बुद्धियुक्तो जहातीह...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.५० बुद्धियुक्तो जहाति… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
बुद्धियुक्तो जहातीह...


कर्मयोगानुष्ठानस्य आज्ञा
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/५०
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः दूरेण ह्यवरं कर्म
अग्रिमश्लोकः कर्मजं बुद्धियुक्ता हि

बुद्धियुक्तो जहातीह () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः समत्वस्य फलं वदति । पूर्वस्मिन् श्लोके भगवान् सकामत्वस्य तुच्छतां वर्णयित्वा अत्र समत्वबुद्धियुक्तस्य पुरुषस्य प्रशंसां कुर्वन् अर्जुनाय कर्मयोगस्य अनुष्ठानाय आज्ञां यच्छति । तथा च कर्मबन्धनमुक्तेः उपायं वर्णयति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते ।
तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ॥ ५० ॥

पदच्छेदः[सम्पादयतु]

बुद्धियुक्तः, जहाति, इह, उभे, सुकृतदुष्कृते । तस्मात्, योगाय, युज्यस्व, योगः, कर्मसु, कौशलम् ॥

अन्वयः[सम्पादयतु]

बुद्धियुक्तः सुकृतदुष्कृते उभे इह जहाति । तस्मात् योगाय युज्यस्व । कर्मसु कौशलं योगः उच्यते ।

शब्दार्थः[सम्पादयतु]

अन्वयः

विवरणम्

सरलसंस्कृतम्

बुद्धियुक्तः

अ.पु.प्र.एक.

ज्ञानसम्पन्नः

सुकृतदुष्कृते

अ.नपुं.द्वि.द्विव.

सदसत्कर्मणी

उभे

उभ-अ.सर्व.नपुं.द्वि.द्विव.

द्वे

इह

अव्ययम्

अत्र

जहाति

√ ओँहाक् त्यागे-पर.कर्तरि, लट्.प्रपु.एक.

परित्यजति

तस्मात्

तद्-द. सर्व.नपुं,पं,एक

तदर्थम्

योगाय

अ.पु.च.एक.

कर्मयोगाय

युज्यस्व

√ युजिर् योगे-आत्म.कर्तरि, लोट्.मपु.एक.

सन्नद्धो भव

कर्मसु

न.नुपुं.स.बहु.

क्रियासु

कौशलम्

अ.नुपुं.प्र.एक.

प्रावीण्यम्

योगः

अ.पुं.प्र.एक.

योगः इत्युच्यते

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

१. बुद्धियुक्तो जहाति = बुद्धियुक्तः जहाति - विसर्गसन्धिः (सकारः) रेफः उकारः, गुणः

२. जहातीह = जहाति + इह - सवर्णसन्धिः

३. तस्माद्योगाय = तस्मात् + योगाय - जश्त्वसन्धिः

समासः[सम्पादयतु]

१. बुद्धियुक्तः = बुद्ध्या युक्तः - तृतीयातत्पुरुषः ।

२. सुकृतदुष्कृते = सुकृतं च दुष्कृतं च - द्वन्द्वः ।

कृदन्तः[सम्पादयतु]

युक्तः = युजिर् + क्त (कर्तरि)

तद्धितान्तः[सम्पादयतु]

कौशलम् = कुशल + अण् (भावे)

अर्थः[सम्पादयतु]

हे पार्थः ! ज्ञाानमार्गं समाश्रितः जनः सुकृतं दुष्कृतं चेति द्वयमपि त्यजति । त्वमपि तद् परित्यज । फलम् अनपेक्षमाणः कर्मसु सज्जो भव । कर्मसु कौशलमेव योगः इति उच्यते ।

भावार्थः [१][सम्पादयतु]

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते' – समत्वयुक्तः मनुष्यः जीवितः सन् पुण्यपापयोः त्यागं करोति । अर्थात् सः पुण्यपापाभ्याम् अयुक्तः सन् तयोः रहितः भवति । यथा संसारे पुण्यपापे तु सर्वदा भवतः, परन्तु परमात्मा तयोः अलिप्तः भवति, तथैव समतायां नैरन्तर्येण अवस्थितः पुण्यपापयोः निर्लिप्तः भवति [२] । समता काचिद् विद्या अस्ति, यया मनुष्यः संसारे सत्यपि संसारात् निर्लिप्तः भवितुम् अर्हति । यथा कमलं जलात् उद्भूतं सदपि, जले स्थितं सदपि जलेन सह लिप्तं न भवति, तथैव समतायुक्तः पुरुषः संसारेण सह लिप्तः न भवति । सः पुण्यपापयोः अपि असङ्गः भवति ।

वस्तुतः सः (चेतनस्वरूपः) स्वयं पुण्यपापाभ्यां मुक्तः अस्त्येव । केवलम् असदां पदार्थानां (शरीरादीनां) संसर्गेणैव पुण्यपापयुक्तः भवति । यदि सः असत्पदार्थैः युक्तः न भवति, तर्हि सः आकाशवत् निर्लिप्तः भवति । एवं सः पुण्यपापयोः मुक्तः भविष्यति ।

'तस्माद्योगाय युज्यस्व' – अतः त्वं योगे युक्तः भव । अर्थात् निरन्तरं समतायां स्थिरो भव । वस्तुतः समता एव तव स्वरूपम् अस्ति । अतः त्वं सर्वदा समतायामेव स्थिरः भवसि । केवलं रागद्वेषैः त्वं समतायाः अनुभवं कर्तुं न शक्नोषि । यदि त्वं सर्वदा समतायां स्थिरः भवसि, तर्हि त्वं सुखस्य, दुःखस्य ज्ञाता कथं स्याः ? यतः त्वत् तौ भिन्नौ स्तः । यदा त्वं तयोः ज्ञानं प्राप्नोषि, तदा त्वं सुखदुःखेषु समत्वेन तिष्ठसि । तत् समत्वमेव अनुभव ।

'योगः कर्मसु कौशलम्' – कर्मसु योगः एव कुशलता अस्ति । अर्थात् कर्मणः सिद्धौ, असिद्धौ, फलप्राप्तौ, फलाप्राप्तौ च समत्वम् एव कुशलता अस्ति । उत्पत्तिविनाशशीले कर्मणि योगं विहाय किमपि महत्त्वपूर्णं नास्ति । अत्र भगवान् योगस्य परिभाषां न कथयति, अपि तु योगस्य महत्त्वं दर्शयति । यदि एतस्मात् पदात् 'कर्मणि कुशलता एव योगः अस्ति' इति अर्थः स्वीक्रियते, तर्हि दोषः भवष्यति । यतः कश्चन चोरः कुशलतापूर्वकं ध्यानेन चौर्यं करोति, तत् चौर्यकर्म अपि योगत्वेन अङ्गीकरणीयं भवति । अतः सः अर्थः अनुचितः सिद्ध्यति । कश्चन अपरः विहितकर्माणि कुशलता एव योगः इति अर्थघटनं करोति । परन्तु तथा अर्थे स्वीकृते सति मनुष्यः स्वकर्मणः फले बद्धः भविष्यति । यतो हि सः समत्वे अवस्थितः नासीत् । एवम् अत्र 'कर्णणि योगः एव कुशलता अस्ति' इति अर्थः उचितः ।

अन्यदपि उच्यते यत्, कर्म कुर्वन् अन्तःकरणे समतायाः भावः अवस्थितः अस्ति चेत्, सः कर्मणि, कर्मफले च लिप्तः न भविष्यति । अत एव उत्पत्तिविनाशशीलं कर्म कुर्वन्नपि समत्वेन अवस्थितिः एव कुशलता अस्ति । यतः अग्रिमयोः उभयोः श्लोकयोः, एतस्य श्लोकस्य पूर्वार्धे च योगस्य (समतायाः) प्रसङ्गः अस्ति । कुशलतायाः प्रसङ्गः एव नास्ति । अत एव प्रसङ्गानुसारम् अपि 'कर्मणि योगः एव कुशलता अस्ति' इति अर्थः उचितः सिध्यति ।

शाङ्करभाष्यम् [३][सम्पादयतु]

समत्वबुद्धियुक्तः सन्स्वधर्ममनुतिष्ठन् यत्फलं प्राप्नोति तच्छृणु - बुद्धीति

बुद्धियुक्तः  कर्मसमत्वविषयया बुद्ध्या युक्तः बुद्धियुक्तः सः  जहाति  परित्यजति  इह  अस्मिन् लोके उभे  सुकृतदुष्कृते  पुण्यपापे सत्त्वशुद्धिज्ञानप्राप्तिद्वारेण यतः  तस्मात्  समत्वबुद्धि योगाय युज्यस्व  घटस्व।  योगो  हि  कर्मसु कौशलम्  स्वधर्माख्येषु कर्मसु वर्तमानस्य या सिद्ध्यसिद्ध्योः समत्वबुद्धिः ईश्वरार्पितचेतस्तया तत् कौशलं कुशलभावः। तद्धि कौशलं यत् बन्धनस्वभावान्यपि कर्माणि समत्वबुद्ध्या स्वभावात् निवर्तन्ते। तस्मात्समत्वबुद्धियुक्तो भव त्वम्।।

भाष्यार्थः [४][सम्पादयतु]

समत्वबुद्धेः युक्तः सन् स्वधर्माचरणं कुर्वन् पुरुषः, यत् फलं प्राप्नोति, तत् फलं शृणु –

समत्वयोगविषयकबुद्ध्या युक्तः पुरुषः अन्तःकरणस्य शुद्धतायाः, ज्ञानप्राप्तेः च सत्कर्म, दुष्कर्म च (पुण्यं पापं च) त्यजति । एवं सः एतस्मिन् लोके कर्मबन्धनात् मुक्तः भवति । अतः समबुद्धिरूपिणः योगस्य प्राप्त्यै प्रयत्नं कुरु । यतो हि योगः एव कर्मसु कुशलता अस्ति । अर्थात् स्वधर्मरूपकर्मणि युक्तस्य पुरुषस्य सिद्ध्यसिद्धिविषयकः समत्वभावः अस्ति, यः ईश्वरे समर्पणबुद्ध्याः उत्पन्नः, स एव कुशलताभावः अस्ति । एतस्मिन् एतदेव कौशलम् अस्ति यत्, स्वभावादेव यानि कर्माणि बन्धनयुक्तानि सन्ति, तानि अपि समत्वबुद्धेः प्रभावेण स्वस्वभावं त्यजन्ति । अतः त्वं समत्वबुद्ध्या युक्तः भव ।। ५० ।।

रामानुजभाष्यम् [५][सम्पादयतु]

बुद्धियोगयुक्तः तु कर्म कुर्वाण उभे सुकृतदुष्कृते अनादिकालसञ्चिते अनन्ते बन्धेहेतुभूते जहाति। तस्माद् उक्ताय बुद्धियोगाय युज्यस्व। योगः कर्मसु कौशलं कर्मसु क्रियमाणेषु अयं बुद्धियोगः कौशलम् अतिसामर्थ्यम् अतिसामर्थ्यसाध्यः इत्यर्थः।

भाष्यार्थः[सम्पादयतु]

बुद्धियोगाद् युक्तः सन् कर्मणः कर्ता पुरुषः अनादिकालाद् सञ्चिते, बन्धनहेतुभूते अनन्तपापपुण्ये त्यजति । अतः त्वम् उक्ताय बुद्धियोगाय (बुद्धियोगप्राप्त्यै इत्यर्थः) प्रयतस्व । कर्मणि योगः एव कौशलम् अस्ति । कर्मणाम् आचरणे यः बुद्धियोग एव कौशलम् अस्ति, तस्मिन् बुद्धियोगे एव सामर्थ्यम् अस्ति इत्यर्थः । अभिप्रायः अस्ति यद्, एषः बुद्धियोगः पूर्णबलेन एव सिद्ध्यति इति ।

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
दूरेण ह्यवरं कर्म
बुद्धियुक्तो जहातीह... अग्रिमः
कर्मजं बुद्धियुक्ता हि
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. શ્રીમદ્ભગવદ્ગીતા સાધકસંજીવની,પૃ. 105
  2. गीता, अ. २, श्लो. ३८
  3. शाङ्करभाष्यम्, मूलपाठः
  4. श्रीमद्भगवद्गीता, शाङ्करभाष्यसहितं, गीताप्रेस
  5. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]