सम्भवनाथः
सम्भवनाथः | |
---|---|
तृतीयः जैनतीर्थङ्करः | |
सम्भवनाथस्य प्रतिमा | |
विवरणम् | |
परिवारः | |
पिता | राजा जितारिः |
माता | सेनादेवी |
वंशः | इक्ष्वाकुः |
स्थानम् | |
जन्म | श्रावस्ती |
निर्वाणम् | सम्मेदशिखरम् |
लक्षणम् | |
वर्णः | स्वर्णः |
चिह्नम् | अश्वः |
औन्नत्यम् | ४०० धनुर्मात्रात्मकम् (१२०० मीटर्) |
आयुः | ६०,००,००० पूर्व |
शासकदेवः | |
यक्षः | त्रिमुखः |
यक्षिणी | दुरितारि |
जैनध्वजः | |
जैनधर्मस्य प्रतीकम् | |
धर्मावलम्बीनां संख्या | |
---|---|
प्रायः ५० लक्षजनाः | |
प्रवर्तकः | |
आदिनाथः | |
विस्तारः | |
भारतम्, बेल्जियम्, केनडा, हांग् कांग्, जपान्, सिङ्गापुरम्, उत्तर-अमेरिकाखण्डः | |
शिल्पकृतयः | |
जैनागमः | |
भाषा(ः) | |
प्राकृतम्, संस्कृतम्, कन्नड, तमिऴ्, गुजराती, हिन्दी |
सम्भवनाथः( ( शृणु) /ˈsəmbhəvənɑːθəhə/) (हिन्दी: सम्भवनाथ,आङ्ग्ल: Sambhavanatha) जैनधर्मस्य चतुर्विंशतितीर्थङ्करेषु तृतीयः तीर्थङ्करः वर्तते । भगवतः सम्भवनाथस्य चिह्नम् अश्वः अस्ति ।
जन्म, परिवारश्च
[सम्पादयतु]भरतक्षेत्रस्य सावत्थीनगर्यां मार्गशीर्ष-मासस्य शुक्लपक्षस्य चतुर्दश्यां तिथौ रात्रौ भगवतः सम्भवनाथस्य जन्म अभवत् । तस्य पिता राजा जितारिः, माता सेनादेवी च आसीत् ।
एकस्यां रात्रौ सेनादेव्या तीर्थङ्करत्वसूचकाः चतुर्दश स्वप्नाः दृष्टाः । तस्मिन् समये एव राज्ञ्या राजा जितारिः उत्थापितः । राज्ञी सर्वान् स्वप्नान् राजानं श्रावितवती । तदैव राजा अजानत् यत् – “समयान्तरे कश्चन तीर्थङ्करः भविष्यति” इति |
आगामिदिने स्वप्नशास्त्रिणां साहाय्येन सर्वेषां स्वप्नानां निष्कर्षः प्राप्तः । स्वप्नशास्त्रिभिः उक्तं यत् – “सेनादेव्याः कुक्ष्याः पुत्ररत्नं समुद्भविष्यति । सः जनानाम् उद्धारं करिष्यति” । स्वप्नशास्त्रिणां वचांसि श्रुत्वा राज्यजनाः प्रफुल्लिताः अभवन् ।
भगवतः जन्मानन्तरं चतुष्षष्टिः इन्द्राः समुपस्थिताः । इन्द्रैः जन्मोत्सवः आचरितः । राज्ये एकादशदिवसात्मकः उत्सवः जातः ।
पूर्वजन्म
[सम्पादयतु]एकस्मिन् जन्मनि कोऽपि महापुरुषः भवितुं न शक्नोति । बहूनां जन्मनां साधनया महापुरुषपदं प्राप्यते । भगवतः सम्भवनाथेन अपि अनेकेषु जन्मसु साधना कृता आसीत् । साधनया मानवीयगुणानां विकासः अभवत् । तत्परिणामेन सः तीर्थङ्करपदं प्रापत् ।
पूर्वजन्मनि सम्भवनाथः घातकीखण्डनामकस्य द्वीपस्य ऐरावतक्षेत्रे क्षेमपुरीनगर्याः विपुलवाहननामकः राजा आसीत् [१]। तस्य राज्ये भयङ्करदुष्कालस्य स्थितिः समुद्भूता । तदा राज्ञा स्वस्य अन्नभाण्डाराणि सर्वेभ्यः उद्घाटितानि । भाण्डारेभ्यः कोऽपि जनः अन्नं स्वीकर्तुं शक्नोति स्म ।
राज्ञा आदिष्टं यत् – “राज्यस्य कोऽपि जनः बुभुक्षितः मा स्यात्” इति । राज्ञा अन्यस्मात् राज्यात् खाद्यानि आनीतानि । राज्ये यानि विकासकार्याणि प्रचलन्ति आसन्, तेषां कार्याणां गतिविधिः अपि परीक्षिता । राज्ञः एतादृशेन व्यवहारेण प्रजाजनानां मनसि सन्तोषः समुद्भूतः ।
दुष्कालकारणात् बहवः साधवः अन्यानि जनपदानि गतवन्तः आसन् । किन्तु केचित् मुनयः राज्ये एव निवसन्तः आसन् । ते मुनयः कदाचित् शुद्धाहारं प्राप्नुवन्ति स्म, कदाचित् न प्राप्नुवन्ति स्म । अयं सन्देशः राज्ञा प्राप्तः । तदा राजा स्वयमेव मुनीनां समीपे गत्वा भोजनाय निमन्त्रणं प्रदत्तवान् ।
मुनयः राजप्रासादात् यथावश्यकं भोजनं खाद्यं वा सम्प्राप्तवन्तः । समयान्तरे वृष्टिः जाता । तया वृष्ट्या अन्नं समभवत् । तेन कारणेन राज्यस्थितिः पूर्ववत् अभवत् ।
एकदा सम्भवनाथः आकाशे पश्यन् आसीत्, तदा तेन मेघानां स्थितिः दृष्टा । मेघाः वायोः बलेन परस्परं सम्मिलन्ति, अपयान्ति च । इदं दृश्यं दृष्ट्वा सः स्वस्य परिवारस्य मेघवत् स्वरूपं चिन्तितवान् । अनेन कारणेन सः भौतिकजीवनात् व्यरमत् । ततः परं सः स्वयंप्रभाचार्यात् दीक्षां प्राप्तवान् । अनन्तरं सः अध्यात्मे लीनः जातः । अन्ते सः समाधिपूर्वकम् आराधकपदं प्राप्य नवमं देवलोकं गतः । “तिलोयपन्नति” इत्यादिषु ग्रन्थेषु अपि अस्य उल्लेखः प्राप्यते ।
पुत्रस्य नामकरणोत्सवे सर्वे कौटुम्बिकाः समुपस्थिताः आसन् । इतः परं राज्यस्य प्रतिष्ठिताः नगरजनाः अपि समुपस्थिताः । उपस्थितैः सर्वैः जनैः बालकाय आशीर्वादाः प्रदत्ताः ।
नामविषयिक्यां चर्चायां राजा जितारिः उवाच यत् – “अस्मिन् वर्षे राज्यस्य अर्थागमः सर्वाधिकः वर्तते । अस्मिन् वर्षे सस्यानि अपि राज्यस्येतिहासे सर्वाधिकानि जातानि । मन्ये यत् – अनेन बालकेन एव एतत्सर्वं सम्भवम् अभवत् । अतः अस्य नाम सम्भवनाथः इति योग्यम्” इति । नामचयने सर्वेषां सम्मतिः आसीत् । तदा बालकस्य सम्भवनाथः इति नामकरणम् अभवत् [२]।
मुनि श्रीजयानन्द विजय इत्याख्येन विरचिते पुस्तके भिन्नमतं प्राप्यते यत् – “यदा भगवान् गर्भे आसीत्, तदा राज्ये शिम्बाः (मुद्गाः, बीजगुप्तिका, नुद्गाः च ) अधिकमात्रायां समुद्भूताः आसन् । अतः सम्भनाथः इति नाम कृतम् [३]।
यदा सम्भवनाथेन यौवनत्वं सम्प्राप्तं, तदा राजा जितारिः सुयोग्यकन्याभिः सह तस्य विवाहम् अकारयत् । अनन्तरं जितारिणा तस्मै राज्यस्य दायित्वमदीयत । अनन्तरं जितारिणा शासनात् निवृत्तिः सम्प्राप्ता ।
राज्यम्
[सम्पादयतु]युवावस्थायां राजशासने प्राप्ते सत्यपि भगवान् अजितनाथः अनासक्तः आसन् । सः केवलं कर्त्तव्यभावनया एव राज्यस्य सञ्चालनं करोति स्म । तस्य शासनकाले राज्ये सर्वत्र शान्तिः आसीत् । कस्यापि वस्तुनः अभावः नासीत् । प्रजाः अपि सुखेन जीवनं यापयन्ति स्म । चतुर्दिक्षु समृद्धिः दृश्यमाना आसीत् । सम्भवनाथः ४४ लक्षं वर्षाणि पूर्वं यावत् शासनं कृतवान् आसीत् [४]।
राजत्यागः, दीक्षा च
[सम्पादयतु]सम्भवनाथेन स्वपुत्राय सम्पूर्णराज्यस्य दायित्वम् अदीयत । अनन्तरं सः वार्षिकीदानाय तत्परः अभवत् । भगवतः अभिनिष्क्रमणस्य सन्देशं प्राप्य बहवः राजानः, राजकुमाराः च विरक्ताः अभवन् । ते अपि गृहं त्यक्तुं सज्जाः अभवन् ।
भोगावलिकर्मणां समाप्त्यनन्तरं भगवता वार्षिकीदानस्य आरम्भः कृतः । सम्पूर्णराज्यस्य जनाः दानं स्वीकर्तुं गच्छन्ति स्म । एकवर्षं यावत् भगवान् सम्भवनाथः दानं कृतवान् आसीत् ।
मार्गशीर्ष-मासस्य शुक्लपक्षस्य पौर्णिमायां तिथौ एकसहस्रराजभिः, राजकुमारैः च सह सम्भवनाथः सहस्राम्रनामकं वनम् अगच्छत्[५] । तस्मै चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिः अभवत् । प्रत्येकस्मै तीर्थङ्कराय दीक्षया सह चतुर्थः मनःपर्यवज्ञानस्य प्राप्तिर्भवति एव । इदं ज्ञानमुपयुज्य सर्वेषां जीवानां मनोभावाः ज्ञातुं शक्यन्ते ।
दीक्षायाः दिने भगवतः चौविहारषष्ट्याः तपः प्रचलत् आसीत् । भगवान् सम्भवनाथः चतुर्दशवर्षाणि यावत् मुनेः अवस्थायाम् एव भ्रमन् आसीत् । तेन सर्वाणि इन्द्रियाणि जितानि । भ्रामं भ्रामं सः अन्ते पुनः सावत्थीनगरीं सम्प्राप्तवान् ।
सावत्थीनगर्यामेव तेन छद्मस्थकालस्य अन्तिमं चातुर्मास्यं कृतम् । आश्विन-मासस्य कृष्णपक्षस्य पञ्चम्यां तिथौ सम्भवनाथेन केवलज्ञानं प्राप्तम्[६] ।
इन्द्रादयः देवाः अपि तत्र समुपस्थिताः । सर्वैः देवैः केवलमहोत्सवः आचरितः । यदा जनैः भगवतः सर्वज्ञतायाः सन्देशः प्राप्तः, तदा सर्वे जनाः भगवतः दर्शनार्थम् उद्यानम् आगतवन्तः । भगवान् सम्भवनाथः चतुर्विधसङ्घस्य (साधुः, साध्वी, श्रावकः, श्राविका च) स्थापनाञ्चकार [७]।
धार्मिकः परिवारः
[सम्पादयतु]यदा भगवान् चतुर्विधसङ्घस्य स्थापनां कृतवान्, तदा तेन तस्य धार्मिकपरिवारः अपि सर्जितः [८]।
- १०२ गणधराः
- १५,००० केवलज्ञानिनः
- १२,१५० मनःपर्यवज्ञानिनः
- ९,६०० अवधिज्ञानिनः
- १९,८०० अवैक्रियलब्धिधारिणः
- २,१५० चतुर्दशपूर्विणः
- १२,००० चर्चावादिनः
- २,००,००० साधवः
- ३,३६,००० साध्व्यः
- २,९३,००० श्रावकाः
- ६,३६,००० श्राविका
निर्वाणम्
[सम्पादयतु]भगवान् सम्भवनाथः आर्यजनपदि दीर्घकालं यावत् विचरणं कृतवान् । तस्मिन् अन्तराले भगवता लक्षाधिकानां जनानाम् उद्धारः कृतः । यदा स्वस्य महाप्रयाणस्य ज्ञानम् अभवत्, तदा सम्भवनाथेन सहस्रसाधुभिः सह सम्मेदशिखरे जलान्नत्यागः कृतः । शुक्लध्यानस्य चतुर्थचरणं सम्प्राप्य तेन क्रियामात्रस्य त्यागो विहितः । अन्ते सः सिद्धत्वं प्रापत् ।
चैत्र-मासस्य शुक्लपक्षस्य पञ्चम्यां तिथौ भगवतः सम्भवनाथस्य निर्वाणम् अभवत्[९] ।
|
सम्बद्धाः लेखाः
[सम्पादयतु]बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये सम्भवनाथः सम्बन्धिताः सञ्चिकाः सन्ति। |
- भारत डिस्कवरी - संभवनाथ
- चौबीस तीर्थङ्कर
- तीर्थङ्कर Archived २०१५-०५-२३ at the Wayback Machine
- सम्भवनाथ Archived २०१६-०३-०५ at the Wayback Machine
सन्दर्भाः
[सम्पादयतु]- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 55
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 57
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 53
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 53
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 47
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58
- ↑ तीर्थङ्कर चरित्र, मुनि श्री जयानन्द विजय, श्री कृष्णलाल वर्मा पृ. 54
- ↑ तीर्थङ्कर चरित्र, मुनि सुमेरमल (लाडनूं) पृ. 58