वासुपूज्यः
वासुपूज्यः | |
---|---|
द्वादशः जैनतीर्थङ्कराः | |
वासुपूज्यस्य प्रतिमा | |
विवरणम् | |
परिवारः | |
पिता | वासुपूज्यः |
माता | जया |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | चम्पापुरी |
निर्वाणम् | चम्पापुरी |
लक्षणम् | |
वर्णः | रक्तः |
चिन्हम् | महिषः |
औन्नत्यम् | ७० धनुर्मात्रात्मकम् (२१० मीटर्) |
आयुः | ७२,००,००० वर्षाणि |
शासकदेवः | |
यक्षः | कुमारः |
यक्षिणी | चण्डा |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
वासुपूज्यः ( ( शृणु) /ˈvɑːsʊpuːdʒjəhə/) (हिन्दी: वासुपूज्य,आङ्ग्ल: Vasupujya) जैनधर्मस्य चतुर्विंशतिः तीर्थङ्करेषु द्वादशः तीर्थङ्करः अस्ति । भगवतः वासुपूज्यस्य वर्णः रक्तः आसीत् । जैनधर्मानुसारं भगवतः चिह्नं महिषः चास्ति ।
कौमारावस्थायां वासुपूज्यस्य शरीरस्य औन्नत्यं सप्तति (७०) धनुर्मात्रात्मकम् आसीत्[१] । भगवतः धार्मिकपरिवारे “कुमार” इत्याख्यः यक्षः, “चण्डा” इत्याख्या यक्षिणी च आसीत् ।
जन्म, परिवारश्च
[सम्पादयतु]भरतक्षेत्रे चम्पा-नामिका नगरी आसीत् । तस्यां नगर्यां माघ-मासस्य कृष्णपक्षस्य चतुर्दश्यां तिथौ शतभिषा-नक्षत्रस्य मध्यरात्रौ भगवतः वासुपूज्यस्य जन्म अभवत् [२]।
वासुपूज्यस्य पिता वसुपूज्यः, माता च जयादेवी आसीत् । एकदा ज्येष्ठ-मासस्य शुक्लपक्षस्य नवम्यां तिथौ शतभिषा-नक्षत्रे रात्रौ जयादेवी तीर्थङ्करत्वसूचकान् चतुर्दश स्वप्नान् दृष्टवती । रात्रौ एव जयादेवी राज्ञे वसुपूज्याय चतुर्दशस्वप्नान् श्रावितवती । तस्मिन् रात्रौ एव भगवतः वासुपूज्यस्य जीवः जयादेव्याः गर्भे समतिष्ठत् [३]।
आगामि-दिने राजा स्वप्नशास्त्रिणः आहूतवान् । स्वप्नानां फलादेशाय स्वप्नशास्त्रं वर्तते । स्वप्नशास्त्रिणां पूजनं कृत्वा जयादेवी चतुर्दश स्वप्नान् श्रावितवती । स्वप्नशास्त्रिणः स्वप्नानां फलादेशं कृतवान् यत् – “जयादेव्याः गर्भे एकः श्रेष्ठः, विशिष्टः च बालकः अस्ति । सः तीर्थङ्करत्वं प्राप्स्यति" ।
गर्भकालस्य समाप्त्यनन्तरं भगवतः वासुपूज्यस्य जन्म अभवत् । यदा भगवतः वासुपूज्यस्य जन्म अभवत्, तदा चतुष्षष्टिः इन्द्राः नवजातशिशुं पण्डुकवनस्य शिलापट्टे नीतवन्तः । तत्र भगवतः उपरि जलाभिषेकं कृत्वा सत्कारं कृतवन्तः । पुनश्च इन्द्राः शिशुम् आनीय मातुः क्रोडे स्थापितवन्तः । भगवतः जन्मसमये सम्पूर्णं विश्वं शान्तम् आसीत्, केवलं दिशः एव शान्ताः नासन् । राज्ञा पुत्रप्राप्त्या आनन्दितस्सन् सर्वेभ्यः दानं प्रदत्तम् । नगरजनाः अपि प्रसन्नाः आसन् । सम्पूर्णे राज्ये आनन्दस्य महोत्सवः आसीत् ।
पूर्वजन्म
[सम्पादयतु]अर्धपुष्करद्वीपस्य पूर्वदिशि विदेहे मङ्गलावतीविजये रत्नसञ्चया-नामिका नगरी आसीत् । तस्यां नगर्यां पद्मोत्तर-नामकः कश्चन राजा आसीत् । पद्मोतरः एव भगवतः वासुपूज्यस्य पूर्वजन्म आसीत् ।
राजा नन्दीसेनः समस्तभोगसामग्रीः प्राप्तवान् आसीत् । तथापि सः अनासक्तः एव आसीत् । तेन सत्तायाः मोहः कदापि न कृतः । मुनिः इव सः जीवति स्म । “संसारः अनित्यः वर्तते” इति सः कदापि न विस्मरति स्म । सः सदैव अध्यात्मस्य, आत्मविकासस्य च विषये चिन्तामग्नः भवति स्म । सः सन्यासम् अङ्गीकर्तुम् इच्छति स्म । किन्तु शासनव्यवस्था अपि आवश्यकी वर्तते स्म । अतः भोगावलीकर्मभ्यः मुक्तिं प्राप्तुं सः प्रयासं करोति स्म ।
यदा तस्य उत्तराधिकारी शासितुं योग्यः अभवत्, तदा तेन उत्तराधिकारिणे राज्यस्य दायित्वं प्रदत्तम् । अनन्तरं राज्ञा पद्मोत्तरेण आचार्यात् वज्रनाभात् दीक्षां प्राप्य श्रमणधर्मम् अङ्गीकृतम् । बहुवर्षाणि यावत् तपस्यां कृत्वा राजा पद्मोत्तरः तीर्थङ्करगोत्रस्य बन्धनं कृतवान् । अन्ते सः सिद्धत्वं प्राप्य स्वर्गलोकं गतः ।
भगवतः वासुपूज्यस्य जन्मनः एकादश दिनानाम् अनन्तरं नामकरणसंस्कारस्य विधिः अभवत् । तस्मिन् दिने जनाः उत्सवम् अपि आचरितवन्तः । स्वर्गलोकात् बहवः देवाः समागताः । चतुष्षष्टिः इन्द्राः, लोकान्तिकाः देवाः च अपि उत्सवम् आचरितवन्तः । यतः उत्सवे तेषां देवानाम् उपस्थितिः आवश्यकी वर्तते ।
राज्ये जनाः अपि प्रफुल्लिताः आसन् । नामकरणोत्सवे बालकस्य नामकरणं क्रियते । अतः राजा नामकरणाय देवतानां, जनानां च परामर्शं पृष्टवान् । शिशुं दृष्ट्वा सर्वैः उक्तं यत् – “बालकस्य गुणाः अपि पितृसदृशाः सन्ति । पितुः नाम वसुपूज्यः अस्ति चेत् अस्य बालकस्य नाम वासुपूज्यः इति करणीयम् । राजा अपि अनेन नाम्ना सन्तुष्टः आसीत् । सर्वैः जनैः, देवैः च समर्थनं प्रदत्तम् । तावत् एव वासुपूज्यः इति नाम ख्यातम् अस्ति ।
मात्रा जयादेव्या भगवतः वासुपूज्यस्य श्रेष्ठतया पालनं कृतम् । समयान्तरे भगवतः वासुपूज्यस्य बाल्यावस्था, किशोरावस्था च अतीता । भगवतः शरीरस्य सौन्दर्यम् उत्तमम् आसीत् । सर्वे तस्मिन् आकृष्टाः भवन्ति स्म । बहुभिः राजभिः वसुपूज्याय विवाहविषयकं निवेदनं कृतं यत् – "वासुपूज्येन सह मे पुत्र्याः विवाहं कारयतु” इति ।
भगवति किशोरावस्थां प्रविष्टे सति राजा वसुपूज्यः राजकन्याभिः सह वासुपूज्यस्य विवाहम् अकारयत् । विवाहानन्तरं राज्ञः वसुपूज्यस्य मनसि वासुपूज्यस्य राज्याभिषेकं कर्तुं विचारः आगतः । किन्तु सः निष्फलः अभवत् ।
राज्यसञ्चालनाय अवबोधनम्
[सम्पादयतु]एकदा राजा वसुपूज्यः वासुपूज्येन सह राज्यसञ्चालनविषयकं सम्भाषणं कर्तुं गोष्ठीं चकार । राज्ञा वसुपूज्येन वासुपूज्यः अवबोधितः यत् – “ हे पुत्र ! ये तीर्थङ्कराः अभवन्, तैः सर्वैः विवाहः कृतः आसीत् । तैः विवाहानन्तरं राज्यसञ्चालनमपि कृतमासीत् । ऋषभदेवतः आरभ्य श्रेयांसनाथपर्यन्तं सर्वे तीर्थङ्कराः राजानः अभवन् । किन्तु साम्प्रतम् एव राज्यं प्रति भवतः विरक्तिः कीदृशी अस्ति इति ज्ञातुम् असमर्थोऽस्मि । प्रत्येकं कार्यं योग्यसमये भवेत् । विवाहसमये विवाहः, राज्यसञ्चालनसमये राज्यसञ्चालनं, साधनासमये साधना च भवेत्” ।
वासुपूज्यः अधिकतमं मौनं भजति स्म । किन्तु तदा वासुपूज्येन स्वस्य सुदृढविचाराः व्यक्ताः कृताः यत् – “ तात ! राज्यसञ्चालने सामदामदण्डभेदानां प्रयोगः आवश्यकः भवत्येव । तेषु कर्मणः बन्धनं तु भवति एव । अहं तादृशैः कर्मभिः प्रतिबद्धः नास्मि । अतः राज्यस्य दायित्वम् अहं न स्वीकरोमि” इति ।
राजा वसुपूज्यः पुत्रस्य विचाराणां प्रत्युत्तरं दातुम् असमर्थः । तदा वसुपूज्येन उक्तं यत् – “हे पुत्र ! भवान् स्वस्य, जगतश्च कल्याणार्थम् एव यथोचितं करोतु” इति । पितुः आज्ञां प्राप्य वासुपूज्यः स्वस्य राजप्रासादं प्राप्तवान् । लोकान्तिकदेवाः अपि भगवन्तं वासुपूज्यं प्रतिबोधयितुं समागताः ।
देवैः वार्षिकीदानस्य व्यवस्था कृता । ततः परं भगवान् वासुपूज्यः वार्षिकीदानं कृतवान् । एकवर्षं यावत् तेन वार्षिकीदानं कृतम् । वार्षिकीदाने वासुपूज्यः सुवर्णमुद्रिकाः दत्तवान् । नगरजनाः वा अन्ये केचन अपि दानं स्वीकर्तुं शक्नुवन्ति स्म । दूरनगरात् अपि बहवः जनाः आगत्य दानं स्वीकुर्वन्ति स्म [४]।
दीक्षा
[सम्पादयतु]यदा वार्षिकीदानं समाप्तं जातं, तदा माघ-मासस्य कृष्णपक्षस्य अमावास्यायां तिथौ शतभिषा-नक्षत्रे भगवान् वासुपूज्यः षड्शतेन जनैः सह चम्पा-नगर्याः सहस्राम्रोद्यानं गतवान् । तत्र देवाः, इन्द्राः चापि समुपस्थिताः आसन् । सर्वेषां समक्षे भगवता वासुपूज्येन दीक्षा अङ्गीकृता ।
आगामि-दिवसे भगवता वासुपूज्येन समीपस्थस्य महापुरनगरस्य राज्ञः सुनन्दस्य गृहे क्षीराहारः स्वीकृतः । दीक्षानन्तरम् एकमासं यावत् भगवान् वासुपूज्यः रहसि आसीत् । भगवता वासुपूज्येन एकमासं यावत् उग्रतमा अन्तरङ्गसाधना कृता । शनैः शनैः भगवान् वासुपूज्यः चतुर्णां घातककर्मणां क्षयं कृतवान् । सः पुनः चम्पानगर्याः सहस्राम्रोद्यानं प्राप्तवान् ।
चम्पा-नगर्यां माघ-मासस्य कृष्णपक्षस्य द्वितीयायां तिथौ शतभिषा-नक्षत्रे तस्मै केवलज्ञानम् अभवत् । तस्मिन् दिवसे लोकान्तिकदेवाः, चतुष्षष्टिः इन्द्राः, नगरजनाः च समुपस्थिताः आसन् । सर्वैः मिलित्वा केवलमहोत्सवस्य आयोजनं कृतम्, उत्सवः आचरितः च ।
अनन्तरं भगवता वासुपूज्येन प्रथमं प्रवचनं कृतम् । तस्मिन् प्रवचने बहवः श्रोतारः आसन् । भगवतः प्रवचनं श्रुत्वा बहवः जनाः संसारसागरात् निवृत्तिं प्राप्तुम् ऐच्छन् । भगवतः वासुपूज्यस्य प्रवचनस्य तादृशः प्रभावः आसीत्, येन जनाः मुग्धाः, लीनाः च अभवन् ।
धार्मिकः परिवारः
[सम्पादयतु]भगवतः प्रथमप्रवचनेन चतुर्णां तीर्थाणां स्थापना अभवत् । बहवः जनाः श्रमणपरम्परायां संलग्नाः अभवन् । यदा भगवान् वासुपूज्यनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविकाश्च) स्थापनां चकार, तदा वासुपूज्येन धार्मिकपरिवारस्य अपि रचना कृता[५]।
- ६६ गणधराः
- ६,००० केवलज्ञानिनः
- ६,००० मनःपर्यवज्ञानिनः
- ५,४०० अवधिज्ञानिनः
- १०,००० अवैक्रियलब्धिधारिणः
- १,२०० चतुर्दशपूर्विणः
- ४,७०० चर्चावादिनः
- ७२,००० साधवः
- १,००,००० साध्व्यः
- २,१५,००० श्रावकाः
- ४,३६,००० श्राविकाः
समानतायाः प्रभावः
[सम्पादयतु]तीर्थङ्कराणां प्रभावः सर्वेषु वर्गेषु समानः एव भवति । तथैव भगवतः वासुपूज्यस्य धनिकेषु , निर्धनेषु च समानः प्रभावः आसीत् । तत्कालीनेषु छत्रपतिराजसु अपि तस्य प्रभावः अद्भुतः आसीत् । तत्कालीनायाः अवसर्पिण्याः द्वितीयः नारायणः अर्धचक्रीवासुदेवः द्विषष्ठः अपि भगवतः वासुपूज्यस्य भक्तः आसीत्[६] ।
भगवान् वासुपूज्यः यदा अर्धचक्रिणः नगरं गतवान्, तदा सन्देशवाहकः भगवतः आगमनस्य सन्देशं द्विषष्ठाय श्रावितवान् । सन्देशं श्रुत्वा द्विषष्ठेन सन्देशवाहकाय सार्धद्वादशकोटिस्वर्णमुद्राः प्रदत्ताः । भगवतः वासुपूज्यस्य आगमनेन द्विषष्ठः प्रसन्नः जातः ।
द्वितीयेन बलदेवेन श्रीविजयेन अपि भगवतः वासुपूज्यस्य शासनकाले भागवती दिक्षा अङ्गीकृता । अन्ये अनेके राजानः अपि भगवतः वासुपूज्यस्य प्रवचनानि श्रुत्वा साधनालीनाः अभवन् ।
निर्वाणम्
[सम्पादयतु]यदा भगवता वासुपूज्येन स्वस्य निर्वाणकालः ज्ञातः, तदा सः पुनः चम्पानगरीं गतवान् । तत्र तेन षड्शतेन साधुभिः सह एकमासात्मकम् अनशनं स्वीकृतम् । तेन एकमासं यावत् पुनः तपस्या, साधना च कृता । एकमासानन्तरं सः शैलेशीपदं प्रापत् । शैलेशीपदस्य प्राप्त्या सर्वेषां कर्मणां नाशः अभवत् । अनन्तरं सः सिद्धत्वं प्रापत् ।
अन्ते एकमासस्य अनशनान्ते आषाढ-मासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ उत्तराभाद्रपद-नक्षत्रे चम्पा-नगर्यां भगवतः वासुपूज्यस्य निर्वाणम् अभवत् । भगवता सह बहवः मुनयः अपि मोक्षं प्रापन् [७]। लोकान्तिकदेवैः, चतुष्षष्टिः इन्द्रैः च भगवतः निर्वाणोत्सवः आचरितः ।
वासुपूज्येन कौमारावस्थायाम् अष्टादशलक्षवर्षाणां, दीक्षायां चतुर्पञ्चाशल्लक्षवर्षाणां च आयुः भुक्तम् । अनेन प्रकारेण तेन सम्पूर्णजीवने द्विसप्ततिलक्षवर्षाणि भुक्तानि आसन् [८]।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये वासुपूज्यः सम्बन्धिताः सञ्चिकाः सन्ति। |
- भारत डिस्कवरी - वासुपूज्य
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
- जैन पूजा – वासुपूज्य
- श्री वासुपूज्य भगवान Archived २०१६-०३-०५ at the Wayback Machine
सन्दर्भाः
[सम्पादयतु]- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 97
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 94
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 61
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 95
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 97
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 96
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 70
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 71
अधिकवाचनाय
[सम्पादयतु]- वासुपूज्य भगवान का परिचय Archived २०१६-०३-०५ at the Wayback Machine