यदा ते मोहकलिलं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.५२ यदा ते मोहकलिलम्… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
यदा ते मोहकलिलं...


वैराग्यप्राप्तेः मार्गः
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/५२
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः कर्मजं बुद्धियुक्ता हि
अग्रिमश्लोकः श्रुतिविप्रतिपन्ना ते

यदा ते मोहकलिलं () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः वैराग्यप्राप्त्या बुद्धेः शुद्धिः, स्वच्छता, निश्चलता च भवति इति वदति । पूर्वस्मिन् श्लोके समत्वबुद्धेः अनामयरूपि फलम् उक्त्वा अर्जुनाय विवेकजन्यवैराग्यप्राप्तेः मार्गं वर्णयति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति ।
तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥ ५२ ॥

पदच्छेदः[सम्पादयतु]

यदा, ते, मोहकलिलम्, बुद्धिः, व्यतितरिष्यति । तदा, गन्तासि, निर्वेदम्, श्रोतव्यस्य, श्रुतस्य, च ॥

अन्वयः[सम्पादयतु]

यदा ते बुद्धिः मोहकलिलं व्यतितरिष्यति तदा श्रोतव्यस्य श्रुतस्य च निर्वेदं गन्तासि ।

शब्दार्थः[सम्पादयतु]

अन्वयः

विवरणम्

सरलसंस्कृतम्

यदा

अव्ययम्

यस्मिन्समये

ते

युष्मद्-द.सर्व.ष.एक.

तव

बुद्धिः

इ.स्त्री.प्र.एक.

मतिः

मोहकलिलम्

अ.नपुं,द्वि.एक.

अविवेककालुष्यम्

व्यतितरिष्यति

वि.अति.√तॄतरणे–पर.कर्तरि,लृट्.प्रपु.एक.

अतिक्राम्यति

तदा

अव्ययम्

तस्मिन्समये

श्रोतव्यस्य

अ.नपुं.ष.एक.

श्रवणीयस्य

श्रुतस्य च

अ.नपुं.ष.एक.

श्रुतस्य च

निर्वेदम्

अ.पुं.द्वि.एक.

वैराग्यम्

गन्तासि

√गम्लृगतौ–कर्तरि,लुट्,मपु.एक.

गमिष्यसि।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

बुद्धिर्व्यतितरिष्यति = बुद्धिः + व्यतितरिष्यति वसर्गसन्धिः (रेफः)

समासः[सम्पादयतु]

मोहकलिलम् = मोहः एव कलिलम् - कर्मधारयः

कृदन्तः[सम्पादयतु]

श्रोतव्यस्य = श्रु + तव्यत् तस्य (कर्मणि)

श्रुतस्य = श्रु + क्त तस्य (कर्मणि)

अर्थः[सम्पादयतु]

तव बुद्धिः इदानीम् अविवेकरूपेण कालुष्येण युक्ता अस्ति । तेन तव आत्मानात्मविवेकः नष्टः अस्ति । यदा तव बुद्धिः तस्मात् कालुष्यात् मुक्ता भविष्यति, तदा अद्यावधि श्रुतेषु इतःपरं श्रवणीयेषु च कर्मफलेषु अवश्यं वैराग्यं प्राप्स्यसि ।

भावार्थः [१][सम्पादयतु]

'यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति' – शरीरे अहंकारः, ममता च मोहः अस्ति । तथा च शरीरसम्बन्धिषु पदार्थेषु, पारिवारिकसम्बन्धेषु च ममता अपि मोहः । अनुकूलानां पदार्थानां, घटनानां, व्यक्तीनां च प्राप्तौ प्रसन्नता । प्रतिकूलानां पदार्थानां, घटनानां, व्यक्तीनां च प्राप्तौ उद्विग्नता । यतो हि एतच्छरीरस्य अहङ्कारः, ममता च अज्ञानवशात् अनुभूयते । संसारे, परिवारे च विषमता, पक्षपातः, मात्सर्यम् इत्यादयः विकाराः 'कलिलम्' अर्थात् पङ्कः अस्ति । तस्मिन् मोहरूपिणि कलिले यदा बुद्धिः रता भवति, तदा मनुष्यः किङ्कर्तव्याकर्तव्यमूढः भवति । ततः आगमिमार्गं द्रष्टुं सः असमर्थः भवति । सः स्वयं चेतनः सन्नपि शरीरादिभिः जडवस्तुभिः सह सम्बन्धं मत्वा अहङ्कारं, ममतां च पालयति । परन्तु वस्तुतः सः मनुष्यः यैः पदार्थैः सह स्वसम्बन्धं चिन्तयति, तेषु पदार्थेषु अनित्येषु सत्स्वपि तैः सह सम्बन्धः न भवन्ति । परन्तु महोपाशे बद्धः सः मनुष्यः एतस्य विषये कदापि न चिन्तयति । तस्माद्विपरीतं सः अनेकविधैः सम्बन्धैः सह सँल्लग्नो भूत्वा संसारे बद्धो भवति । यथा कोऽपि यात्री स्वयात्रास्थानं विस्मृत्य मार्गे शिविरं संस्थाप्य तत्रैव क्रीडा, उपहास्यम् इत्यादिषु कार्येषु स्वसमयं नाशयति, तथैव मनुष्यः संसारस्य नाशवतां पदार्थानां सङ्ग्रहणे, तेषां सुखोपभोगे च स्वसमयं नाशयति । एवं जाते सति बुद्धिः मोहरूपिणि कलिले व्यतिसञ्जते (फँसना, implicate) । परिवारस्य, संसारस्य च ममतया मनुष्यः वस्तुतः उन्नतिं, कल्याणं च साधयितुं न शक्नोति । अतः यदा मनुष्यः तस्याः मायायाः स्वं मुक्तं करोति, तदा सः कलिलात् मुक्तः अभवत् इति उच्यते ।

मोहाख्यात् कलिलात् मुक्तेः द्वौ उपायौ स्तः । विवेकः, सेवा च [२] । विवेकः असद्विषयेभ्यः अरुचिम् उत्पादयति । सेवायाः भावना स्वसुखस्य त्यागाय शक्तिं जनयति । अपराय सुखस्य कामना यावती बलवती भविष्यति, तावती स्वसुखेच्छायाः त्यागः भविष्यति । यथा शिष्यस्य गुरुं प्रति, पुत्रस्य मातरं प्रति, सेवकस्य स्वामिनं प्रति च सुखं दानस्य इच्छायां सत्यां तेषां स्वेषां सुखं, दुःखं च ते विस्मरन्ति, तथैव कर्मयोगी संसारस्य सेवायां रतः सन् स्वसुखोपभोगं स्वतः एव विस्मरति ।

विवेकविचारैः स्वभोगेच्छायाः परिहाराय काचित् समस्या भवति । यतो हि विवेकविचारः यदि दृढः न भवति, तर्हि भोगस्याभावे एव लाभः भवति । यदा भोगस्य वस्तूनि सम्मुखं भवन्ति, तदा साधकः तानि दृष्ट्वा विचलितः (अविवेकः) भवति । परन्तु यस्मिन् सेवाभावः भवति, सः अत्यन्तोत्कृष्टभोगस्यापि अन्यस्य कृते त्यागं कर्तुं तत्परः भवति । एवं तस्य साधकस्य स्वसुखस्य इच्छा सहजतया दूरीभवति । अत एव भगवान् श्रीकृष्णः साङ्ख्ययोगापेक्षया कर्मयोगं श्रेष्ठं पर्यगणयत् [३] । भगवान् कर्मयोगमार्गं सुगमं [४], शीघ्रसिद्धिदातारम् [५] अपि अकथयत् ।

'तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च' – मनुष्यः यान् भोगान् श्रुतवान्, उपभुक्तवान्, अनुभूतवान् च, ते सर्वेऽपि भोगाः अत्र 'श्रुतस्य' इत्यस्मिन् पदे अन्तर्भवन्ति । स्वर्गलोकादयः ये केऽपि भोगाः श्रुताः सन्ति, ते सर्वेऽपि 'श्रोतव्यस्य' इत्यस्मिन् पदे अन्तर्भूताः । यदा साधकस्य बुद्धिः मोहरूपिणः कलिलात् मुक्ता भविष्यति, तदा 'श्रुतस्य' इहलोकस्य, 'श्रोतव्यस्य' परलोकस्य च भोगेभ्यः, विषयेभ्यश्च विरक्तः भविष्यति । अस्य तात्पर्यम् अस्ति यत्, बुद्धिः यदा मोहरूपिणः कलिलात् मुक्ता भवति, तदा बुद्धौ तीव्रः विवेकः जागर्ति । प्रतिक्षणं परिवर्तनशीलं संसारं पश्यामि इति भावं तीव्रः विवेकः साधके उत्पादयति । एवं 'श्रुतस्य', 'श्रोतस्य' इत्यतयोः सर्वेभ्यः भोगेभ्यः स्वतः एव वैराग्यभावः समुद्भवति ।

मर्मः[सम्पादयतु]

कश्चन कथयेत् यत्, अत्र भगवता श्रीकृष्णनेन 'श्रुतस्य', 'श्रोतव्यस्य' इत्येतयोः शब्दयोः स्थाने क्रमेण 'भुक्तस्य', 'भोक्तस्य' इत्येतयोः शब्दयोः उपयोगः करणीयः आसीत् इति । परन्तु संसारे परोक्षाणां, प्रत्यक्षाणां च विषयाणां यद् आकर्षणं भवति, तस्मिन् श्रवणम् एव मुख्यं कारणभूतं भवति । अतः अत्र भगवता श्रीकृष्णेन 'श्रुतस्य', 'श्रोतव्यस्य' इत्येतयोः शब्दयोः प्रयोगः कृतः ।

अत्र 'श्रु' धातुना सह 'ज्ञा' धातोः अर्थः अपि ग्रहणीयः । यतो हि साधकेन ये विषयाः श्रुताः, श्रोष्यन्ते च, तेषां विषयाणां सन्दर्भे अधुना साधकः यत् जानाति, ज्ञास्यति च तेभ्यः सर्वेभ्यः विषयेभ्यः वैराग्यः ज्ञातव्यः । यथा कश्चन साधकः आत्मज्ञानं प्राप्तुं दृढसङ्कल्पं करोति । तस्य कृते सः आजीवनं यस्य कस्यापि विषयस्य सेवनं कृतवान्, तेषां सर्वेषां विषयाणां त्यागम् अकरोत् । परन्तु ततः कश्चन आगत्य वदति यत्, आत्मज्ञानात् अपि किमपि विशेषं रसप्रदं, चित्ताकर्षकं, हृदयङ्गमं, हितकारि च अस्ति इति चेत्, तं ज्ञानं प्रति अपि वैराग्यः भविष्यति इत्यर्थः । अत्र 'श्रुतस्य', 'श्रोतव्यस्य' च पदयोः अर्थः शब्द-स्पर्श-रूप-रस-गन्धानां पञ्चानां विषयाणाम् अपि बोधं कारयति ।

यत्र ज्ञानमार्गस्य, भक्तिमार्गस्य च वर्णनं प्राप्यते, तत्र 'श्रवणं' मुख्यं साधनम् उक्तम् अस्ति । अत्र संसारिकविषयेभ्यः मुक्तेः कृते 'श्रवणत्यागः' मुख्यं साधनम् अस्ति । अनेन सिद्ध्यति यत्, संसारविषयेषु बन्धनाय, संसारविषयेभ्यः मुक्त्यै च 'श्रवणं' महत्त्वपूर्णम् अङ्गम् अस्ति इति ।

अत्र 'यदा', 'तदा' इत्येतयोः पदयोः तात्पर्यम् अस्ति यत्, 'श्रुतस्य', 'श्रोतव्यस्य' च विषयेभ्यः अमुकेषु वर्षेषु, अमुकेषु मासेषु च मुक्तिः भविष्यति इति कश्चन नियमः नास्ति । अर्थात् एतावत्सु दिनेषु वैराग्यः प्राप्यते इति नियमानुगुणं नास्ति । परन्तु यस्मिन् क्षणे बुद्धिः मोहरूपिणः कलिलात् मुक्ता भवति, तस्मात् क्षणादेव श्रुत-श्रोतव्ययोः भोगेभ्यः वैराग्यं भवति । तत्र विलम्बाय स्थानं न भवति ।

शाङ्करभाष्यम् [६][सम्पादयतु]

योगानुष्ठानजनितसत्त्वशुद्धिजा बुद्धिः कदा प्राप्स्यत इत्युच्यते-यदेति।

यदा  यस्मिन्काले  ते  तव  मोहकलिलं  मोहात्मकमविवेकरूपं कालुष्यं येन आत्मानात्मविवेकबोधं कलुषीकृत्य विषयं प्रत्यन्तःकरणं प्रवर्तते तत् तव  बुद्धिः व्यतितरिष्यति  व्यतिक्रमिष्यति अतिशुद्धभावमापत्स्यते इत्यर्थः।  तदा  तस्मिन् काले  गन्तासि  प्राप्स्यसि  निर्वेदं  वैराग्यं श्रोतव्यस्य श्रुतस्य च  तदा श्रोतव्यं श्रुतं च ते निष्फलं प्रतिभातीत्यभिप्रायः।।

भाष्यार्थः[सम्पादयतु]

योगानुष्ठानजनितायाः सत्त्वशुद्धेः उत्पन्ना बुद्धिः कदा प्राप्यते ? इत्यस्मिन् विषये कथयति यत् –

यदा तव बुद्धिः मोहरूपिणं कलिलम् अर्थात् येन आत्मानात्मयोः विवेकविज्ञानं कलुषितं कृत्वा अन्तःकरणं विषयेषु प्रवृत्तं भवति, तस्मात् अविवेकरूपिणः कलिलात् तव बुद्धिः शुद्धा भविष्यति, तदा तस्मिन् समये (अविलम्बं) त्वं श्रुतात्, श्रोतव्यात् च वैराग्यं प्राप्स्यसि । अर्थात् तदा श्रोतव्याः, श्रुताः च विषयाः तुभ्यं निष्फलाः भविष्यन्ति इत्यभिप्रायः ।

रामानुजभाष्यम् [७][सम्पादयतु]

उक्तप्रकारेण कर्मणि वर्तमानस्य तया वृत्त्या निर्धूतकल्मषस्य  ते बुद्धिः यदा मोहकलिलम्  अत्यल्पफलसङ्गहेतुभूतं मोहरूपं कलुषं  व्यतितरिष्यति।  तदा अस्मत्त इतः पूर्वं त्याज्यतया श्रुतस्य फलादेः इतः पश्चात्  श्रोतव्यस्य  च कृते स्वयम् एव निर्वेदं गन्तासि गमिष्यसि।

भाष्यार्थः[सम्पादयतु]

उक्ततया कर्मणः आचरणं कुर्वन् यदा तेन आचरणेन पापरहितत्वं सिद्ध्यति, तदा तव बुद्धिः मोहकलिलाद् विमुक्ता भविष्यति । अर्थाद् यदा अत्यन्ताल्पफलासक्त्याः हेतुभूतं मोहरूपकलिलं सहसा लङ्घयिष्यसि, तदा पुरा श्रुतानां त्यागरूपकर्मणां, भविष्यत्काले ज्ञायमानानां त्यागरूपकर्मणां च फलादिभ्यः त्वं स्वयमेव विरक्तः भविष्यसि ।

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
कर्मजं बुद्धियुक्ता हि
यदा ते मोहकलिलं... अग्रिमः
श्रुतिविप्रतिपन्ना ते
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीता, अ. २, श्लो. ११-३०
  3. गीता, अ. ५, श्लो. २
  4. गीता, अ. ५, श्लो. ३
  5. गीता, अ. ५, श्लो. ६
  6. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  7. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यदा_ते_मोहकलिलं...&oldid=427338" इत्यस्माद् प्रतिप्राप्तम्