मात्रास्पर्शास्तु कौन्तेय...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.१४ मात्रास्पर्शाः… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
मात्रास्पर्शास्तु कौन्तेय...


शोकनिवृत्तेः उपायः
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/१४
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः देहिनोऽस्मिन्यथा देहे...
अग्रिमश्लोकः यं हि न व्यथयन्त्येते...

मात्रास्पर्शास्तु कौन्तेय () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः शोकनिवृत्तेः उपायं वदति । पूर्वस्मिन् श्लोके भगवान् आत्मनः निर्विकारतायाः नित्यतायाः च उपस्थापनम् अकरोत् । अत्र अनित्यवस्तुत्वात् शोकः भवति, तस्मात् शोकात् निवृत्तिः कथं भवति इति कथयति । सः वदति यत्, हे कुन्तीनन्दन ! इन्द्रियाणां ये विषयाः (जडपदार्थाः) सन्ति, ते तु अनुकूलताप्रतिकूलताभ्यां सुखदुःखयोः कारणं भवन्ति । ते विषयाः तु अनित्याः भवन्ति । हे भरतवंशोद्भूत अर्जुन ! तान् विषयान् सहस्व इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः ।
आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ॥ १४ ॥

पदच्छेदः[सम्पादयतु]

मात्रास्पर्शाः, तु, कौन्तेय, शीतोष्णसुखदुःखदाः । आगमापायिनः, अनित्याः, तान्, तितिक्षस्व, भारत ॥

अन्वयः[सम्पादयतु]

कौन्तेय ! मात्रास्पर्शाः तु शीतोष्णसुखदुःखदाः आगमापायिनः अनित्याः । भारत ! तान् तितिक्षस्व ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
कौन्तेय अ.पुं.सम्बो.एक. हे कुन्तीपुत्र !
मात्रास्पर्शाः अ.पुं.प्र.बहु. विषयसंयोगाः
तु अव्ययम् तु
शीतोष्णसुखदुःखदाः अ.पुं.प्र.बहु. शीतम् उष्णं सुखं दुःखं ये ददति ते
आगमापायिनः आगमापायिन्-न.पुं.प्र.बहु. संयोगवियोगशीलाः
अनित्याः अ.पुं.प्र.बहु. न नित्याः
भारत अ.पुं.सम्बो.एक. हे भरतकुलोव !
तान् तद्-द.सर्व.पुं.द्वि.एक. तान्
तितिक्षस्व तिज्+सन्(स्वार्थे) आत्म.लोट्.मपु.एक. सहस्व ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. मात्रास्पर्शास्तु = मात्रास्पर्शाः + तु – विसर्गसन्धिः (सकारः)
  2. आगमापायिनोऽनित्याः – आगमापायिनः + अनित्याः – विसर्गसन्धिः (सकारः), रुत्वम्, उकारः, गुणः, पूर्वरूपं च
  3. अनित्यास्तान् = अनित्याः + तान् – विसर्गसन्धिः (सकारः)
  4. तांस्तितिक्षस्व = तान् + ततिक्षस्व – रुत्वम्, अनुस्वारागमः, विसर्गः, सत्वम्

समासः[सम्पादयतु]

  1. मात्रास्पर्शाः = मात्राणां स्पर्शाः - षष्ठीतत्पुरुषः
  2. शीतोष्णसुखदुःखदाः = शीतं च उष्णं च शीतोष्णम् – द्वन्द्वः ।
  3. सुखं च दुःखं च सुखदुःखे – द्वन्द्वः ।
  4. शीतोष्णं च सुखदुःखे च शीतोष्णसुखदुःखानि – द्वन्द्वः ।
  5. शीतोष्णसुखदुःखानि ददति इति शीतोष्णसुखदुःखदाः – कर्तरि कः उपपदसमासश्च ।
  6. अनित्याः = न नित्याः – नञ्तत्पुरुषः ।

कृदन्तः[सम्पादयतु]

  1. स्पर्शाः – स्पृश् + घञ् (भावे)

तद्धितान्तः[सम्पादयतु]

  1. तितिक्षस्व = तिज् + सन् (स्वार्थे) + लोट्.मपु.एक.

अर्थः[सम्पादयतु]

स्रक्चन्दनवनितादीनां विषयाणां सम्बन्धाः कदाचित् शीतं जनयन्ति, कदाचिच्च उष्णम् । कदाचित् सुखम्, कदाचिच्च दुःखम् । कदाचित् ते भवन्ति, कदाचित् अपगच्छन्ति। अतः एव अनित्याः । तस्मात् तान् सहस्व । मा मोहं भज ।

भावार्थः [१][सम्पादयतु]

अत्र शङ्का भवति यत्, एकादशतः त्रयोदशश्लोकपर्यन्तं देहदेहिनोः विषयः अस्ति । षोडशतः त्रिंशत्तमश्लोकपर्यन्तम् अपि देहदेहिनोः विषयः अस्ति । तर्हि मध्ये चतुर्दशपञ्चदशश्लोकयोः "मात्रास्पर्श"स्य विषयः कथम् आगतः ? देहदेहिनोः विषयात् स विषयः पूर्णतया भिन्नः दरीदृश्यते खलु ? इति । समाधानम् अस्ति यत्, द्वादशे श्लोके यथा भगवान् सर्वेषां जीवानां नित्यस्वरूपं प्रदर्शयितुं "कस्मिंश्चित् समये अहं नासम् एवं नास्ति" इत्यादिभिः वचनैः स्वम् उदाहरणत्वेन उपास्थापयत्, तथैव अत्र शरीरादिपदार्थान् अनित्यान् प्रदर्शयितुं "मात्रास्पर्श"स्य चर्चां करोति । नित्यतत्त्वेभ्यः अनित्यतत्त्वान् भिन्नं प्रदर्शयितुम् अत्र "तु" इत्यस्य पदस्य उपयोगः अभवत् ।

'मात्रास्पर्शाः' - येन ज्ञानं भवति, तस्य साधनस्य नाम "मात्रा" इति । सम्मुखोपस्थितस्य विषयस्य ज्ञानम् इन्द्रियैः, अन्तःकरणेन च भवति । अतः इन्द्रियान्तःकरणस्य नाम "मात्रा" भवति । मात्राभिः (इन्द्रियान्तःकरणैः) सह संयोगस्य नाम "स्पर्शः" । अतः इन्द्रियान्तःकरणैः यस्य ज्ञानं भवति, तादृशाः जगतः सर्वे पदार्थाः "मात्रास्पर्शाः" कथ्यन्ते । अत्र "मात्रास्पर्शाः" इत्यनेन पदेन केवलं पदार्थाः एव किमर्थं ग्रहणीयाः ? तेषां पदार्थानां सम्बन्धाः किमर्थं न ? इत्यस्य प्रश्नस्य उत्तरम् अस्ति यत्, यदि अत्र "मात्रास्पर्शाः" इत्यनेन पदेन केवलं पदार्थानां सम्बन्धं गृह्णीमः, तर्हि ते सम्बन्धाः "आगमापायिनः" न परिगण्यन्ते । किञ्च सम्बन्धनस्य स्वीकृतिः न केवलम् अन्तःकरणे, अपि तु स्वस्मिन् भवति । स्वयं तु नित्यः अस्ति । एवं स्वस्मिन् यत् स्वीकृतं भवति, तदपि नित्यवत् परिगण्यते । स्वयं यावता तां स्वीकृतिं न परित्यजति, तावता सा स्वीकृतिः निरन्तरा भवति । अर्थात् पदार्थानां वियोगे सत्यपि पदार्थैः सह सम्बन्धविच्छेदः न भवति । सः मन्यमानः सम्बन्धः केवलम् अस्वीकृत्युत्तरम् एव नश्यति । अर्थात् ते सम्बन्धाः मम न सन्ति इति ज्ञाने सति सम्बन्धाः नङ्क्ष्यन्ति । स्वरूपे तु सम्बन्धाः न सन्त्येव । परन्तु मन्यमानानां सम्बन्धानाम् अस्वीकृतिं विना सर्वेऽपि त्यागाः, सर्वाणि तपांसि, परिवर्तनानि च विफलानि भवन्ति । यथा काचित् विधवा अस्ति । विधवाजीवने पञ्चाशदधिकेषु वर्षेषु यापितेषु सत्स्वपि यदा कोऽपि कथयति यत्, एषा स्त्री तस्य पुरुषस्य विधवा अस्ति इति, तदा स्त्रियाः मनसि पतिं प्रति प्रीतिभावः अविच्छन्नः एव भवति । एतया दृष्ट्या सम्बन्धाः आगमापायित्वेन अङ्गीकर्तुं न शक्यन्ते । अत एवात्र "मात्रास्पर्शाः" इत्यनेन पदेन केलवं पदार्थाः अङ्गीभवन्ति, न तु पदार्थसम्बन्धाः ।

'शीतोष्णसुखदुःखदाः' – अत्र शीतम्, उष्णं च क्रमेण अनुकूलतायाः, प्रतिकूलतायाः च वाचकम् । यदि तयोः पदयोः शैत्यम्, औष्ण्यम् इति कुर्मः, तर्हि केवलं त्वगिन्द्रियस्य विषयाः एव स्वीकर्तव्याः भवन्ति । तत्तु एकदेशीयमेव भवति । अतः "शीतम्" इत्यस्यार्थः अनुकूलता, "उष्णम्" इत्यस्यार्थः प्रतिकूलता इति योग्यः । केवलं पदार्थाः अनुकूलताप्रतिकूलताभ्यां सुखदुःखदाः सन्ति । अर्थात् यद् वयम् इच्छामः, तद् सर्वं वस्तु-व्यक्ति-परिस्थिति-घटना-स्थल-कालादि अनुकूलतां जनयति । परन्तु तत्सर्वं यदि इच्छाविरुद्धं सम्प्राप्नुमः, तर्हि तत्सर्वं प्रतिकूलताम् अपि जनयति । एवं सुखं, दुःखं च भवति । वास्तव्येन न केषुचित् पदार्थेषु सुखदुःखं दातुं सामर्थ्यं न भवति । मनुष्याः तैः पदार्थैः सह तादात्म्यं संस्थाप्य अनुकूलां, प्रतिकूलां च भावनाम् अङ्गीकुर्वन्ति । तेन पदार्थाः सुखदाः उत दुःखदाः इति आभासन्ते । अतः भगवान् अत्र "सुखदुःखदाः" इति अवदत् ।

'आगमापायिनः' – पदार्थाः केवलम् आद्यन्तयुक्ताः, विनाशशीलाः च भवन्ति । ते स्थायिनः न भवन्ति । यतः तेषाम् उत्पत्तेः प्राग् ते नासन्, विनाशोत्तरं च ते न भविष्यन्ति । अतः अत्र "आगमापायी" इत्यस्य शब्दस्य उपयोगः कृतः ।

"अनित्याः" – भवतु अहम् उत्पत्तेः प्राग्, विनाशोत्तरं च न भवेयं, परन्तु मध्ये तु अहं भवेयमेव इति कोऽपि तर्कयति चेत्, भगवान् कथयति यत्, अनित्यत्वात् मध्येऽपि कोऽपि न तिष्ठति । तेऽपि प्रतिक्षणं परिवर्तनशीलाः भवन्ति । तेषु परिवर्तनस्य वेगः तावान् तीव्रो भवति यत्, कञ्चन जनम् अपरिवर्तितं द्रष्टुं न कोऽपि शक्नोति इति । अर्थात् यद्यपि प्रथमः पुरुषः सततम् अपरं जनं पश्यन् भवति, तथापि प्रप्रथमवारम् अपरः जनः यादृशः आसीत्, तादृशः द्वितीये क्षणे न भवति । यतो हि तस्य अपरस्य जनस्य शरीरे किमपि परिवर्तनं जातं स्यादेव । अतः भगवान् तान् "अनित्याः" इति अकथयत् ।

केवलं ते पदार्थाः एव अनित्याः इति नास्ति, अपि तु पदार्थग्राहीणि इन्द्रियाणि, अन्तःकरणञ्च परिवर्तनशीलम् अस्ति । तयोः जातं परिवर्तनं कथं ज्ञातुं शक्नुमः ? दिवसे कार्यं कुर्वन् सायं पर्यन्तम् इन्द्रियादीनि क्लान्तानि भवन्ति, तथा च रात्रौ तृप्त्यनुसारं निद्रायां सत्यां प्रातःकाले स्फूर्तियुक्तानि भवन्ति । जागृतावस्थायां प्रतिक्षणं क्लान्तता वर्धते, निद्रावस्थायां प्रतिक्षणं स्फूर्तिः वर्धते च । एवम् इन्द्रियादिषु प्रतिक्षणं परिवर्तनं भवति इति सिद्ध्यति ।

अत्र पदार्थाः स्थूलरूपेण, सूक्ष्मरूपेण च क्रमेण "आगमापायिनः", "अनित्याः" इति उक्ताः । एते पदार्थाः अनित्यादपि सूक्ष्माः इति दर्शयितुम् अग्रे पदार्थेभ्यः "असत्" इत्यस्य पदस्य उपयोगः भविष्यति । पूर्वं ये पदार्थाः नित्याः उक्ताः, तेभ्यः "सत्" इत्यस्य पदस्य उपयोगः भविष्यति ।

'तांस्तितिक्षस्व' – इन्द्रियविषयाणां सम्मुखं गत्वा यदि प्रतिकूलतायाः, अनुकूलतायाः च ज्ञानं भवति, तर्हि तत् दोषपूर्णम् अस्ति । प्रत्युत इन्द्रियविषयम् उद्दिश्य अन्तःकरणे रागद्वेषौ, हर्षशोकौ इत्यादयः विकाराः उत्पद्यन्ते । ते विकाराः एव दोषयुक्ताः भवन्ति । अतः अनुकूलताप्रतिकूलतायाः ज्ञाने सत्यपि रागद्वेषादयः विकाराः नोत्पद्येरन् इति प्रयत्नः करणीयः । अर्थात् इन्द्रियविषयेषु उपस्थितेषु सत्सु निर्विकारी भूत्वा ते विकाराः मर्षणीयाः । अतः भगवान् "तितिक्षस्व" इत्यस्य पदस्य उपयोगं करोति । एवमपि मन्यते यत्, शरीरेन्द्रियान्तःकरणादीनां क्रियाणाम्, अवस्थानां च आरम्भान्तौ, भावाभावौ च भिन्नौ भवतः । ताः क्रियाः, ताः अवस्थाः च भवति न सन्ति । यतो हि भवान् इन्द्रियविषयेभ्यः स्वस्य भिन्नत्वम् अवगच्छति । अतः भवति किमपि परिवर्तनं न भवति । सा निर्विकारिता एव तितिक्षा उच्यते ।

शाङ्करभाष्यम् [२][सम्पादयतु]

मात्रा  आभिः मीयन्ते शब्दादय इति श्रोत्रादीनि इन्द्रियाणि। मात्राणां  स्पर्शाः  शब्दादिभिः संयोगाः। ते  शीतोष्णसुखदुःखदाः  शीतम् उष्णं सुखं दुःखं च प्रयच्छन्तीति। अथवा स्पृश्यन्त इति स्पर्शाः विषयाः शब्दादयः। मात्राश्च स्पर्शाश्च शीतोष्णसुखदुःखदाः। शीतं कदाचित् सुखं कदाचित् दुःखम्। तथा उष्णमपि अनियतस्वरूपम्। सुखदुःखे पुनः नियतरूपे यतो न व्यभिचरतः। अतः ताभ्यां पृथक् शीतोष्णयोः ग्रहणम्। यस्मात् ते मात्रास्पर्शादयः  आगमापायिनः  आगमापायशीलाः तस्मात्  अनित्याः । अतः  तान्  शीतोष्णादीन् तितिक्षस्व प्रसहस्व। तेषु हर्षं विषादं वा मा कार्षीः इत्यर्थः।।

भाष्यार्थः[सम्पादयतु]

"आत्मा नित्यः" इत्यस्य ज्ञातरि आत्मविनाशनिमित्तकः मोहः यद्यपि असम्भः, तथापि शीतोष्णजनितः (सुखदुःखजनितः) लौकिकमोहः, सुखवियोगनिमित्तकः, दुःखसंयोगनिमित्तकः च शोकः तु तस्मिन् ज्ञातरि दरीदृश्यते एव इति अर्जुनस्य वचनेषु आशङ्कां दृष्ट्वा भगवान् अवदत् –

मात्रा अर्थात् शब्दादिविषयाः येन माध्यमेन ज्ञायन्ते । श्रोत्रादीन्द्रियाणि, इन्द्रियस्पर्शाः (शब्दादिविषयाणां माध्यमैः सह संयोगः) च । इन्द्रियेन्द्रियस्पर्शाः शीतोष्णदाः (सुखदुःखदाः) । अथवा येषां स्पर्शः जायते, ते स्पर्शाः अर्थात् शब्दादिविषयाः इत्यनया व्युत्पत्त्या अर्थः भवति यत्, मात्रा, स्पर्शाः च सुखदुःखदाः भवन्ति । तात्पर्यम् अस्ति यत्, श्रोत्रादीन्द्रियाणि, शब्दादिविषयाः च सुखदुःखदाः भवन्ति इति ।

शैत्यं कदाचित् सुखदं भवति, कदाचित् दुःखदञ्च । तथैव औष्ण्यस्यापि । परन्तु सुखदुःखयोः निश्चितरूपं भवति । यतः तेषु व्यभिचारः (परिवर्तनं) न भवति । अतः सुखदुःखेभ्यः भिन्नं शीतोष्णयोः ग्रहणम् अभवदत्र । एवं मात्रास्पर्शादयः उत्पत्तिविनाशशीलाः, अनित्याः च सन्ति इति निश्चितं कृतम् । अतः शीतोष्णादिकं त्वं तितिक्षस्व । अर्थात् शीतोष्णादिषु हर्षः, शोकः च मा कुरु इति ।

रामानुजभाष्यम् [३][सम्पादयतु]

इममर्थमनन्तरमेव आह मात्राश्पर्शास्त्विति ।

शब्दस्पर्शरूपरसगन्धाः साश्रयाः तन्मात्राकार्यत्वात्  मात्रा  इति उच्यन्ते। श्रोत्रादिभिः तेषां  स्पर्शाः   शीतोष्ण मृदुपरुषादिरूपसुखदुःखदा भवन्ति। शीतोष्णशब्दः प्रदर्शनार्थः  तान्  धैर्येण यावद्युद्धादिशास्त्रीयकर्मसमाप्ति  तितिक्षस्व।  ते च  आगमापायि त्वाद् धैर्यवतां क्षन्तुं योग्याः।  अनित्याः  च एते बन्धहेतुभूतकर्मनाशे सति आगमापायित्वेन अपि निवर्तन्ते इत्यर्थः।

भाष्यार्थः[सम्पादयतु]

उपर्युक्तम् अभिप्रायमेव (भगवान्) अग्रिमे श्लोकेऽस्मिन् कथयति –

शब्दस्पर्शरूपरसगन्धाः पञ्च विषयाः स्वाधिष्ठानसहितं तन्मात्रायाः कार्यम् अस्ति । अतः ते विषयाः "मात्रा" इति सम्बोध्यन्ते । श्रोत्रादीन्द्रियैः सह तेषां विषयाणां संयोगः शीतोष्णमृदुकठोरादिरूपेण सुखदुःखं जनयति । अत्र शीतोष्णशब्दस्य उपलक्ष्याय अस्ति, अतः तेषु शस्त्रपातादिभिः जायमानानि सर्वविधानि सुखदुःखानि ग्रहणीयानि । तान् विषयान्, विषयेन्द्रियसंयोगान् च युद्धादिशास्त्रीयकर्मणां परिसमाप्तिपर्यन्तं त्वं धैर्येण तितिक्षस्व । ते आगमापायित्वात् धैर्यशीलपुरुषैः उपेक्षणीयाः । विषयाः, विषयेन्द्रियसंयोगाः च अनित्याः अपि । अर्थात् बन्धनहेतुभूतकर्मणां नाशे सति ते नष्टाः भवन्ति । ते आगमापायित्वात् स्वाभाविकतया नष्टाः भविष्यन्ति इत्यर्थः ।

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
देहिनोऽस्मिन्यथा देहे...
मात्रास्पर्शास्तु कौन्तेय... अग्रिमः
यं हि न व्यथयन्त्येते...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  3. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]