देहिनोऽस्मिन्यथा देहे...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.१३ देहिनोस्मिन्… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
देहिनोऽस्मिन्यथा देहे...


शोकस्य अयोग्यत्वम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/१३
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः न त्वेवाहं जातु नासं...
अग्रिमश्लोकः मात्रास्पर्शास्तु कौन्तेय...

देहिनोऽस्मिन्यथा देहे () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शोकः सर्वथा अयोग्यः इति बोधयति । पूर्वस्मिन् श्लोकेऽपि भगवान् सदसतोः पदार्थयोः कृते शोकः अनुचितः इति अकथयत् । अत्र तमेव विषयम् अग्रे वदति । पूर्वस्मिन् श्लोके, श्लोकेऽस्मिन् च भगवान् आत्मनः नित्यतां, निर्विकारतां च बोधयति । सः वदति यत्, देहधारिणः मनुष्यदेहेऽस्मिन् यथा बाल्यं, यौवनं, वार्धक्यं च भवति, तथैव अन्यशरीरस्य प्राप्तिः भवति । एतस्मिन् विषये धीमन्तः मनुष्याः न मुह्यन्ति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा ।
तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ॥ १३ ॥

पदच्छेदः[सम्पादयतु]

देहिनः, अस्मिन्, यथा, देहे, कौमारम्, यौवनम्, जरा । तथा, देहान्तरप्राप्तिः, धीरः, तत्र, न, मुह्यति ॥

अन्वयः[सम्पादयतु]

देहिनः अस्मिन् देहे यथा कौमारं यौवनं जरा (च) तथा देहान्तरप्राप्तिः । तत्र धीरः न मुह्यति ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
अस्मिन् इदम्-म.सर्व.पुं.स.एक. एतस्मिन्
देहे अ.पुं.स.एक. शरीरे
कौमारम् अ.नपुं.प्र.एक. बाल्यम्
यौवनम् अ.नपुं.प्र.एक. तारुण्यम्
जरा आ.स्त्री.प्र.एक. वृद्धत्वम्
तथा अव्ययम् तेन प्राकारेण
देहान्तरप्राप्तिः इ.स्त्री.प्र.एक. अन्यशरीरलाभः
धीरः अ.पुं.प्र.एक. पण्डितः
तत्र अव्ययम् तस्मिन् विषये
अव्ययम्
मुह्यति √मुह वैचित्ये-पर.कर्तरि, लट्.प्रपु.एक. शोचति ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. देहिनोऽस्मिन् = देहिनः + अस्मिन् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  2. देहान्तरप्राप्तिर्धीरस्तत्र = देहान्तरप्राप्तिः + धीरः – विसर्गसन्धिः (रेफः)
  3. देहान्तरप्राप्तिर्धीरः + तत्र – विसर्गसन्धिः (सकारः)

तद्धितान्तः[सम्पादयतु]

  1. देहिनः = देह + इनि (मतुबर्थे) तस्य । देहः अस्य अस्मिन् वा अस्ति इति ।
  2. कौमारम् = कुमार + अण् (भावे) । कुमारस्य भावः इत्यर्थः ।
  3. यौवनम् = युवन् + अण् (भावे) । यूनः भावः इत्यर्थः

अर्थः[सम्पादयतु]

आत्मनः कौमारं यौवनं जरा चेत्येवम् अवस्थाः यथा भवन्ति तथा देहान्तरप्राप्तिः अपि भवति । अतः विवेकी तस्मिन् मोहं न गच्छति ।

भावार्थः [१][सम्पादयतु]

'देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा' – देहधारिणां शरीरे बाल्य-यौवन-जराः भवन्ति । तात्पर्यम् अस्ति यत्, शरीरे कदापि निश्चिता काचित् अवस्था न तिष्ठति । सा अवस्था निरन्तरं परिवर्तनशीला भवति । अत्र "देहधारिणां शरीरे" इत्यस्य कथनस्य तात्पर्यम् अस्ति यत्, शरीरी भिन्नः अस्ति, शरीरं च भिन्नम् । शरीरी दृष्टा अस्ति, शरीरं च दृश्यम् । अतः शरीरे बाल्याद्यवस्थानुगुणं यत् परिवर्तनं भवति, तत् परिवर्तनं शरीरिणि न भवति ।

'तथा देहान्तरप्राप्तिः' – यथा शरीरादीनां कौमार्यादयः अवस्थाः भवन्ति, तथैव देहान्तरस्यापि अर्थात् अन्यस्य शरीरस्यापि भवति । यथा स्थूलशरीरं बाल्यात् युवा, युवतः वृद्धं भवति, तदा तेन परिवर्तनेन कोऽपि शोकः न भवति । तथैव शरीरिणः एकस्मात् शरीरात् अपरशरीरगमनं भवति । अतः तस्मिन् विषये शोकः न करणीयः । यथा स्थूलशरीरस्य कौमार्याद्यवस्थाः भवन्ति, तथैव सूक्ष्मकारणशरीरयोः अपि देहान्तरस्य प्राप्तिः भवति । अर्थात् यथा कौमार्याद्यवस्थाः स्थूलशरीरस्य अवस्थाः सन्ति, तथैव देहान्तरप्राप्तिः (मृत्योत्तरम् अन्यशरीरधारणम्) सूक्ष्मकारणशरीरयोः अवस्था अस्ति ।

स्थूलशरीरे परिवर्तिते सति कौमार्याद्यवस्थाः भवन्ति इति तु स्थूलदृष्टिः अस्ति । सूक्ष्मदृष्ट्या पश्यामः चेत्, अवस्थानुगुणं स्थूलशरीरेऽपि परिवर्तनं भवति । बाल्यावस्थायाः शरीरं युवावस्थायां नासीत् । वास्तविके जीवने एकमपि क्षणं न भवति, यस्मिन् स्थूलशरीरे परिवर्तनं न भवति । तथैव सूक्ष्मकारणशरीरयोः अपि प्रतिक्षणं परिवर्तनं भवति । तत् परिवर्तनं देहान्तररूपेण स्पष्टतया द्रष्टुं शक्नुमः । देहान्तरस्य प्राप्त्योत्तरं तु स्थूलशरीरस्य त्यागः भवति । परन्तु मुक्तेः पूर्वं सूक्ष्मकारणशरीरयोः त्यागः न भवति । यावता मुक्तिः न भवति, तावता सूक्ष्मकारणशरीरयोः सम्बन्धः निरन्तरं चलति ।

अत्र चिन्तनीयम् अस्ति यत्, स्थूलशरीरस्य तु ज्ञानम् अस्माकं पार्श्वे अस्ति, परन्तु सूक्ष्मकारणशरीरयोः ज्ञानं नास्ति । अतः सूक्ष्मकारणशरीरयोः ज्ञानाभावे तयोः शरीरयोः जातस्य परिवर्तनस्य ज्ञानं कथं भवितुम् अर्हति ? उत्तरम् अस्ति यत्, यथा स्थूलशरीरस्य ज्ञानं शरीरावस्थानुगुणं भवति, तथैव सूक्ष्मकारणशरीरयोः अवस्थानुगुणं तयोः ज्ञानं भवति । स्थूलशरीरस्य "जागृतावस्था", सूक्ष्मशरीरस्य "स्वप्नावस्था", कारणशरीरस्य "सुषुप्त्यवस्था" च मन्यते ।

मनुष्यः स्वप्नकाले बाल्यावस्थायां, युवावस्थायां, वृद्धावस्थायां च स्वं क्रमेण बालकत्वेन, युवत्वेन, वृद्धत्वेन च पश्यति । तेन सिद्ध्यति यत्, स्थूलशरीरेण सह सूक्ष्मशरीरस्यापि परिवर्तनं जायते इति । तथैव सुषुप्त्यवस्था बाल्यकाले अधिका, युवावस्थायां स्वल्पा, वृद्धावस्थायां अतिस्वल्पा च भवति । एवं कारणशरीरस्यापि परिवर्तनं सिद्ध्यति ।

बाल्यावस्थायां, युवावस्थायां च निद्रोत्तरं यथा उल्लासः अनुभूयते, तथैव वृद्धावस्थायां निद्रोत्तरं न भवति । अर्थात् वृद्धावस्थायां बाल्ययुवावस्थावत् विश्रामो न प्राप्यते । एवं कारणशरीरस्य परिवर्तनं भवति । यः देवपशुपक्षीत्यादीनां शरीरे अस्ति, सः शरीरे देहाध्यासत्वात् "अहमेषः" इति अनुभवति । अर्थात् सूक्ष्मशरीरस्य परिवर्तनं जातम् अस्ति । तथैव कारणशरीरे स्वभावः भवति । सः स्वभावः स्थूलदृष्ट्या मनुष्यस्य प्रकृतिः इति प्रसिद्धः । सा प्रकृतिः देवपश्वादिनां भिन्ना भिन्ना भवति । एवं कारणशरीरस्यापि परिवर्तनं भवति ।

यदि शरीरिणि परिवर्तनम् अभविष्यत्, तर्हि अवस्थानुगुणं "स एवाहम्" [२] इति ज्ञानम् अभविष्यत् । परन्तु अवस्थासु परिवर्तने सत्यपि "बाल्ययुवावस्थयोः यः अहम् आसम्, स एवाहम्" इति ज्ञानं भवति । तेन सिद्ध्यति यत्, शरीरिणि परिवर्तनं न जातम् इति । अत्र शङ्का भवति यत्, यदा स्थूलशरीरस्य अवस्थाः परिवर्तन्ते, तदा परिवर्तनस्य ज्ञानं भवति । परन्तु शरीरान्तरप्राप्तौ सति पूर्वशरीरस्य ज्ञानं किमर्थं न भवति ? इति । पूर्वशरीरस्य ज्ञानाभावस्य कारणम् अस्ति यत्, मृत्योः, जन्मनः च काले अतीव कष्टं भवति । तस्य कष्टस्य कारणेन पूर्वजन्मनः सर्वाः स्मृतयः नष्टाः भवन्ति । यथा पक्षाघाते, वार्धक्याधिक्ये च सति बुद्धौ पूर्ववत् ज्ञानं न भवति, तथैव मृत्योः समये, जन्मनः समये च अतीव भीषणे आघाते सति पूर्वजन्मनः ज्ञानं न भवति [३] । परन्तु यस्य मरणे तावान् भीषणः आघातः न भवति, तस्य बुद्धौ पूर्वजन्मनः स्मृतिः अवशिष्यते । यः मनुष्यः सहसा मृत्युं प्राप्य सहसा कुत्रचित् जन्म धरते, तस्य पूर्वजन्माभ्यासः उत संस्काराः किञ्चित् कालं यावत् अभ्यग्राः (fresh) भवन्ति । तस्मात् कारणात् सः मनुष्यः पूर्वजन्मनः ज्ञानाभ्यासयुक्तः सन् जन्म प्राप्नोति । अतः सः जातिस्मरः उच्यते । ततः सः यथा यथा वृद्धिङ्गच्छति, तथा तथा स्वप्नसदृशी पूर्वतनी स्मृतिः नष्टा भवति । [४]

अत्र चिन्तनीयः विषयः अस्ति यत्, यथा अवस्थान्तरप्राप्तौ ज्ञानं भवति, तथैव देहान्तरप्राप्तौ न भवति । परन्तु "अहमस्मि" इति स्वसत्तायाः ज्ञानं तु सर्वदा भवति । यथा सुषुप्त्यवस्थायां स्वस्य किञ्चित् मात्रम् अपि ज्ञानं न भवति, परन्तु जागृते सति मनुष्यः कथयति यत्, "अहं तु सुषुप्त्यवस्थायाम् आसम् । अहं किमपि ज्ञातुं न शक्तवान्" इति । अत्र किमपि ज्ञातुं न शक्तवान् इत्यस्य ज्ञानं तु अस्त्येव । निद्रायाः पूर्वं यः आसम्, स एव जागृते सति अस्मि इति सत्तायाः अखण्डं ज्ञानं तु निरन्तरं भवति । स्वसत्तायाः अभावं कदापि कोऽपि नानुभवति । शरीरधारिणः सत्तायाः सद्भावः अखण्डतया तिष्ठति, तस्मिन् काले एव मुक्तिः भवति । एवं सः मुक्तावस्थायां तिष्ठति । जीवनमुक्तावस्थायां, शरीरान्तरावस्थायां च ज्ञानं तु न भवति, परन्तु "अहं त्रिभिः शरीरैः भिन्नः" इति ज्ञानं तु भवत्येव ।

'धीरस्तत्र न मुह्यति' – सदसतोः ज्ञाता एव धीरः । तादृशः धीरः मनुष्यः विषयेषु कदापि न मुह्यति । सः कदापि सन्देही न भवति । सः धीरः मनुष्यः देहान्तरप्राप्तिं करोति इति नास्ति । उच्चनीचयोनिषु जन्मनः कारणं गुणसङ्गः अस्ति । गुणेभ्यः सम्बन्धविच्छेदे सति धीरः मनुष्यः देहान्तरप्राप्तिं कर्तुं न शक्नोति । "तत्र" इत्यस्य पदस्यार्थः "देहान्तरप्राप्तिविषये" इति न भवति, अपि तु "देहदेहिनोः विषये" इति भवति । तात्पर्यम् अस्ति यत्, शरीरं किं ? शरीरी कः ? परिवर्तनशीलः कः ? अपरिवर्तनशीलः कः ? अनित्यः कः ? नित्यः कः ? असद् किम् ? सत् किम् ? विकारी कः ? अविकारी कः ? इत्येतेषु विषयेषु सः धीरः मोहितः न भवति । देहदेहिनोः भेदं सः सर्वथा अवगच्छति । एतस्मिन् विषये कदापि तस्मिन् मोहः नोत्पद्यते । स्वस्य अखण्डतायाः ज्ञानं तस्मिन् दृढं भवति ।

शाङ्करभाष्यम् [५][सम्पादयतु]

तत्रा कथमिव नित्य आत्मेति दृष्टन्तमाह -देहिन इति ।

देहः अस्य अस्तीति देही तस्य  देहिनो  देहवतः आत्मनः  अस्मिन्  वर्तमाने देहे यथा येन प्रकारेण  कौमारं  कुमारभावो बाल्यावस्था  यौवनं  यूनो भावो मध्यमावस्था  जरा  वयोहानिः जीर्णावस्था इत्येताः तिस्रः अवस्थाः अन्योन्यविलक्षणाः। तासां प्रथमावस्थानाशे न नाशः द्वितीयावस्थोपजने न उपजन नम् आत्मनः। किं तर्हि अविक्रियस्यैव द्वितीयतृतीयावस्थाप्राप्तिः आत्मनो दृष्टा।  तथा  तद्वदेव देहात् अन्यो देहो देहान्तरम् तस्य प्राप्तिः  देहान्तरप्राप्तिः  अविक्रियस्यैव आत्मनः इत्यर्थः।  धीरो  धीमान्  तत्र  एवं सति  न मुह्यति  न मोहमापद्यते।।

यद्यपि आत्मविनाशनिमित्तो मोहो न संभवति नित्य आत्मा इति विजानतः तथापि शीतोष्णसुखदुःखप्राप्तिनिमित्तो मोहो लौकिको दृश्यते सुखवियोगनिमित्तो मोहः दुःखसंयोगनिमित्तश्च शोकः। इत्येतदर्जुनस्य वचनमाशङ्क्य भगवानाह -

भाष्यार्थः[सम्पादयतु]

देहः अस्य अस्ति इति देही, तस्य देहिनः (आत्मनः) एतस्मिन् वर्तमाने शरीरे बाल्यादयः परस्परविलक्षणाः अवस्थाः भवन्ति । तासु अवस्थासु एकस्याः अवस्थायाः नाशे सति आत्मा नश्यति । अपरस्याः अवस्थायाः उत्पत्तौ आत्मा न जायते । तर्हि किं भवति ? चेत्, यथा निर्विकारी आत्मा एव द्वितीयां, तृतीयां च अवस्थां प्राप्नोति इति आभासः भवति, तथैव निर्विकारी आत्मा देहान्तरं प्राप्नोति । एतत् ज्ञानं प्राप्य धीरपुरुषः मोहितः न भवति ।

रामानुजभाष्यम्[सम्पादयतु]

एकस्मिन् देहे वर्तमानस्य  देहिनः  कौमारावस्थां विहाय यौवनाद्यवस्थाप्राप्तौ आत्मन स्थिरबुद्ध्या  यथा  आत्मा नष्ट इति न शोचति देहाद्  देहान्तर प्राप्तौ अपि  तथा  एव स्थिर आत्मा इति बुद्धिमान् न शोचति। अत आत्मनां नित्यत्वाद् आत्मानो न शोकस्थानम्।

एतावद् अत्र कर्तव्यम् आत्मनां नित्यानाम् एव अनादिकर्मवश्यतया तत्तत्कर्मोचितदेहसंस्पृष्टानां तैरेव देहैः बन्धनिवृत्तये शास्त्रीयं स्ववर्णोचितं युद्धादिकम् अनभिसंहितफलं कर्म कुर्वताम् अवर्जनीयतया इन्द्रियैः इन्द्रियार्थस्पर्शाः शीतोष्णादिप्रयुक्तसुखदुःखदा भवन्ति ते तु यावच्छास्त्रीयकर्मसमाप्ति क्षन्तव्या इति।

भाष्यार्थः[सम्पादयतु]

एकस्मिन् शरीरे विद्यमानः जीवात्मा यदा कुमारावस्थां त्यक्त्वा यौवनाद्यवस्थां प्राप्नोति, तदा आत्मा (पूर्वं यथा आसीत्, तथैव तिष्ठति) स्थिरः भवति । एतत् ज्ञानं यस्य पार्श्वे अस्ति, तादृशः मनुष्यः मोहितः सन् "आत्मा नष्टः" इति शोकं न करोति । तथैव एकस्मात् शरीरात् अपरं शरीरं प्रति गतः आत्मा अपि स्थिरः भवति इति ज्ञाता न शोकङ्गच्छति । आत्मा नित्यः अत एव शोकस्य विषयः नास्ति ।

जीवात्मनि नित्ये सत्यपि अनादिजन्मनां कर्मणाम् अधीने अस्ति । अतः कर्मणाम् अनुसारं शरीरसम्बन्धः अस्ति । तस्य तावदेव कर्तव्यम् अस्ति यत्, सः बन्धननिवृत्त्यै शरीरैः स्ववर्णोचितं कर्म फलाभिलाषी अभूत्वा कुर्वन् भवेत् । एवञ्च इन्द्रियजनितानि, विषयसंयोगजनितानि च यानि शीतोष्णादिजनितानि सुखदुःखानि सन्ति, तानि अनिवार्यत्वेन स्वीकृत्य स्ववर्णोचितकर्मणः परिसमाप्तिपर्यन्तं सहनं कुर्यात् ।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
न त्वेवाहं जातु नासं...
देहिनोऽस्मिन्यथा देहे... अग्रिमः
मात्रास्पर्शास्तु कौन्तेय...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. एतत् ज्ञानं शास्त्रेषु प्रत्यभिज्ञा इति प्रसिद्धम् । उक्तं च -
    तत्तेदन्तावगाहि ज्ञानं प्रत्यभिज्ञा
  3. म्रियते रुदतां स्वानामुरुवेदनयास्तधीः, श्रीमद्भागवत्महापुराणम्, ३/३०/१८
  4. ये मृताः सहसा जायन्ते सहसा पूनः ।
    तेषां पौराणिकोऽभ्यासः कञ्चित् कालां हि तिष्ठति ।।
    तस्माज्जातिस्मरा लोके जायन्ते बोधसंयुताः ।
    तेषां विवर्धतां संज्ञा स्वप्नवत् सा प्रणश्यति ।। महाभारतम्, अनुशासनपर्व, १४५
  5. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनाय[सम्पादयतु]