अव्यक्तादीनि भूतानि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.२८ अव्यक्तादीनि… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
अव्यक्तादीनि भूतानि...


शोकस्य अयोग्यत्वम्
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/२८
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः जातस्य हि ध्रुवो मृत्युः...
अग्रिमश्लोकः आश्चर्यवत्पश्यति...

अव्यक्तादीनि भूतानि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः आत्मनित्यसिद्धान्तस्य, आत्मानित्यसिद्धान्तस्य च मध्यस्थितिं वर्णयति । पूर्वयोः श्लोकयोः भगवता शरीरिशरीरयोः एकत्वे स्वीकृतेऽपि शोकः न करणीयः इति उक्तम् । तयोः श्लोकयोः पूर्वम् आत्मनः नित्यत्वं प्रतिपादितम् । अधुना तयोः उभयोः स्थित्योः मध्ये या अप्रत्यक्षा स्थितिः अस्ति, तस्याः स्थित्याः आधारेण शोकस्य अयोग्यत्वं सिद्धयति । सः कथयति, हे भारत ! सर्वे प्राणिनः जन्मनः पूर्वम् अप्रकटिताः आसन्, मृत्यूत्तरं च पुनः अप्रकटिताः भविष्यन्ति । केवलं मध्ये एव ते प्रकटिताः प्रतीयन्ते । अतः तेभ्यः शोकस्य किं कारणम् ? इति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत ।
अव्यक्तनिधनान्येव तत्र का परिदेवना ॥ २८ ॥

पदच्छेदः[सम्पादयतु]

अव्यक्तादीनि, भूतानि, व्यक्तमध्यानि, भारत । अव्यक्तनिधनानि, एव, तत्र, का, परिदेवना ॥

अन्वयः[सम्पादयतु]

भारत ! भूतानि अव्यक्तादीनि व्यक्तमध्यानि अव्यक्तनिधनानि एव । तत्र का परिदेवना ?

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
भारत अ.पुं.सम्बो.एक. अर्जुन !
भूतानि अ.नपुं.प्र.बहु. प्राणिनः
अव्यक्तादीनि इ.नपुं.प्र.बहु. अस्फुटमूलाः
व्यक्तमध्यानि अ.नपुं.प्र.बहु. स्फुटमध्याः
अव्यक्तनिधनानि अ.नपुं.प्र.बहु. अस्फुटान्ताः
एव अव्ययम् एव
तत्र अव्ययम् तस्मिन्
का किम्-म.सर्व.स्त्री.प्र.एक. किं वा
परिदेवना आ.स्त्री.प्र.एक. आक्रन्दनम् ?

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. अव्यक्तनिधनान्येव = अव्यक्तनिधनानि + एव - यण्सन्धिः

समासः[सम्पादयतु]

  1. अव्यक्तादीनि = अव्यक्तः आदिः येषां तानि – बहुव्रीहिः ।
  2. अव्यक्तनिधनानि = अव्यक्तं निधनं येषां तानि – बहुव्रीहिः ।

कृदन्तः[सम्पादयतु]

  1. परिदेवना = परि + दिव् + णिच् + युच् (भावे)

अर्थः[सम्पादयतु]

भूतानाम् आदिः अव्यक्तः वर्तते । अन्तः अपि अव्यक्तः वर्तते । इह लोके अनुभवगोचराणि भवन्ति इति हेतोः मध्यमात्रं तु व्यक्तं दृश्यते । एवं सति तादृशेषु भूतेषु आक्रन्दनेन किं प्रयोजनम् ?

भावार्थः [१][सम्पादयतु]

'अव्यक्तादीनि भूतानि' – दृश्याः, श्रव्याः, बोध्याः येऽपि प्राणिनः सन्ति, ते जन्मनः प्राग् अप्रत्यक्षाः आसन् अर्थात् ते अदृश्याः आसन् ।

'अव्यक्तनिधान्येव' – निधनोत्तरं ते प्राणिनः पुनः अप्रत्यक्षाः भवन्ति । अर्थात् तेषां नाशे सति, ते सर्वे अप्रत्यक्षाः भविष्यन्ति ।

'व्यक्तमध्यानि' – ते प्राणिनः मध्यस्थितौ अर्थात् जन्मोत्तरं, मृत्योः प्राक् प्रत्यक्षाः भवन्ति । यथा शयनाद् प्राग् स्वप्नः नासीत्, जागरणोत्तरं स्वप्नो भवति, तथैव पुरा प्राणिनां शरीराणाम् अभावः आसीत्, पश्चाच्च भविष्यति । परन्तु मध्ये भावरूपे दृश्यमाने सत्यपि वस्तुतः तेषां प्रतिक्षणम् अभावो वर्तते ।

'तत्र का परिदेवना' – यद् आद्यन्तयोः न भवति, तद् मध्येऽपि न भवति इति कश्चन सिद्धान्तः [२] । सर्वेषां प्राणिनां शरीराणि पूर्वं नासन्, पश्चाच्च न स्थास्यन्ति । अतः वस्तुतः मध्येऽपि तानि न सन्ति । परन्तु शरीरी तु पूर्वम् अपि आसीत्, पश्चाद् अपि स्थास्यति । निष्कर्षोऽस्ति यत्, शरीरस्य सर्वदा अभावः अस्ति, परन्तु शरीरिणः सर्वदा भावः । अतः उभयोः स्थित्योः शोकस्य अवसरः नोद्भवति ।

शाङ्करभाष्यम् [३][सम्पादयतु]

कार्यकरणसंघातात्मकान्यपि भूतान्युद्दिश्य शोको न युक्तः कर्तुम् यतः -

अव्यक्तादीनि अव्यक्तम् अदर्शनम् अनुपलब्धिः आदिः येषां भूतानां पुत्रमित्रादिकार्यकरणसंघातात्मकानां तानि अव्यक्तादीनि भूतानि प्रागुत्पत्तेः उत्पन्नानि च प्राङ्मरणात् व्यक्तमध्यानि। अव्यक्तनिधनान्येव पुनः अव्यक्तम् अदर्शनं निधनं मरणं येषां तानि अव्यक्तनिधनानि। मरणादूर्ध्वमप्यव्यक्ततामेव प्रतिपद्यन्ते इत्यर्थः। तथा चोक्तम् अदर्शनादापतितः पुनश्चादर्शनं गतः। नासौ तव न तस्य त्वं वृथा का परिदेवना इति। तत्र का परिदेवना को वा प्रलापः अदृष्टदृष्टप्रनष्टभ्रान्तिभूतेषु भूतेष्वित्यर्थः।।

भाष्यार्थः[सम्पादयतु]

प्राणिनः कार्य-कारण-युक्ताः इत्येव मन्यामहे चेद्, तेषाम् कृतेऽपि शोकः उचितः नास्ति, किञ्च –

प्रारम्भे ये अव्यक्ताः अर्थाद् अनुपलब्धाः आसन्, तादृशाः एते कार्यकारणयोः सङ्घातत्वाद् पुत्र-मित्रादयः भूताः अव्यक्ताः एव । अर्थाद् जन्मनः पूर्वम् अदृश्याः आसन् । ततः उत्पन्नः भूत्वा मरणात् प्राग् मध्यस्थित्यां सः व्यक्तः भवति अर्थाद् दृश्यमानः भवति । ततः अदृश्यता एव येषां निधनम् अस्ति, तादृशाः अव्यक्तनिधनाः भविष्यन्ति ते । अर्थाद् अदृश्याः भविष्यन्ति इत्यर्थः । एवमेव उक्तम् अस्ति यद्, एषः भूतसङ्घातः अदृश्याद् आगतः पुनः अदृश्ये विलीनः भविष्यति च । सः न तवास्ति, न त्वं तस्य । अतः त्वं व्यर्थमेव शोकं किमर्थं करोषि ? [४] इति ।

ये अभूत्वापि दृश्यमानाः सन्ति, ततश्च नश्यमानाः सन्ति (नष्टाः भविष्यन्ति), तेषां भ्रान्तिरूपभूतानां विषये चिन्ता कीदृशी ? तेभ्यः रोदनं, शोकः इत्यादि कमर्थम् ?

रामानुजभाष्यम्[सम्पादयतु]

सतो द्रव्यस्य पूर्वावस्थाविरोध्यवस्थान्तरप्राप्तिदर्शनेन यः अल्पीयान् शोकः सोऽपि मनुष्यादिभूतेषु न संभवति इत्याह -

मनुष्यादि भूतानि सन्ति एव द्रव्याणि अनुपलब्धपूर्वावस्थानि उपलब्धमनुष्यत्वादिमध्यमावस्थानि अनुपलब्धोत्तरावस्थानि स्वेषु स्वभावेषु वर्तन्ते इति न तत्र  परिदेवना निमित्तिम् अस्ति।

भाष्यार्थः[सम्पादयतु]

सद्वस्तुनः पूर्वावस्थाविरोधिन्यः अपरावस्थायाः प्राप्तिं दृष्ट्वा किञ्चिद् शोकः सामान्यः । सः शोकः मनुष्यादिषु प्राणिषु असम्भवः इति कथयति –

एते मनुष्यादयः प्राणिनः तादृशानि सद्द्रव्याणि एव । येषां पूर्वास्था अर्थात् जन्मनः पूर्वावस्था अनुपलब्धा (अप्रत्यक्षा) आसीत् । ततः उत्तरावस्था अर्थात्, मृत्यूत्तरीया अवस्था अपि अनुपलब्धा भवष्यति । केवलं मनुष्यादि मध्यावस्था अर्थाद् वर्तमानकालिना अवस्था एव प्रत्याक्षा अस्ति । तानि द्रव्याणि स्वस्य स्वभावानुगुणम् एव व्यवहरन्ति, अतः तेभ्यः अपि शोकस्य किमपि कारणं नास्ति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
जातस्य हि ध्रुवो मृत्युः...
अव्यक्तादीनि भूतानि... अग्रिमः
आश्चर्यवत्पश्यति...
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा, माण्डूक्यकारिका, ४/३१
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  4. अदर्शनादापतितः पुनश्चादर्शनं गतः ।
    नासौ तव न तस्य त्वं वृथा का परिदेवना ।। महाभारतम्, स्त्रीपर्व, २/१३

अधिकवाचनाय[सम्पादयतु]