सामग्री पर जाएँ

असम

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(असाम इत्यस्मात् पुनर्निर्दिष्टम्)
असम

অসম
Official seal of असम
Seal
भारते असमराज्यम्
भारते असमराज्यम्
असमराज्यस्य मानचित्रम्
असमराज्यस्य मानचित्रम्
राष्ट्रम्  भारतम्
उद्घोषणम् सा.श.१९४७तमवर्षस्य अगष्टमासस्य १५तमदिनम् ।
राजधानी दिसपुरम्
मण्डलानि २७
Government
 • राज्यपालः गुलाब चन्द कटरिया
 • मुख्यमन्त्री हिमन्त विश्व शर्मा
Area
 • Total ७८५५० km
Area rank १६तमः
Population
 (२०११)
 • Total ३११६९२७२
 • Rank १४तमः
 • Density ४००/km
Time zone UTC+05:30 (भारतीय कालगणनम्)
साक्षरतापरिमाणम् ७३.१८% (१५तमः)
भाषाः अस्सामि, कर्बि, बोडो, बेङ्गाली
Website http://assam.gov.in

असम (असमिया: অসম) ईशान्य भारते विद्यमानं एकम राज्यम् अस्ति। राज्यस्य विस्तीर्णं ७८,४६६ वर्ग कि.मि. अस्ति। अस्य राज्यस्य उत्तरे अरुणाचलप्रदेशः, पूर्वे नागाल्याण्ड तथा मणिपुर, दक्षिणे मिजोरमा तथा मेघालयः, पश्चिमे बाङ्ग्लादेशश्च भवन्ति। अस्य राज्यस्य राजधानी "दिसपुर" इति।

नामस्य उत्पत्तिः

[सम्पादयतु]

केचन मन्यन्ते यत् असम इति नाम पर्वतैः सह अस्य प्रदेशस्य विषमतायाः कारणात् अभवत् । प्राकृतिकसौन्दर्ये असमस्य तुल्यः नास्ति, अतः असमस्य नाम 'अ-सं' अभवत् । अन्ये विद्वांसः मन्यन्ते यत् आहोमशब्दः असमतः आगतः यतः आहोमराजाः शासनं कुर्वन्ति स्म । अहोमजनाः ताई इति परिचयं दत्तवन्तः परन्तु अहोम इति प्रसिद्धाः अभवन् । अहोमजनाः प्रायः ६०० वर्षाणि यावत् असम-राज्यस्य शासनं कृतवन्तः ।

यद्यपि शानजनाः ताई इति परिचयं दत्तवन्तः तथापि राज्यस्य आदिवासीजनाः मध्ये ते असम, असम, कदाचित् असम इति नाम्ना प्रसिद्धाः आसन् । अहोम् इति नूतनः असमीयः शब्दः येन अद्य ताईजनाः प्रसिद्धाः सन्ति, सः असमतः असमतः वा निष्पन्नः अस्ति । कालान्तरे शासकानां कृते प्रयुक्तानि नामानि राज्यानां नामरूपेण परिवर्तन्ते स्म । संस्कृतीकरणस्य कारणेन कामरूपस्य नाम प्रथमं असम इति पश्चात् असम इति परिवर्तनं जातम् यस्य अर्थः "समम्, असमानम् अथवा असममितम्" इति । ― पंडितप्रवर सत्येन्द्र नाथ शर्मा

नव नामाकरण

[सम्पादयतु]

आङ्ग्लानां हस्ते असमस्य पतनस्य अनन्तरं असम-असम इति पदं लोकप्रियं जातम् अन्ते च तस्य प्रदेशस्य निवासिनः च असमिया इति उच्यन्ते स्म । आङ्ग्लाः Assam अथवा Assam इति आङ्ग्लभाषायां Assam इति लिप्यन्तरणं कृतवन्तः।असमस्य वर्तमानस्य वर्तनी आङ्ग्लभाषायां Axom अथवा Asom इति लिख्यते किन्तु Assam इति वर्तनी अपि सामान्या अस्ति।

भौगोलिकम्

[सम्पादयतु]

असम-राज्यं पूर्वोत्तरराज्यानां प्रवेशद्वारं मन्यते । इदं पर्वतीयक्षेत्रम् अस्ति । अतः असम-राज्यस्य वातावरणं मनोहरं भवति । ग्रीष्मकाले असमराज्यस्य अधिकतमं तापमानं २५ तः ३० डिग्री मात्रात्मकं, शीतर्तौ न्यूनतमं तापमानं ६ डिग्री मात्रात्मकं भवति । इदं राज्यं भूटान-देशस्य, बाङ्ग्लादेशस्य च अन्ताराष्ट्रियसीमयोः समीपे स्थितम् अस्ति । अस्मिन् राज्ये अधिकतमानि पर्वतीयस्थलानि सन्ति । असम-राज्यस्य उत्तरदिशि भूटान-देशः, अरुणाचलप्रदेशराज्यं च अस्ति । पूर्वदिशि मणिपुर-राज्यं, नागालैण्ड्-राज्यम्, अरुणाचलप्रदेश-राज्यं, दक्षिणदिशि मेघालय-राज्यं, मिजोरम-राज्यं, त्रिपुरा-राज्यं च अस्ति ।

मण्डलानि

[सम्पादयतु]

असमराज्ये २७ मण्डलानि सन्ति।

   

काँप्, लेटेराइट् च अस्य राज्यस्य प्रमुखे मृत्तिके स्तः । ते पर्वतीयक्षेत्रेषु, स्थलभागेषु च प्राप्येते । काँप-मृत्तिका नदीनाम् आपूरणक्षेत्रे प्राप्यते । आपूरणविहीनेषु स्थानेषु अम्लीयमृत्तिकाः भवन्ति । इयं मृत्तिका इक्षुदण्डं, फलं, व्रीहीं च उत्पादयितुम् उपयुक्ता भवति । पर्वतीयक्षेत्रस्य लेटेराइट्-मृत्तिका अनुर्वरा भवति । अस्मिन् राज्ये चायस्य कृषिः सर्वाधिकी भवति । प्रायः असम-राज्यं वनाच्छादितम् अस्ति ।

ब्रह्मपुत्रा-नदी असम-राज्यस्य मुख्या नदी वर्तते । सा पूर्वपश्चिमदिशि प्रवहन्ती बाङ्ग्लादेशं प्रविशति । अस्याः नद्याः विभिन्नाः शाखाः सन्ति । अतः नदीस्थितद्वीपानाम् अपि निर्माणं भवति । माजुली इत्ययं द्वीपः विश्वस्य बृहत्तमः नदीस्थितद्वीपः वर्तते । अयं द्वीपः ९२९ चतुरस्रवर्गकिलोमीटर्मितं विस्तृतः अस्ति । ब्रह्मपुत्राः नद्याः पञ्चत्रिंशत् (३५) सहायकनद्यः सन्ति । सुवंसिरि, भरेली, धनसिरी, पगलडिया, मानस, संकाश इत्यादयः नद्यः दक्षिणदिशः ब्रह्मपुत्रा-नद्यां सम्मिलन्ति । लोहित, नवदिहिङ्ग, बूढी दिहिङ्ग, दिसाङ्ग, कपिली, दिगारू इत्यादयः नद्यः उत्तरदिशः ब्रह्मपुत्रा-नद्यां सम्मिलन्ति । सुवंसिरी इत्यादयः नद्यः अपि हिमालयात् उत्तरतः प्रवहन्ति । यत्र पर्वतीयक्षेत्राणि भवन्ति, तत्र एतासां नदीनां जलप्रपाताः अपि भवन्ति । दक्षिणदिशि सूरमा-नदी अपि अस्ति । सा नदी स्वस्याः सहायकनदिभिः सह कछार-क्षेत्रे प्रवहति ।

इतिहासः

[सम्पादयतु]

प्राचीनभारतीयग्रन्थेषु अस्य प्रदेशस्य नाम “प्रागज्योतिषपुर” इति आसीत् । पूराणानाम् आधारेण “कामरूप” अस्य राज्यस्य राजधानी असीत् इति ज्ञायते । महाभारतस्य कालादारभ्य भास्करवर्मस्य शासनकालपर्यन्तम् एकस्य वंशस्यैव शासनम् आसीदिति । अभिलेखेषु उल्लेखाः दृश्यन्ते ।

  • सा.श. १८२६ तमे संवत्सरे युद्धसमाप्तेरनन्तरं ब्रिटिष् सार्वकारस्य शासनम् आसीत् ।
  • सा.श. १८३२ तमे संवत्सरे कछार प्रदेशस्य मेलनम् ।
  • सा.श. १८३५ तमे संवत्सरे तियाप्रदेशस्य मेलनम् ।
  • सा.श. १८७४ तमे संवत्सरे ब्रिटीष् सार्वकारस्य मुख्यायुक्तस्य अधीने अयं प्रदेशः आगतः ।
  • सा.श. १९०५ तमे संवत्सरे 'बङ्ग' विच्छेदः तथा सैन्याधिकारेः शासनम् आरब्धम् ।
  • सा.श. १९१५ तमे संवत्सरे पुनः मुख्यायुक्तस्य प्रशासनम् आरब्धम्।
  • सा.श. १९२१ तमे संवत्सरे राज्यपालस्य शासनम्।
  • सा.श. १९४७ तमे संवत्सरे भारतस्य स्वातन्त्र्यप्राप्तिः पाकिस्तानभारतयोः विभजनेन "बहुलसिलहट" प्रदेशस्य पाकिस्ताने मेलनम्।

नामोत्पत्तिः

[सम्पादयतु]

असम इति नाम संस्कृत-भाषाधारितम् अस्ति । संस्कृते असम अर्थात् अद्वितीयः । अस्य अपरः अर्थः अपि प्राप्यते यत् – या भूमिः समतला नास्ति सा असमा इति । किन्तु बहवः विद्वांसः मन्यन्ते यत् – असम शब्दस्य मूलरूपम् “अहोम” इति अस्ति । यतः पुरा ब्रिटिश-शासनात् ६०० वर्षाणि पूर्वम् अहोम-राज्ञां शासनम् आसीत् । अतः “अहोम” इति शब्देन असम शब्दस्य आविर्भावः अभूत् । प्राचीनकालादेव अस्य प्रदेशस्य लघुपर्वतेषु आस्ट्रिक, मङ्गोल, द्रविड, आर्य इत्यादयः विभिन्नजातयः निवसन्ति स्म । अतः संस्कृतिः मिश्रिता अभवत् । अतः असम-राज्यस्य सभ्यता, संस्कृतिश्च समृद्धा अस्ति ।

प्राचीने काले अस्य नाम प्राग्ज्योतिषपुरम् इति आसीत् । अनन्तरं “कामरूप” नाम अभवत् । इलाहाबाद-नगरे स्थिते समुद्रगुप्तस्य शिलालेखे कामरूप-राज्यस्य उल्लेखः अपि प्राप्यते । ई. स. ७४३ तमे वर्षे चीन-देशस्य ह्वेन्साङ्ग्-इत्याख्यः विद्वान् यात्री कामरूप-राज्यं प्राप्तवान् आसीत् । तेन कामरूप-राज्यस्य कामोलुपा इति नाम्ना उल्लेखः कृतः आसीत् । एकादशशताब्द्याम् अलबरूनी इत्याख्यः इतिहासकारः अभवत् । तेन स्वस्य पुस्तके अपि कामरूपस्य उल्लेखः कृतः अस्ति । अनेन प्रकारेण महाकाव्यकालात् द्वादशशताब्दीपर्यन्तम् आर्यावर्ते प्राग्ज्योतिषपुरं, कामरूपम् इत्येते नामनी प्रसिद्धे स्तः ।

पौराणिकेतिहासः

[सम्पादयतु]

पुराणानुसारम् इदं राज्यं कामरूप-राज्यस्य राजधानी आसीत् । महाभारतानुसारं कृष्णस्य पौत्रेण अनिरुद्धेन उषा-नामिकायाः युवत्याः अपहरणं कृतम् आसीत् । यतः अनिरुद्धः तस्याम् आकृष्टः अभवत् । किन्तु दन्तकथासु प्राप्यते यत् – “उषा अनिरुद्धात् मोहिता जाता आसीत् । अतः उषया स्वयमेव स्वस्याः अपहरणं कारितम् । इयं घटना तत्र कुमारहरणम् इति नाम्ना ज्ञायते । महाभारतकालादारभ्य सप्तमशताब्दीपर्यन्तं भास्करवर्मणः शासनकालपर्यन्तम् च एकस्य राजवंशस्य एव शासनम् आसीत् । बाणभट्टस्य, ह्वेनसाङ्ग्-इत्याख्यस्य च विवरणे अस्य राज्यस्य विवरणं प्राप्यते । महाकाव्यानां, पुराणानां च अनुसारेण अयं वंशः पृथ्व्याः पुत्रः अपि कथ्यते । अतः अयं वंशः भौमः अपि कथ्यते । भास्करवर्मणः राजवंशस्य शिलालेखे समर्थितं यत् – राज्ञा भागदत्तेन, तस्य उत्तराधिकारिभिः च कामरूप-राज्ये ३००० वर्षाणि यावत् शासनं कृतम् आसीत् । तदनन्तरं पुष्यवर्मन्-इत्याख्यः राजा अभवत् । अनेन प्रकारेण पुष्यवर्मणः परवतिनां शासकानां विवरणम् अपि प्राप्तम् । राजा भास्करवर्मन् राज्ञः हर्षवर्धनस्य मित्रम् आसीत् । अतः बाणभट्टेन विरचिते हर्षचरिते काव्ये भास्करवर्मणः उल्लेखः प्राप्यते ।

मध्ययुगः इतिहासः

[सम्पादयतु]

मध्यकाले ई. स. १२२८ तमे वर्षे म्यान्मार-देशस्य चाउ लुङ्ग सिउ का फा इत्याख्येन अस्म-राज्ये अधिकारः प्राप्तः आसीत् । सः अहोमवंशीयः आसीत् । तेन अहोमवंशस्य शासनम् आरब्धम् । ई. स. १८२९ तमवर्षपर्यन्तम् अहोम-वंशस्य शासनम् आसीत् । अतः एव कथ्यते यत् – “अहोम-राज्ञां शासनेन एव असम इति नाम अभवत् ।

असम-राज्ये बह्व्यः जातयः सन्ति । तासु जातीषु प्रथमा खासी-जातिः अस्ति । इयं जातिः उत्तरपूर्वदिशः निवासिनः जनाः सन्ति । द्वितीये समूहे दिमासा, बोडो, रामा, कारो, लालुङ्ग च अस्ति । पूर्वभागे डफला, मिरी, अबोर, आपातानी, मिश्मी चेत्यादयः जातयः सन्ति । तृतीये समूहे लुशाई, आका, ककी इत्यादयः जातयः सन्ति । ताः जातयः दक्षिणदिशः समागताः । ताः मणिपुरीजातीषु, नागाजातीषु सम्मिलिताः अभवन् । कछारी, रामा, बोडो च एताः जातयः हिमालस्य उच्चतृणस्थलेषु निवसन्ति । मङ्गोल-जातेः जनाः असम-राज्यस्य अधः भागे निवसन्ति । इयं जातिः गोवालपारा इत्यत्र ‘राजवंशी’ इति नाम्ना प्रसिद्धा । सालोई-जातिः कामरूपे प्रसिद्धा अस्ति । नदियाल-जातिः मत्स्यहन्त्री अस्ति । साम्प्रते असम-राज्ये पश्चिमबङ्गाल-राज्यस्य, बिहार-राज्यस्य, ओडिसा-राज्यस्य चेत्यादीनां राज्यानाम् आदिवासिनः चायस्य उद्यानेषु कार्यं कुर्वन्ति । अतः तेषां जनानां सङ्ख्या अधिका जाता ।

असमिया, बोडो च असम-राज्यस्य प्रमुखक्षेत्रीया भाषा, आधिकारिकी भाषा च अस्ति । प्राचीनकाले अपि कामरूप-राज्ये, कामतापुर कछारी. सुतीया, बोरही, अहोम, कोच च इत्यादिषु मध्ययुगीनेषु राज्येषु च असमिया-भाषा सामान्यतया व्यवह्रियते स्म । कामरूपी, ग्वालपरिया इत्यादयः भाषाः असमिया-भाषायाः अपभ्रंशभाषाः सन्ति । नागालैण्ड्-राज्ये, अरुणाचलप्रदेश-राज्ये, पूर्वोत्तरराज्येषु च असमिया-भाषा व्यवह्रियते । इतं परम् असम-राज्ये बङ्ग्ला-भाषा, बोडो-भाषा, नेपाली-भाषा, हिन्दी-भाषा च अपि व्यवहारे प्रयुज्यते ।

शिक्षणम्

[सम्पादयतु]

असमराज्ये ‍(६) षड् वर्षादारभ्य (१२) द्वादशवर्षपर्यन्तं माध्यमिकाध्ययनस्य अनिवार्याता अस्ति । निःशुल्केन अध्ययनार्थं सार्वकारपक्षतः व्यवस्था कल्पिता अस्ति । अध्ययन दृष्ट्या राज्यस्य ८० अपेक्षया अधिकेषु केन्द्रेषु विभिन्नाः योजनाः कल्पिताः सन्ति । राज्ये नैके विश्वविद्यालयाः सन्ति । असम कृषिविश्विविद्यालयः, असम विश्व।विद्यालयः, डिब्रुगढ़ विश्‍‍वविद्यालयः, गुवाहाटी विश्वःविद्यालयः, भारतीय प्रौद्योगिकी संस्थानम् , गुवाहाटी, राष्ट्रिय प्रौद्योगिकी संस्थानम् (मानित विश्वयविद्यालयः), तेजपुर विश्वविद्यालयश्च अस्य राज्यस्य प्रतिष्टिताः विश्वविद्यालयाः।

अर्थव्यवस्था

[सम्पादयतु]

असम-राज्यस्य अर्थव्यवस्था कृषिप्रधाना अस्ति । अस्य राज्यस्य ८० प्रतिशतं जनसङ्ख्या कृष्याधारिता अस्ति । असम-राज्ये तण्डुलाः, लवेटिका (Corn), गोधुमाः, कार्पासः इत्यादयः प्रमुखाणि सस्यानि सन्ति । चायं, निर्यासः, कॉफी च इत्यादीनि अपि उद्यानसस्यानि सन्ति ।

उद्योगाः

[सम्पादयतु]

असम-राज्ये चायस्य उद्योगः प्रमुखः वर्तते । राज्ये प्रायः २.३२ लक्षं हेक्टेयर् क्षेत्रे चायस्य उद्यानानि सन्ति । विश्वस्य सम्पूर्णस्य चायोत्पादने १६ प्रतिशतं योगदानं तु केवलम् असम-राज्यस्य एव अस्ति । गुवाहाटी-नगरे चायस्य सघोषविक्रयकेन्द्रम् अस्ति । तत्केन्द्रं विश्वस्य बृहत्तमं चायविक्रयकेन्द्रं वर्तते । भारतस्य आहत्य चायोत्पादनस्य ५० प्रतिशतम् उत्पादनम् असम-राज्ये एव भवति । राज्ये षड् औद्योगिकविकासकेन्द्राणि सन्ति । इतः परं बालीपाडा, माटिया इत्येतयोः स्थानयोः द्वे औद्योगिककेन्द्रे स्थाप्यमाने स्तः । साम्प्रतं राज्ये चत्वारः तेलशोधकयन्त्रागाराः सन्ति । तेषु एकः डिगबोई-नगरे स्थितः अस्ति । उच्यते यत् – “ई. स. १८६७ तमे वर्षे सर्वप्रथमम् एशिया-खण्डे असम-राज्ये एव तैलोत्पादनाय कूपः उत्खनितः” । तस्य कूपस्य नाम “माकम” इति आसीत् ।

प्राकृतिकवायूनाम् उत्पादने अपि असम-राज्यस्य महद्योगदानं वर्तते । गुवाहाटी-नगरस्य समीपम् अमीनगाँव इत्यत्र अपि “निर्यातसंवर्धनौद्योगिकोद्यानस्य” निर्माणं पूर्णम् अभवत् । असम-राज्यं स्वस्य काष्ठकलायै, हस्तशिल्पकलायै च विश्वप्रसिद्धम् अस्ति । अस्मिन् राज्ये नानाप्रकारकाः गृहोद्योगाः सन्ति । यथा – काष्ठशिल्पकार्यं, धातुशिल्पकार्यं, काष्ठवस्तुनिर्माणं च ।

सिञ्चनं, विद्युदुत्पादनं च

[सम्पादयतु]

असम-राज्ये ई. स. १९९९ तः ई. स. २००० पर्यन्तम् आहत्य ८.९८ लक्षं हेक्टेयर् भूमौ सिञ्चनाय व्यवस्था अभवत् । तेषु सिञ्चनविभागः ४.९५ लक्षं हेक्टेयर् क्षेत्रस्य सिञ्चनं करोति । असम-राज्ये वृष्टेः आधिक्येन सिञ्चनस्य व्यवस्था व्यापकरूपेण कृता अस्ति । सिञ्चनाय बह्व्यः योजनाः आरब्धाः । “जमुना सिंचाई योजना” इतीयं योजना अस्म-राज्यस्य बृहत्तम योजना अस्ति । तस्यां योजनायां २६,००० हेक्टेयर् भूमेः सिञ्चनस्य अनुमानम् अस्ति । सिञ्चनाय कूल्यानां दैर्घ्यं १३७.२५ किलोमीटर्मितं भविष्यति ।

असम-राज्यस्य प्रमुखेषु विद्युतावासेषु “चन्द्रपुर ताप बिजली परियोजना”, “नामरूप ताप बिजली परियोजना”, लघु पन बिजली परियोजना च प्रचलन्त्यौ स्तः । इतः परं बहवः विद्युदित्पादनघटकाः स्थापिताः सन्ति । सर्वकारेण “ग्रामीण विद्युतीकरण” इत्यस्य कार्यक्रमस्यान्तर्गततया ६८ प्रतिशतं ग्रामेभ्यः विद्युतः व्यवस्था कृता । आहत्य २१,४९५ ग्रामेभ्यः विद्युतः व्यवस्था कृता । साम्प्रतं “तिपाई मुख बाँध परियोजना” इत्यस्यां योजनायां जलबन्धनिर्माणाय प्रस्तावस्य सर्वकारेण सम्मतिः प्रदत्ता ।

तृतीययुगस्य अङ्गारः (Coal), खानिजतैलं च असम-राज्यस्य प्रमुखखानिजाः सन्ति । अस्मिन् राज्ये ४५० लक्षं टन-मात्रात्मकः खानिजतैलस्य सञ्चयः अस्ति । इयं मात्रा सम्पूर्णभारतस्य खानिजतैलस्य पञ्चाशत् (५०) प्रतिशतम् अस्ति । ब्रह्मपुत्रा-नद्याः द्रोण्यां, दिगबोई, नहरकटिया, मोशन, लक्वा, टियोक इत्यादिषु स्थानेषु अपि खानिजतैलं प्राप्यते । असम-राज्यस्य दक्षिणपूर्वदिशः अङ्गारस्य भाण्डारः अस्ति । तस्मिन् भाण्डारे प्रायः त्रयस्त्रिंश्त्कोटिटनपरिमितमात्रायाम् अङ्गाराः सन्ति ।

कला एवं संस्कृतिश्च

[सम्पादयतु]

असम-राज्ये बह्व्यः जनजातयः निवसन्ति। अतः तत्र संस्कृतेः अपि वैविध्यं वर्तते। ओजापालि, धोसा, धेमाली सूत्रिया, रास चेत्यादीनि नृत्यानि असम-राज्यस्य संस्कृतेः प्रमुखाणि अङ्गानि सन्ति । असम-राज्यस्य संस्कृतेः उत्सवेषु “रोङ्गाली बिहू”, “कोङ्गाली बिहू”, “भोगली बिहू” च प्रमुखाः उत्सवाः सन्ति । बिहू-नृत्यसमये जनाः प्रतिगृहं गत्वा “हुचरि”-गीतं गायन्ति । असम-राज्यस्य प्रत्येके विवाहे “तामुल पानोर बोटा” इति कांस्याधारिकायाः उपयोगः आवश्यकं भवति । “अम्बुवासी मेला”-उत्सवः असमराज्यस्य बृहत्तमः उत्सवः अस्ति । अयं कामाख्यादेव्याः मन्दिरे आयोज्यते । पूर्वोत्तरभारतस्य राज्येषु “शिवदोल” इत्याख्यं शिवमन्दिरम् उच्चतमं वर्तते । इदं ३७ मीटर्मितम् उन्नतं वर्तते । इदम् असम-राज्यस्य शिवसागरे स्थितम् अस्ति । अस्मिन् राज्ये सूर्यपर्वते मनसादेव्याः द्वादशभुजोपेता प्रतिमा दृश्यते । सूर्यपर्वतस्य तले ९९,९९९ शिवलिङ्गानि स्थापितानि । असम-राज्ये वैष्णवाः अपि निवसन्ति । अतः ते वैष्णवसाधूनां जन्मतिथौ पुण्यतिथौ च भजनानि गायन्ति । अन्यत्र अपि शिवरात्रिमेला उत्सवः, अशोकाष्टमीमेला-उत्सवः, पौषमेला-उत्सवः, परशुराममेला-उत्सवः, अम्बुबाशीमेला-उत्सवः, दोल-जात्रा, ईद, क्रिसमस्, दुर्गापूजा इत्यादयः उत्सवाः असम-राज्ये श्रद्धापूर्वकम् आचर्यन्ते।

साहित्यम्

[सम्पादयतु]

असमिया-भाषायाः साहित्यं सम्पूर्णे भारते प्रसिद्धम् अस्ति । त्रयोदशशताब्द्याम् असमिया-साहित्यस्य आरम्भः जातः । “हेम सरस्वती” इत्यस्य प्रह्लादचरित्रम् असमिया-साहित्येषु प्रथमं साहित्यं मन्यते । एकोनविंशतितमशताब्दीतः आधुनिकस्य असमिया-साहित्यस्य आरम्भः अभवत् । लक्ष्मीनाथ बैजबरुआ, नलिनी बाला देवी, कमलेश्वर चालिहा, डॉ. वीरेन्द्र कुमार भट्टाचार्यः, देवकान्त बरुआ, इन्दिरा गोस्वामी चेत्यादयः असम-राज्यस्य लेखकाः सन्ति । एतेषु “डॉ. वीरेन्द्र कुमार भट्टाचार्यः” ‘मृत्युञ्जय’ इति रचनां चकार । तया रचनया ई. स. १९७९ तमे वर्षे सः ज्ञानपीठपुरस्कारेण सम्मानितः जातः । “इन्दिरा गोस्वामी” अपि ई. स. २००० तमे वर्षे ज्ञानपीठपुरस्कारेण सम्मानिता आसीत् । असमिया-भाषायां “धर्म पुस्तक” इति पुस्तकं प्रकाशितम् । आत्माराम शर्मा अस्य पुस्तकस्य लेखकः आसीत् । असम-राज्ये डॉ. “भूपेन हजारिका” इत्याख्यः संगीतज्ञः अस्ति । राज्ये सः “संगीतसम्राट्” इति नाम्ना ज्ञायते । एवं च “अम्बिका गिरि राय चौधरी” इत्याख्यः “असम केसरी” इति नाम्ना ज्ञायते ।

परिवहनम्

[सम्पादयतु]

असम-राज्यस्य नदीनां कारणेन जलमार्गः अधिकः विकसितः अस्ति । परिवहने जलमार्गस्य उपयोगं भवति । इतः परं स्थलमार्गाः अपि सन्ति । ई. स. १९६६ तमे वर्षे रेलमार्गाणां दैर्घ्यं ५,८२७ किलोमीटरमितम् आसीत् । राजमार्गाणां दैर्घ्यं २०,६७८ किलोमीटरमितं वर्तते । राष्ट्रियमार्गाणां दैर्घ्यं २,९३४ किलोमीटरमितम् अस्ति । अस्मिन् राज्ये जलमार्गाणां विशिष्टं महत्त्वं विद्यते । प्राचीनकाले अपि जलमार्गाणां सर्वाधिकः उपयोगः क्रियते स्म । यतः असम-राज्यस्य नदीनां दैर्घ्यं ३२६१ किलोमीटरमितम् अस्ति । तत्रापि १६५३ किलोमीटरमितं मार्गः नौकाचालने योग्यः वर्तते ।

असम-राज्ये षड् विमानस्थानकानि सन्ति । तत्र नियमितरूपेण विमानसेवा दीयते । गुवाहाटी-नगरे “गोपीनाथ बाडदोलोई विमानस्थानकं”, तेजपुर-नगरे “सलोनीबाडी विमानस्थानकं”, डिब्रूगढ-नगरे “मोहनबाडी विमानस्थानकं”, उत्तरलखीमपुरे “सिलोनबाडी विमानस्थानकं”, सिलचर-नगरे “कुभीरग्राम विमानस्थानकं”, जोरहाट-नगरे “रोवरियाह विमानस्थानकं” च अस्ति ।

प्रसिद्धाः व्यक्तयः

[सम्पादयतु]

गोपीनाथ बोरदोलोई इत्याख्यः असम-राज्यस्य प्रथमः मुख्यमन्त्री, क्रान्तिकारी च आसीत् । गोपीनाथेन भारतस्य स्वतन्त्रताप्राप्त्यनन्तरं सरदार वल्लभभाई पटेल-इत्याख्येन सह कार्यं कृतम् आसीत् । अस्य योगदानेन एव असम-राज्यं भारतस्य भागः अस्ति । ई. स. १९३८ तमस्य वर्षस्य सितम्बर-मासस्य एकोनविंशतितमदिनाङ्क (१९/०९/१९३८) तः ई. स. १९३९ तमस्य वर्षस्य नवम्बर-मासस्य सप्तदश दिनाङ्कपर्यन्तं (१७/११/१९३९) असम-राज्यस्य मुख्यमन्त्रित्वेन कार्यं कृतम् आसीत् ।

ज्योतिप्रसाद आगरवाला

[सम्पादयतु]

ज्योतिप्रसाद आगरवाला इत्याख्यः असम-राज्यस्य प्रथमः चलच्चित्रनिर्माता आसीत् । अस्य जन्म ई. स. १९०३ तमस्य वर्षस्य जून-मासस्य सप्तदश (१७) दिनाङ्के अभवत् । अयं नाट्यकारः, कथाकारः, गीतकारः, पत्रसम्पादकः, सङ्गीतकारः, गायकश्च आसीत् । तेन चतुर्दशवर्षदेशीयेन एव “शोणित कुंवरी” इति नाट्यस्य रचना कृता आसीत् । ई. स. १९३५ तमे वर्षे “ज्योमति कुंवारी” इति नाट्याधारितं प्रथमम् असमप्रान्तीयं चलच्चित्रं निर्मापितम् आसीत् । सः अस्य चलच्चित्रस्य निर्माता, निर्देशकः, पटकथाकारः, मञ्चनिर्माता, सङ्गीतकारः, नृत्यनिर्देशकश्च आसीत् ।

भुपेन हजारिका इत्याख्यः असम-राज्यस्य गीतकारः, सङ्गीतकारः, गायकश्च आसीत् । सः असमिया-भाषायाः कविः, चलच्चित्रनिर्माता, लेखकः च अपि आसीत् । तस्य जन्म ई. स. १९२६ तमस्य वर्षस्य सितम्बर-मासस्य ८ दिनाङ्के (८/०९/१९२६) अभवत् । सः असम-राज्यस्य संस्कृतिज्ञः, सङ्गीतज्ञः च आसीत् । तेन काव्यलेखने, पत्रकारितायां, गायने, चलच्चित्रनिर्माणे इत्यादिषु क्षेत्रेषु कार्यं कृतम् आसीत् ।

इन्दिरा रायसम गोस्वामी

[सम्पादयतु]

इन्दिरा रायसम गोस्वामी इत्याख्या असमिया-भाषायाः लेखिका आसीत् । तस्याः जन्म ई. स. १९४२ तमस्य वर्षस्य नवम्बर-मासस्य चतुर्दश दिनाङ्के (१४/११/१९४२) अभवत् । इयं ज्ञानपीठपुरस्कारेण सम्मानिता आसीत् । सा असम-राज्ये स्थितस्य “युनाइटेड् लिबरेशन् फ्रण्ट् ऑफ् असम (ULFA)” नामकस्य सङ्घटनस्य कार्यकर्त्री आसीत् । अस्मिन् सङ्घटने “इन्दिरा रायसम गोस्वामी” इत्यस्याः महद्योगदानम् अस्ति ।

चित्र वीथिका

[सम्पादयतु]

सन्दर्भाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=असम&oldid=483461" इत्यस्माद् प्रतिप्राप्तम्