सामग्री पर जाएँ

करीम्नगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(करीमनगरमण्डलम् इत्यस्मात् पुनर्निर्दिष्टम्)
करीम्नगरमण्डलम्

కరీంనగర్

"City of Granites"
  मण्डलम्  
करीमनगरे स्थितम् एल्गन्डालदुर्गस्य"तीन् मीनार्"
करीमनगरे स्थितम् एल्गन्डालदुर्गस्य"तीन् मीनार्"
करीम्नगरमण्डलम्
Location of करीम्नगरमण्डलम्
in आन्ध्रप्रदेशराज्यम्
निर्देशाङ्काः

१८°२६′१३″ उत्तरदिक् ७९°०७′२७″ पूर्वदिक् / 18.43694°उत्तरदिक् 79.12417°पूर्वदिक् / १८.४३६९४; ७९.१२४१७

देशः भारतम्
भूप्रदेशः तेलङ्गाणम्
राज्यम् आन्ध्रप्रदेशराज्यम्
मण्डलम् करीम्नगरमण्डलम्
Mayor डि शङ्करः
M.L.A गङ्गुलकमलाकरः
M.P पोन्नम् प्रभाकरः
योजनायोगः Karimnagar Municipal Corporation
जनसङ्ख्या

• सान्द्रता

२,६०,८९९ (12, AP) (2011)

11,115 /किमी2 (28,788 /वर्ग मील)

लिङ्गानुपातः 1014 /
मानवसंसाधनसूची  increase
0.572 (medium) 
साक्षरता 76% 
व्यावहारिकभाषा(ः) तेलुगुभाषा, उर्दू
समयवलयः IST (UTC+05:30)
विस्तीर्णम्

• औन्नत्यम्

23.99 वर्ग किलोमीटर (9.26 वर्ग मील)

265 मीटर (869 फ़ुट)

वायुमण्डलम्

तलस्पर्षी
तापमानम्
• ग्रीष्मकालः
• शीतकालः

Tropical (कोप्पेन्)

     995 मिमी (39.2 इंच)
     31 °से (88 °फ़ै)
     44 °से (111 °फ़ै)
     20 °से (68 °फ़ै)

जालस्थानम् karimnagarmunicipalcorporation.com

करीम्नगरमण्डलम् (Karimnagar) आंध्रप्रदेशराज्ये स्थितमेकं मण्डलमस्ति।

इतिहासः

[सम्पादयतु]

“एल्लमन्दला” इत्याख्यं प्रान्तमिदं १९०६ तमे वर्षे करीम्नगरमण्डलं जातम् । काकतीयाः, बहमनी सुल्तानाः, गोल्कोण्डा नवाब् जनाः च इदं मण्डलं पूर्वं पालितवन्तः । “ इल्लेन्दु” दुर्गसमीपे असफजाहिपालकैः नियमितः सय्यद् करीमुद्दीन् नामाख्यातः कश्चनग्रामः निर्मितः इति । तस्य नामैव “करीम्नगर्” इति वर्तमानकालीन चारित्रकाणां कथनम् ।

भौगोलिकम्

[सम्पादयतु]

अस्य मण्डलस्य प्राच्यां मध्यप्रदेशराज्यं, पश्चिमायां निजामाबाद्, उत्तरे आदिलाबाद्, दक्षिणे च वरङ्गल्,मेदक् मण्डले च वर्तन्ते । राज्यवैशाल्ये इदं ४.२९% यावत् विस्तृतम् । तथैव १४.८% भूमिः अरण्येन विस्तृता ।

कृषिः वणिज्यं च

[सम्पादयतु]

मधुः, करगः, सारदालः, औषधमूलिकाः इत्यादीनां स्रोतः इदं मण्डलम् । हेमलैट्, मालिब्धिनैट्, स्य्यिलैट्, माग्नलैट् कवार्टज्, डोलमैट् इत्यादि खनिजाः उपलभ्यन्ते । राजगुण्डं केन्द्रीयकर्मागारः, सन्तनगरस्थः केसीरामसिमेण्ट् कर्मागारः च वर्तते । ५०% भूमिः कृषिभूमिः वर्तते । व्रीहिः, माषः, मुद्गः कार्पासः, हरिद्रा, मरीचः इत्यादीनां सस्यं क्रियते । श्रीरामसागरजलवाहकं, कमलापुरसरः, गीरसरः , सिङ्गसमुद्रसरः, मन्नेरु, मूलवागु इत्यादीनां नदीनां द्वारा सस्यजलं कल्प्यते ।

वीक्षणीयस्थलानि

[सम्पादयतु]

कालेश्वरस्थः मुक्तेश्वरालयः, वेमुलवाडस्थः राजराजेश्वरस्वामिदेवालयः, प्रतापगिरि दुर्गं, धर्मपुरी श्रीलक्ष्मीनरसिंहस्वामिदेवालयः, जगित्यालस्थः कोण्डगट्टु श्री आञ्जनेयस्वामिदेवालयः च दर्शनीयाः ।

तालूकाः

[सम्पादयतु]

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=करीम्नगरमण्डलम्&oldid=487395" इत्यस्माद् प्रतिप्राप्तम्