलमुळ्ळु – कषायेन सह आर्दकरसं मिश्रीकृत्य प्रतिदिनं प्रातः पिबन्ति चेत् आमवातः कटिवेदना च अपगच्छति इति वृन्दमाधरग्रन्थे उक्तमस्ति कुष्ठरोगे, रक्तहीनतायां, मूत्रकृच्छ्रे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च सति ग्रीष्मऋतौ, शरदृतौ च आद्रकस्य सेवनं न हितकरम् इति भावप्रकाशे उक्तम् ।

जागरुकता [सम्पादयतु]

कुष्ठरोगे, रक्तहीनतायां, मूत्रकृच्छ्रे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च सति ग्रीष्मऋतौ, शरदृतौ च आद्रकस्य सेवनं न हितकरम् इति भावप्रकाशे उक्तम् ।

आयुर्वेदीयेषु औषधेषु आद्रकप्रयोगः [सम्पादयतु]

  • आर्द्रकखण्डः
  • पञ्चसमचूर्णः
  • समशर्करचूर्णः
  • रास्नादिक्वाथः
  • सौभाग्यशुण्ठीपाकः
  • शुण्ठीसुरा (Ginger Tinture) च प्रमुखानि औषधानि येषु आर्द्रकस्य (शुण्ठेः च ) प्रयोगः भवति ।

सेवनप्रमाणः [सम्पादयतु]

  • आर्द्रकरसः – ५-१० मि.ली
  • चूर्णम् – १-२ ग्राम्
  • शुण्ठिपानकम् -२-४ मि.ली


शुण्ठीसस्यं, पुष्पं, सस्यस्य अधोभागे शुण्ठी च
शुण्ठीचायम्

संक्षिप्तचिकित्सासूची [सम्पादयतु]

१. एषा शुण्ठी कफं, वातं, सोफं च परिहरति ।
२. शुण्ठी बद्धोदरम्, आध्मानं, श्वासरोगं, श्लीपदरोगं चापि परिहरति ।
३. शुण्ठी वृष्या, अग्निदीपिका च ।
४. शुण्ठी पाण्डुरोगं, गजपादरोगं च परिहरति इति धन्वन्तरिकोषः वदति ।
५. शुण्ठ्याः गुणाः एव आद्रकस्य अपि इति वदति भावप्रकाशः ।
६. शुण्ठी अरुचिम्, आमवातम्, अपचनं, विबन्धं, स्वरविकारं च निवारयति ।
७. शुण्ठी कासं, श्वासरोगं, हृदयरोगं, शोथम्, अशकम्, आनाहं, वमनं च शमयति ।
८. भोजनात् पूर्वं सैन्धवलवणेन सह शुण्ठी सेविता चेत् अग्निदीप्तिः भवति, जिह्वायाः, कण्ठस्य च शोधनम् अपि भवति ।
९. कुष्ठरोगे, मूत्रकृच्छ्ररोगे, रक्तपित्ते, व्रणे, ज्वरे, दाहे च आर्द्रकस्य (आशुष्कस्य) उपयोगः न करणीयः ।
१०. ग्रीष्मे तथा शरदृतौ च आर्द्रकस्य (आशुष्कस्य) उपयोगः न कर्तव्यः ।
११. आमवातरोगे, सन्धिवातरोगे च शुण्ठ्याः लेपनं करणीयम् ।
१२. पीनसस्य निवारणार्थं शुण्ठीं जले योजयित्वा स्नातव्यम् ।
१३. शुण्ठ्याः रसेन सह पुरातनं गुडं योजयित्वा सेवनेन शीतपित्तं निवारितं भवति, अग्निदीप्तिः अपि भवति ।
१४. शुण्ठ्याः “नेग्गिलु” नामकस्य कण्टकयुक्तस्य सस्यस्य च कषायं प्रातःकाले पिबन्ति चेत् सामवातः, कटिवेदना च अपगच्छति । पाचनशक्तिः अपि वर्धते ।
१५. शुण्ठ्या निर्मितं कषायम् अग्निवर्धकम् । एतत् कषायं कासं, श्वासं, वातरोगम्, उदरबाधां, हृद्रोगं च निवारयति ।
१६. शुण्ठीं, तिलं, गुडं च दुग्धे योजयित्वा सेवनेन भोजनस्य अनन्तरं जायमाना उदरवेदना अपगच्छति ।
१७. आर्द्रकस्य रसं मधुना सह सेवन्ते चेत् श्वासः, कासः, अरुचिः, पीनसः च अपगच्छति ।
"http://sa.wikipedia.org/w/index.php?title=आर्द्रकम्&oldid=238461" इत्यस्माद् उद्धृतम्