योगस्थः कुरु कर्माणि...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.४८ योगस्थः कुरु … इत्यस्मात् पुनर्निर्दिष्टम्)
योगस्थः कुरु कर्माणि...


समत्वस्य स्वरूपवर्णनम्
श्लोकसङ्ख्या २/४८
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः कर्मण्येवाधिकारस्ते
अग्रिमश्लोकः दूरेण ह्यवरं कर्म

योगस्थः कुरु कर्माणि () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः योगपरिभाषात्वेन समत्वस्य उपदेशं ददाति । पूर्वस्मिन् श्लोके कर्म कर्तुम् आज्ञां दत्त्वा अत्र सः कर्म कुर्वन् समत्वेन कथं भवितव्यम् इति कथयति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय ।
सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ॥ ४८ ॥

पदच्छेदः[सम्पादयतु]

योगस्थः, कुरु, कर्माणि, सङ्गं, त्यक्वा, धनञ्जय । सिद्ध्यसिद्ध्योः, समः, भूत्वा, समत्वम्, योगः, उच्यते ॥

अन्वयः[सम्पादयतु]

धनञ्जय ! सङ्गं त्यक्त्वा सिद्ध्यसिद्ध्योः समः भूत्वा योगस्थः कर्माणि कुरु । समत्वं योगः उच्यते ।

शब्दार्थः[सम्पादयतु]

अन्वयः

विवरणम्

सरलसंस्कृतम्

धनञ्जय

अ.पु.द्वि.एक.

अर्जुन!

सङ्गं

अ.पु.द्वि.एक.

अत्यासक्तिम्

त्यक्त्वा

कत्वान्तम् अव्ययम्

परित्यज्य

सिद्ध्यसिद्ध्योः

इ.स्त्री.स.द्विव.

लाभालाभयोः

समः

अ.पुं.प्र.एक.

समानः

भूत्वा

क्त्वान्तम् अव्ययम्

स्थित्वा

योगस्थः

अ.पुं.प्र.एक.

एकाग्रमनस्कः

कर्माणि

कर्मन्-न.नपुं.द्वि.बहु.

क्रियाः

कुरु

√डुकृञ् करणे – पर.कर्तरि, लोट्.मपु.एक.

आचर

समत्वम्

अ.नपुं.प्र.एक.

समानता

योगः

अ.पुं.प्र.एक.

योगः

उच्यते

√वचँ भाषणे-पर.कर्मणि, लट्.प्रपु.एक.

कथ्यते।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

१. समो भूत्वा = समः भूत्वा - विसर्गसन्धिः (सकारः) रेफः, उकारः, गुणः

२. योग उच्यते = योगः + उच्यते - विसर्गसन्धिः (लोपः)

समासः[सम्पादयतु]

सिद्ध्यसिद्ध्योः = सिद्धिश्च असिद्धिश्च, तयोः - द्वन्द्वः ।

कृदन्तः[सम्पादयतु]

१. त्यक्त्वा = त्यज् + क्त्वा ।

२. भूत्वा = भू + क्त्वा ।

तद्धितान्तः[सम्पादयतु]

समत्वम् = सम + त्व (भावे) । समस्य भावः इत्यर्थः ।

अर्थः[सम्पादयतु]

हे अर्जुन ! अत्यासक्तिं परित्यज्य लाभालाभयोः विषये समभावनया चिन्तयन् एकाग्रमनस्कः भूत्वा कर्माणि आचर । लाभालाभयोः विषये समानतया व्यवहारः योगः इति उच्यते ।

भावार्थः [१][सम्पादयतु]

'सङ्गं त्यक्त्वा' – यस्मिन् कस्मिँश्चित् कर्मणि, कर्मफले, स्थले, घटनायां, परिस्थितौ, अन्तःकरणे, बहिःकरणे च त्वं यदा आसक्तो न भवसि, तदा त्वं निर्लिप्ततापूर्वकं कर्म कर्तुं प्रभवसि । यदि त्वं कर्मणि, कर्मफले इत्यादिषु कुत्रापि लिप्तः भविष्यसि, तर्हि निर्लिप्तः कथं भविष्यसि ? तथा च निर्लिप्तः अभूत्वा तानि कर्माणि मुक्तिदायीनि कथं भविष्यन्ति ?

'सिद्ध्यसिद्ध्योः समो भूत्वा' – आसक्तित्यागस्य परिणामः किं भवष्यति ? चेत्, सिद्धौ (सफलतायां), असिद्धौ (असफलतायां) च समतायाः भावः भविष्यति । कर्मणः पूर्णता उत अपूर्णता, सांसारिकदृष्ट्या कर्मणः अनुकूलम् उत प्रतिकूलं फलं, कर्मणा सम्माननम् उत निन्दा, कर्मणः अन्तःकरणस्य शुद्धीभवनम् उत न इत्यादयः याः सिद्धयः, असिद्धयः च सन्ति, तासु समानत्वेन भवितव्यम् । कर्मणः समता अर्थात् निष्कामभावः । किञ्च, कर्मणः पूर्णतायाः उत अपूर्णतायाः, फलप्राप्तेः उत अप्राप्तेः, स्वमुक्तेः उत बन्धनस्य च चिन्तनम् अकृत्वा केवलं कर्तव्यकर्म एव करणीयम् इति ।

यद्यपि साधकः अनासक्तेः अनुभवं न कृतवान्, तस्मिन् समत्वं न भवेत्, तथापि तस्य उद्देश्यः (सङ्कल्पः) असङ्गत्वं (अनासक्ततां) प्राप्तुं तथा च समत्वभावस्य प्राप्तिः एव भवति । एवं यः सङ्कल्पः उद्देश्यत्वेन स्वीक्रियते, स एव अन्ते सिध्यति । अतः साधनरूपिणी समता स्वतः एव सिध्यति [२]

'योगस्थः कुरु कर्माणि' – सिद्धौ, असिद्धौ च समे भूते सति तस्यां समतायां नैरन्तर्येण स्थिरत्वमेव 'योगस्थः' उच्यते । यथा पूजायाः आरम्भे गणेशपूजनं भवति, ततः सम्पूर्णपूजायां गणेशः समीपे न भवति, तथैव कोऽपि चिन्तयेत् यत्, आरम्भे एकवारं सिद्धौ, असिद्धौ च समत्वे साधिते सति, ततः समत्वस्य आवश्यकता नास्ति इति । तद्वारयितुं भगवान् सर्वदा समत्वेन भूत्वा कर्म करणीयम् इति कथयति ।

'समत्वं योग उच्यते' – समता एव योगः अस्ति अर्थात् समता परमात्मनः स्वरूपम् अस्ति । सा समता अन्तःकरणे नैरन्तर्येण भवेत् । भगवता श्रीकृष्णेन योगस्य द्वे परिभाषे उक्ते । "समता एव योगः अस्ति" इत्येषा योगस्य प्रथमा परिभाषा । 'दुःखसंयोगस्य यस्मिन् वियोगः अस्ति, स एव योगः [३] इति अपरा परिभाषा । वस्तुतः उभे परिभाषे समानार्थं वहतः । यथा कण्डूयायाः (itching) रोगे कण्डूयनं सुखदायकं भवति एवञ्च प्रज्वलनं (Inflammation) दुःखदं भवति । परन्तु कण्डूयनत्वात् सर्वं दुःखदमेव भवति । तथैव संसारबन्धनेन उद्भूतं सुखं, दुःखं च वस्तुतः दुःखमेव । एवं संसारात् सम्बन्धविच्छेदः एव 'दुःख-संयोगवियोगः' उच्यते । अतः सुखदुःखयोः रहितत्वं, सिद्ध्यसिद्ध्योः समत्वं च समानार्थकं वाक्यम् । स्थूल-सूक्ष्म-कारण-शरीरैः क्रियमाणाः सर्वाः क्रियाः केलवं संसारस्य सेवायै करणीयाः, स्वस्मै न । एवं कृते सति एव समत्वं सिध्यति ।

शाङ्करभाष्यम् [४][सम्पादयतु]

यदि कर्मफलंप्रयुक्तेन न कर्तव्यं कर्म कथं तर्हि कर्तव्यम् इति उच्यते -

योगस्थः  सन्  कुरु कर्माणि  केवलमीश्वरार्थम् तत्रापि ईश्वरो मे तुष्यतु इति  सङ्गं त्यक्त्वा धनञ्जय।  फलतृष्णाशून्येन क्रियमाणे कर्मणि सत्त्वशुद्धिजा ज्ञानप्राप्तिलक्षणा सिद्धिः तद्विपर्ययजा असिद्धिः तयोः  सिद्ध्यसिद्ध्योः  अपि  समः  तुल्यः  भूत्वा  कुरु कर्माणि। कोऽसौ योगः यत्रस्थः कुरु इति उक्तम् इदमेव तत् सिद्ध्यसिद्ध्योः  समत्वं योगः उच्यते।।

भाष्यार्थः[सम्पादयतु]

यदि कर्मफलात् प्रेरितः सन् कर्म न करणीयं, तर्हि कथं करणीयं ? इति कथयति -

हे धनञ्जय ! योगे तिष्ठन् केवलम् ईश्वराय कर्म कुरु । तत्रापि 'ईश्वरः मयि प्रसन्नो भवतु' इत्यासक्त्याः अपि त्यागं कुरु । फलतृष्णारहितेन पुरुषेण कर्मणि कृते सति अन्तःकरणस्य शुद्धेः ज्ञानस्य प्राप्तिः भवेत्, तद्विपरीतम् अपि भवेत् अर्थात् ज्ञानस्य प्राप्तिः न भवेदिति । ज्ञानस्य प्राप्तिः सिद्धिरुच्यते, ज्ञानस्य अप्राप्तिः असिद्धिः । त्वम् एतादृशयोः सिद्ध्यसिद्ध्योः समत्वं साधयित्वा कर्म कुरु अर्थात् उभे समाने स्तः इति भावः साधनीयः । कश्च सः योगः ? यस्मिन् स्थित्वा कर्म कर्तुम् उक्तम् अस्ति ? सिद्धौ, असिद्धौ च यः समत्वभावः अस्ति, स एव योगः उच्यते ।। ४८ ।।

रामानुजभाष्यम् [५][सम्पादयतु]

एतद् एव स्पष्टीकरोति -

राज्यबन्धुप्रभृतिषु  सङ्गं त्यक्त्वा  युद्धादीनि  कर्माणि योगस्थः कुरु।  तदन्तर्भूतविजयादि सिद्ध्यसिद्ध्योः समो भूत्वा  कुरु। तद् इदं सिद्ध्यसिद्ध्योः समत्वम्  योगस्थ इत्यत्र योगशब्देन  उच्यते। योगः  सिद्ध्यसिद्ध्योः समत्वरूपं चित्तसमाधानम्।

भाष्यार्थः[सम्पादयतु]

एतद् पुनः स्पष्टयति –

राज्यबन्ध्वादिषु आसक्तेः त्यागं कृत्वा त्वं योगे स्थित्वा युद्धादिकर्माणि कुरु । तेषु कर्मसु प्राप्यमाणानां विजयादीनां सिद्ध्यसिद्ध्ययोः समो भूत्वा कर्म कुरु । सिद्ध्यसिद्ध्यो यद् समत्वम् अस्ति, तदेव 'योगस्थ' इत्यस्य शब्दस्य अन्तर्गततया 'योगः' इत्यनेन शब्देन उक्तम् । सिद्ध्यसिद्ध्योः समत्वरूपं चित्तसमाधानम् एव योगः ।

मर्मः[सम्पादयतु]

बुद्धिः द्विविधा उच्यते । अव्यवसायात्मिका, व्यवसायात्मिका चेति । यस्यां भोगः, आरामः, प्रशंसा, सम्माननम् इत्यादीनां सांसारिकसुखानां प्राप्तिः ध्येयत्वेन भवति, सा बुद्धिः 'अव्यवसायात्मिका' उच्यते [६] । यस्यां समतायाः प्राप्त्यै, स्वकल्याणस्य च उद्देशः भवति, सा बुद्धिः 'व्यवसायात्मिका' उच्यते [७] । अव्यवसायात्मिका बुद्धिः अनन्ताः भवन्ति । व्यवसायात्मिका बुद्धिः एका एव भवति । यस्य बुद्धिः अव्यवसायात्मिका भवति, सः संसारी भवति [७] । यस्य बुद्धिः व्यवसायात्मिका भवति, सः साधकः उच्यते [८]

समरूपता अपि द्विविधा उक्ता । साधनत्वेन समता, साध्यत्वेन समता च । साधनत्वेन समता अन्तःकरणस्य भवति । साध्यत्वेन समता परमात्मस्वरूपस्य भवति । सिद्धिः, असिद्धिः, अनुकूलता, प्रतिकूलता इत्यादिषु समत्वम् अर्थात् अन्तःकरणे रागद्वेषयोः अभावः । तत् साधनत्वेन समत्वम् उच्यते । तस्य वर्णनं गीतायाम् आधिक्येन प्राप्यते । तस्मात् साधनरूपिणः समत्वात् यस्याः स्वतःसिद्धिसमतायाः प्राप्तिः भवति, सा साध्यरूपिणी समता (तत् साध्यत्वेन समत्वम्) उच्यते । साधनसमत्वस्य वर्णनम् एतद्द्वितीयस्य अध्यायस्य त्रिपञ्चाशत्तमे श्लोके अस्ति [९]

अनेन ज्ञायते यत्, कश्चन संसारी भवति, अपरः साधकः । एकं साधनं भवति, एकं साध्यं च । भोग-सङ्ग्रहौ यस्य उद्देशः भवति, सः संसारी । तस्य अव्यवसायात्मिका बुद्धिः भवति, या कामनायाः अनन्तशाखायुक्ता भवति । यः समतायाः प्राप्तिं कर्तुम् इच्छति, तस्य बुद्धिः व्यवसायात्मिका भवति । एतादृशः साधकः यदा व्यवहारक्षेत्रे भवति, तदा तं पुरतः सिद्धिः, असिद्धिः, लाभः, हानिः, अनुकूलता, प्रतिकूलता इत्यादयः परिस्थितयः समुद्भवन्ति । परन्तु तासु परिस्थितिषु रागद्वेषम् अकृत्वा सः समत्वे तिष्ठति । एतेन साधनसमत्वेन सः संसारात् परः भवति [१०] । साधनसमत्वेन स्वतःसिद्धिसमतायाः (परमात्मनः) प्राप्तिः भवति [११]


श्रीमद्भगवद्गीतायाः श्लोकाः
पूर्वतनः
कर्मण्येवाधिकारस्ते
योगस्थः कुरु कर्माणि... अग्रिमः
दूरेण ह्यवरं कर्म
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. तदा योगमवाप्स्यसि, अ. २, श्लो. ५३
  3. अध्यायः – ६, श्लो. २३
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  5. रामानुजभाष्यम्
  6. गीता, अ. २, श्लो. ४४
  7. ७.० ७.१ बुद्ध्योऽव्यवसायिनाम्, गीता, अ. २, श्लो. ४१
  8. व्यवसितो हि सः, गीता, अ. ९, श्लो. ३०
  9. तदा योगमवाप्स्यसि, गीता, अ. २, श्लो. ५३
  10. इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः, गीता, अ. ५, श्लो. ११, पूर्वार्धः
  11. निर्दोषं हि समं ब्रह्म तस्माद्- ब्रह्मणि ते स्थिताः, गीता, अ. ५, श्लो. ११ उत्तरार्धः

अधिकवाचनाय[सम्पादयतु]