अव्यक्तोऽयमचिन्त्योऽयम्...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.२५ अवक्तोयम्… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
अव्यक्तोऽयमचिन्त्योऽयम्...


आत्मनः शोकरहितत्वम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/२५
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः अच्छेद्योऽयमदाह्योऽयम्...
अग्रिमश्लोकः अथ चैनं नित्यजातं...

अव्यक्तोऽयमचिन्त्योऽयम् () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनः शोकरहितत्वं प्रदर्शयति । पूर्वयोः उभयोः श्लोकयोः भगवान् आत्मनः नित्यत्वं निरूपयति, तस्य उपसंहारत्वेन एतस्मिन् श्लोके आत्मनः नित्यत्वेन सह आत्मनः शोकरहितत्वम् अपि बोधयति । सः वदति यत्, अयं देही प्रत्यक्षं न दृश्यते, एषः न चिन्तनविषयः, तस्मिन् न कोऽपि विकारः उत्पद्यते च । एवं देहिनं ज्ञात्वा शोकं मा कुरु इति । कः

श्लोकः[सम्पादयतु]

गीतोपदेशः
अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते ।
तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ॥ २५ ॥

पदच्छेदः[सम्पादयतु]

अव्यक्तः, अयम्, अचिन्त्यः, अयम्, अविकार्यः, अयम्, उच्यते । तस्मात्, एवम्, विदित्वा, एनम्, न, अनुशोचितुम्, अर्हसि ॥

अन्वयः[सम्पादयतु]

अयम् अव्यक्तः । अयम् अचिन्त्यः । अयम् अविकार्यः उच्यते । तस्मात् एवम् एनं देहिनं विदित्वा अनुशोचितुं न अर्हसि ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
अयम् इदम्-म.सर्व.पुं.प्र.एक. एषः देही
अव्यक्तः अ.पुं.प्र.एक. अप्रकटः
अचिन्त्यः अ.पुं.प्र.एक. निराकारः
अविकार्यः अ.पुं.प्र.एक. अपरिणामी
उच्यते √वच् वचने-पर.कर्मणि, लट्.प्रपु.एक. कथ्यते
तस्मात् तद्-द.सर्व.पुं.पं.एक. अतः
एवम् अव्ययम् इत्थम्
एनम् (देहिनम्) एतद्.द.सर्व.पुं.द्वि.एक. अमुम्
विदित्वा क्त्वान्तम् अव्ययम् विज्ञाय
अनुशोचितुम् तुमुन्नन्तम् अव्ययम् दुःखितुम्
अव्ययम्
अर्हसि √अर्ह पूजायाम्-पर.कर्तरि, लट्.प्रपु.एक. योग्यो भवसि ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. अव्यक्तोऽयम् = अव्यक्तः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  2. अचिन्त्योऽयम् = अचिन्त्यः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  3. अविकार्योऽयम् = अविकार्यः + अयम् – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः, पूर्वरूपं च
  4. तस्मादेव = तस्मात् + एव - जश्त्वसन्धिः
  5. नानुशोचितुम् = न + अनुशोचितुम् - सवर्णदीर्घसन्धिः

कृदन्तः[सम्पादयतु]

  1. अव्यक्तः – न व्यक्तः – नञ्तत्पुरुषः ।
  2. अचिन्त्यः – न चिन्त्यः - नञ्तत्पुरुषः ।
  3. अविकार्यः – न विकार्यः - नञ्तत्पुरुषः ।

तद्धितान्तः[सम्पादयतु]

  1. व्यक्तः = वि + अञ्ज् + क्त (कर्मणि)
  2. चिन्त्यः = चिन्त् + ण्यत् (कर्मणि)
  3. विकार्यः = वि + कृञ् + ण्यत् (कर्मणि)
  4. विदित्वा = विद् + क्त्वा
  5. अनुशोचितुम् = अनु + शुच् + तुमुन्


अर्थः[सम्पादयतु]

एषः आत्मा इन्द्रियाणाम् अगोचरः इति हेतोः अचिन्त्यः अस्ति । अस्य कोऽपि विकारः न भवति । अस्य आत्मनः एतादृशं स्वरूपं ज्ञात्वा त्वं दुःखम् अनुभवितुं नार्हसि ।

भावार्थः [१][सम्पादयतु]

'अव्यक्तोऽयम्' – यथा शरीरं, संसारः इत्यादयः स्थूलरूपेण दरीदृश्यन्ते, तथा एषः आत्मान स्थूलरूपेण न दृश्यते । किञ्च सः स्थूलदृष्टिरहितः । 'अचिन्त्योऽयम्' – मनोबुद्ध्यायः अपि दर्शनपराः एव, परन्तु चिन्तनीयाः । किन्तु सः देही तु चिन्तयविषयः एव नास्ति । किञ्च सूक्ष्मदृष्टिरहितः सः । 'अविकार्योऽयमुच्यते' – एषः देही विकाररिहतः उच्यते । किञ्च तस्मिन् किञ्चिन्मात्रमपि परिवर्तनं न भवति । सर्वेषां कारणं प्रकृतिः अस्ति । तस्यां कारणभूतायां प्रकृतौ अपि विकृतिः अस्ति । परन्तु देहिनि तु न कापि विकृतिः शक्यते । किञ्च स कारणसृष्टिरहितः ।

अत्र चतुर्विंश-पश्चविंश-षट्विंशेषु श्लोकेषु अच्छेद्यः, अदाह्यः, अक्लेद्यः, अशोष्यः, अचलः, अव्यक्तः, अचिन्त्यः, अविकार्यः इति अष्टैः विशेषणैः देहिनः निषेधात्मकं वर्णनम् अस्ति । तथा च नित्यः, सर्वगतः, स्थाणुः, सनातनः इत्येतैः चतुर्भिः विशेषणैः सकारात्मकं वर्णनं प्राप्यते । परन्तु वास्तव्येन एतादृशं वर्णनम् अपि असम्भवम् । तस्य आत्मनः वाणीविषयाभात् । येन वाण्यादयः प्रकाशिताः भवन्ति, तेन देही कथं प्रकाशितः भवेत् ? अतः एतस्य देहिनः अनुभवः एव तस्य वास्तविकं वर्णनम् उच्यते । 'तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि' – अतः देहिनः विषये अच्छेद्यादि अङ्गीकृत्य तथा अनुभव, ततः शोकः न जायते ।

शाङ्करभाष्यम् [२][सम्पादयतु]

किंच अव्यक्तोऽयमिति । अव्यक्तः सर्वकरणाविषयत्वान्न व्यज्यते इत्यव्यक्तोऽयमात्मा । अतएवाचिन्त्योऽयं, यद्धीन्द्रियगोचरं वस्तु तच्चिन्ताविषयत्वमापद्यतेऽयंत्वात्मानिन्द्रियगोचरत्वादचिन्त्योऽतएवाविकार्यः। यथा क्षीरं दध्यातञ्चनादिना विकारि न तथायमात्मा । निरवयवत्वाच्चाविक्रियः, नहि निरवयवं किंचिद्विक्रियात्मकंदृष्टम् । अविक्रियत्वादविकार्योऽयमात्मोच्यते । तस्मादेवं यथोक्तप्रकारेणैनमात्मानं विदित्वा त्वं नानुशोचितुमर्हसि हन्ताहमेषां मयैते हन्यन्ते इति ।।25।।

भाष्यार्थः[सम्पादयतु]

सः आत्मा बुद्ध्यादीनां करणानां विषयः नास्ति । अतः अव्यक्तः । एवं सः अचिन्त्यः अपि । किञ्च यस्य पदार्थस्य इन्द्रियगोचरत्वं भवति, सः एव चिन्तनविषयः अपि । परन्तु आत्मनः इन्द्रियगोचरत्वाभावाद् अचिन्त्यत्वम् । सः आत्मा अविकारी अस्ति । अर्थाद्, दध्यादीनां सह सम्पर्केण दुग्धे विकारः भवति, तथा आत्मनि न शक्यते । सः आत्मा अवयवरहितः (निराकारः) अपि । तस्माद् कारणाद् अपि सः अविकारी । यतो हि अवयवरहितस्य पदार्थस्य विकारः शक्यते । अतः विकाररहितत्वात् आत्मा अविकारी उच्यते । उपर्युक्तम् आत्मविषये ज्ञात्वा त्वया शोकः न करणीयः । 'अहं हन्ता', 'अहं घातकी' इत्यादि सर्वं मिथ्या अस्ति ।

रामानुजभाष्यम्[सम्पादयतु]

छेदनादियोग्यानि वस्तूनि यैं प्रमाणैर्व्यज्यन्ते, तैरयमात्मा न व्यज्यत इत्यव्यक्तम् । अतश्छेद्यादिविजातीयम् । अचिन्त्यश्च सर्ववस्तुविजातीयत्वेन तत्तत्स्वभावयुक्ततया चिन्तयितुमपि नार्हम् । अतश्चाविकार्यं विकारानर्हम् । तस्मादुक्तलक्षणमेनमात्मानं विदित्वा तत्कृते नानुशोचितुमर्हसि ॥२.२५॥

भाष्यार्थः[सम्पादयतु]

छेदनादियोग्यानि वस्तूनि यैः प्रमाणैः व्यक्तानि भवन्ति, तेभ्यः प्रमाणेभ्यः एषः आत्मा व्यक्तः न भवति, अतः आत्मा अव्यक्तः अस्ति । एवं येषां वस्तूनां छेदनादिकार्यं शक्यं, तेभ्यः पदार्थेभ्यः एषः आत्मा विजातीयः अस्ति अर्थाद् सर्वथा भिन्नः अस्ति इति । सर्वेभ्यः वस्तुभ्यः विजातीयत्वाद् तेषां वस्तूनां स्वभावः तस्मिन् आत्मनि आरोप्य तस्य आत्मनः चिन्तनम् अपि असम्भवम् अस्ति । अतः सः अचिन्त्यः, अविकारी च अस्ति । आत्मनः उक्तानि लक्षणानि ज्ञात्वा, त्वया तस्य आत्मनः कृते शोकः न करणीयः ।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
अच्छेद्योऽयमदाह्योऽयम्...
अव्यक्तोऽयमचिन्त्योऽयम्... अग्रिमः
अथ चैनं नित्यजातं...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनाय[सम्पादयतु]