जातस्य हि ध्रुवो मृत्युः...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.२७ जातस्य हि धृवो… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
जातस्य हि ध्रुवो मृत्युः...


शोकः अनुचितः
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/२७
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः अथ चैनं नित्यजातं...
अग्रिमश्लोकः अव्यक्तादीनि भूतानि...

जातस्य हि ध्रुवो मृत्युः () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः जन्ममृत्य्वोः अपरिहार्यातायां सत्यां शोकः अनुचितः इति बोधयति । पूर्वस्मिन् श्लोके भगवान् अर्जुनम् उक्तवान् यद्, त्वम् आत्मानं जन्ममरणयुक्तं पश्यसि चेदपि शोकः अयोग्यः इति । अत्र भगवान् तमेव विषयं जन्ममृत्य्वोः अपिहार्तायाः सिद्धान्तेन सह योजयित्वा बोधयति । सः कथयति यद्, किञ्च प्राप्तजन्मनः मृत्युः, मृतस्य च जन्म इति तु अपरिहार्यम् अस्ति । अतः एतस्मिन् विषये शोकः अयोग्यः एव इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ॥ २७ ॥

पदच्छेदः[सम्पादयतु]

जातस्य, हि, ध्रुवः, मृत्युः, ध्रुवम्, जन्म, मृतस्य च । तस्मात्, अपरिहार्ये, अर्थे, न, त्वम्, शोचितुम्, अर्हसि ॥

अन्वयः[सम्पादयतु]

जातस्य हि मृत्युः ध्रुवः । मृतस्य च जन्म ध्रुवम् । तस्मात् अपरिहार्ये अर्थे त्वं शोचितुं न अर्हसि ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
जातस्य अ.पुं.ष.एक. उत्पन्नस्य
हि अव्ययम्
मृत्युः उ.पुं.ष.एक. मरणम्
ध्रुवः अ.पुं.ष.एक. निश्चितम्
मृतस्य अ.पुं.ष.एक. नष्टस्य
अव्ययम्
जन्म जन्मन्-न.नपुं.प्र.एक. उत्पत्तिः
ध्रुवम् अ.नपुं.प्र.एक. निश्चिता
तस्मात् तद्-द.सर्व.पुं.पं.एक. ततः
अपरिहार्ये अ.पुं.स.एक. परिहर्तुम् अयोग्ये
अर्थे अ.पुं.स.एक. विषये
त्वम् युष्मद्-द.सर्व.पं.एक. त्वम्
शोचितुम् तुमुन्नान्तम् अव्ययम् दुःखितुम्
अव्ययम्
अर्हसि √अर्ह पूजायाम्-पर.कर्तरि, लट्.मपु.एक. योग्यः भवसि ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. ध्रुवो मृत्युः = ध्रुवः + मृत्युः – विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः
  2. मृत्युर्ध्रुवम् = मृत्युः + ध्रुवम् – विसर्गसन्धिः (रेफः)
  3. तस्मादपरिहार्ये = तस्मात् + अपरिहार्ये – जश्त्वसन्धिः
  4. अपरिहार्येऽर्थे = अपरिहार्ये + अर्थे – पूर्वरूपसन्धिः

समासः[सम्पादयतु]

  1. अपरिहार्ये = न परिहार्यः, तस्मिन् – नञ्तत्पुरुषः ।

कृदन्तः[सम्पादयतु]

  1. परिहार्ये = परि + हृ + ण्यत् (कर्मणि) तस्मिन्

अर्थः[सम्पादयतु]

यः जायते तस्य मरणं निश्चितम् । एवं यः म्रियते तस्यापि पुनः जन्म निश्चितम् । एवं सति अस्मिन् विषये त्वं शोचितुं नार्हसि ।

भावार्थः [१][सम्पादयतु]

'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च' – भगवान् कथयति यद्, पूर्वस्मिन् श्लोके यथा मया नित्यः आत्मा उक्तः, तथा त्वं स्वीकर्तुं नेच्छसि, तथापि शोकविषयः न भवति । यतः यस्य जन्म भवति, तस्य मृत्युः अवश्यं भवति । यस्य मृत्युः भविष्यति, तस्य जन्म च अवश्यं भविष्यति ।

'तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि' – अतः न कस्यापि जन्ममृत्य्वोः प्रवाहे परिहारः शक्यः । किञ्च तत्र किञ्चिदपि ईप्सितं न भवति । जन्ममृत्य्वोः प्रवाहस्तु अनादिकालेभ्यः प्रचलति, अनन्तकालं यावच्च चलिष्यति । अतः तव शोकस्य औचित्यम् एव नास्ति । एते धार्तराष्ट्राः जन्म प्राप्तवन्तः, अतः निश्चयेन मरिष्यन्ति । तव पार्श्वे तेषां रक्षायाः कोऽपि उपयः नास्ति । ये मरिष्यन्ति, ते निश्चयेन जनिष्यन्ते । तेषां जन्म अपि त्वं स्थगयितुं न शक्ष्यसि । तर्हि शोकः कीदृशः ? सर्वे जानन्ति यद्, सूर्योदयः जातश्चेत्, सूर्यास्तोऽपि भविष्यतीति । अतः सूर्यास्ते सति मनुष्याः शोकं न कुर्वन्ति । तथैव हे अर्जुन ! यदि त्वं भीष्मादीनां शरीरे नष्टे तेषां नाशं मन्यसे, तर्हि ते शरीरेण सह जनिष्यन्ते अपि । अतः एतस्य सिद्धान्तस्यानुसारमपि शोकस्य अवस्थितिरेव नास्ति ।

षड्विंशसप्तविंशयोः श्लोकयोः उक्तः सिद्धान्तः (शरीरिशरीरयोः ऐक्यस्य सिद्धान्तः) भगवतः वास्तविकसिद्धान्तः नास्ति । अत एव भगवान् अत्र 'अथ च' इत्यनेन तस्य सिद्धान्तस्य पक्षान्तरत्वं बोधयति । अत्र भगवान् स्पष्टयति यद् एतादृशः न कोऽपि सिद्धान्तः वर्तते । तथापि यदि त्वम् एवं मन्यसे, तर्ह्यपि शोकः अयोग्यः इति । एतस्य, अग्रिमस्य च श्लोकस्य तात्पर्यं भवति यद्, संसारस्य सर्वाणि वस्तूनि प्रतिक्षणं परिवर्तनशीलानि सन्ति । तानि प्रप्रथमं स्वरूपं त्यक्तवा स्वरूपान्तरं प्राप्नुवन्ति । स्वरूपपरिवर्तनप्रक्रियायां तेषां जन्ममृत्य्वोः प्रवाहः प्रत्यक्षः भवति । एकस्माद् रूपाद् अपरस्मिन् रूपे परिवर्तनं पूर्वस्माद् रूपत्वेन मृत्युः नवीनरूपत्वेन जन्म च । एषा जन्ममृत्य्वोः प्रक्रिया तु निरन्तरं भवति । अतः शोके कृते को वा लाभः ? इति ।


शाङ्करभाष्यम् [२][सम्पादयतु]

तथा च सति -

जातस्य हि लब्धजन्मनः ध्रुवः अव्यभिचारी मृत्युः मरणं ध्रुवं जन्म मृतस्य च। तस्मादपरिहार्योऽयं जन्ममरणलक्षणोऽर्थः। तस्मिन्नपरिहार्येऽर्थे न त्वं शोचितुमर्हसि।।

भाष्यार्थः[सम्पादयतु]

एवम् अस्ति अतः –

यः जन्म प्राप्तवान्, तस्य मृत्युः अपि ध्रुवः अस्ति । यः मरिष्यते, तस्यापि जन्म ध्रुवम् अस्ति । अतः तद् जन्ममृत्य्वोः चक्रम् अपरिहारम् अस्ति । अर्थात् तस्य जन्ममृत्य्वोः चक्रस्य प्रतिकारः न केनापि शक्यः । एवं तस्य अपरिहार्यविषयस्य कृते त्वया शोकः न करणीयः ।

रामानुजभाष्यम्[सम्पादयतु]

उत्पन्नस्य विनाशो  ध्रुवः  अवर्जनीय उपलभ्यते। तथा विनष्टस्य अपि  जन्म  अवर्जनीयम्।

कथम् इदम् उपलभ्यते विनष्टस्य उत्पत्तिः इति।

सत एव उत्पत्त्युपलब्धेः असतः च अनुपलब्धेः। उत्पत्तिविनाशादयः सतो द्रव्यस्य अवस्थाविशेषाः। तन्तुप्रभृतीनि द्रव्याणि सन्ति एव रचनाविशेषयुक्तानि पटादीनि उच्यन्ते।

असत्कार्यवादिना अपि एतावद् एव उपलभ्यते। न हि तत्र तन्तुसंस्थानविशेषातिरेकेण द्रव्यान्तरं प्रतीयते।

कारकव्यापारनामान्तरभजनव्यवहारविशेषाणाम् एतावता एव उपपत्तेः न च द्रव्यान्तरकल्पना युक्ता। अत उत्पत्तिविनाशादयः सतो द्रव्यस्य अवस्थाविशेषाः।

उत्पत्त्याख्याम् अवस्थाम् उपयातस्य द्रव्यस्य तद्विरोध्यवस्थान्तरप्राप्तिः विनाश इति उच्यते।

मृद्द्रव्यस्य पिण्डत्वघटत्वकपालत्वचूर्णत्वादिवत् परिणामिद्रव्यस्य परिणामपरम्परा अवर्जनीया। तत्र पूर्वावस्थस्य द्रव्यस्य उत्तरावस्थाप्राप्तिः विनाशः सा एव तदवस्थस्य उत्पत्तिः। एवम् उत्पत्तिविनाशाख्यपरिणामपरम्परा परिणामिनो द्रव्यस्य अपरिहार्या इति    तत्र  शोचितुम् अर्हसि।

भाष्यार्थः[सम्पादयतु]

उत्पन्नवस्तोः विनाशः अनिवार्यः दरीदृश्यते । तथैव नष्टवस्तोः जन्म अपि अनिवार्यः अस्ति ।

प्र. – नष्टवस्तोः उत्पत्तिः अनिवार्या अस्ति इति कथं सिद्ध्यति ?

उ. – सतः एव उत्पत्तिः दृश्यते, न तु असतः । उत्पत्तिविनाशौ सतः अवस्थाविशेषौ एव । तन्त्वादिद्रव्याणि सतः अवस्थितौ एव पटादिनाम्ना उच्यते । असत्कार्यवादिनः अपि तु एतदेव अङ्गीकुर्वन्ति, यतो हि वस्त्रादिषु सूत्राणां विशेषावस्थायाः अतिरिक्तं किमपि द्रव्यं न दृश्यते । एवं स्वीकरणे सत्येव कर्तुः व्यापारस्य, वस्तोः नामान्तरप्राप्तेः, व्यवहारभेदस्य च साफल्यं सिद्ध्यति । अत एव द्रव्यान्तरस्य कल्पना अनुचिता एव । अतः सिद्ध्यति यद्, उत्पत्तिविनाशादयः सद्द्रव्यस्य एव अवस्थाविशेषः अस्ति इति ।

उत्पत्तिनामिकाम् अवस्थां प्राप्तस्य द्रव्यस्य विरुद्धावस्थाप्राप्तिः एव विनाशः उच्यते । मृत्तिकारूपिणः द्रव्यस्य पिण्डत्वं, घटत्वं, कपालत्वं, चूर्णत्वं यथा अवस्थाविशेषः एव, तथैव प्रत्येकपरिणामिनः द्रव्यस्य परिणामपरम्परा अनिवार्या अस्ति । तत्र केलवं पूर्वास्थायां स्थितस्य द्रवस्य अपरावस्थाप्राप्तिः एव नाशः अस्ति, सा एव तस्य द्रव्यस्य अपरावस्थायाम् उत्पत्तिः अस्ति । एवं परिवर्तनशीलद्रव्याणाम् एषः उत्पत्ति-विनाश-रूपः परिणामः अनिवार्यः अस्ति । अतः तेषां विषये त्वया शोकः न करणीयः ।


श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
अथ चैनं नित्यजातं...
जातस्य हि ध्रुवो मृत्युः... अग्रिमः
अव्यक्तादीनि भूतानि...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6

अधिकवाचनाय[सम्पादयतु]