यदा संहरते चायं...

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(२.५८ यदा संहरते चायम्… इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
यदा संहरते चायं...


कर्मयोगानुष्ठानस्य आज्ञा
Avatars of Vishnu.jpg
श्लोकसङ्ख्या २/५८
श्लोकच्छन्दः अनुष्टुप्छन्दः
पूर्वश्लोकः यः सर्वत्रानभिस्नेहः
अग्रिमश्लोकः विषया विनिवर्तन्ते

यदा संहरते चायं () इत्यनेन श्लोकेन भगवान् श्रीकृष्णः अर्जुनस्य तृतीयस्य प्रश्नस्य उत्तरं ददाति । "किमासीत" इति अर्जुनस्य तृतीयः प्रश्नः आसीत् । तस्य उत्तरं ददत् अत्र भगवान् श्रीकृष्णः कच्छपस्य उदाहरणेन इन्द्रियनिग्रहरीतिं वदति ।

श्लोकः[सम्पादयतु]

गीतोपदेशः
यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः ।
इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ॥ ५८ ॥

पदच्छेदः[सम्पादयतु]

यदा, संहरते, च, अयम्, कूर्मः, अङ्गानि, इव, सर्वशः । इन्द्रियाणि, इन्द्रियार्थेभ्यः, तस्य, प्रज्ञा, प्रतिष्ठिता ॥

अन्वयः[सम्पादयतु]

यदा अयं कूर्मः अङ्गानि इव सर्वशः इन्द्रियाणि इन्द्रियार्थेभ्यः संहरते तस्य प्रज्ञा प्रतिष्ठिता (भवति) ।

शब्दार्थः[सम्पादयतु]

अन्वयः विवरणम् सरलसंस्कृतम्
अव्ययम्
यदा अव्ययम् यस्मिन् समये
अयम् इदम्-म.सर्व.पुं.प्र.एक. एषः
कूर्मः अ.पु.प्र.एक. कच्छपः
अङ्गानि अ.नपुं.प्र.बहु. अवयवान्
इव अव्ययम् इव
सर्वशः अव्ययम् सर्वथा
इन्द्रियाणि अ.नुपुं.प्र.बहु. नेत्रादीनि
इन्द्रियार्थेभ्यः अ.पुं.पं.बहु. विषयेभ्यः
संहरते सम्+हृञ् हरणे-आत्म.कर्तरि, लट्.प्रपु.एक प्रत्यावर्तयति
तस्य तद्-द.सर्व.पुं.ष.एक. तस्य पुरुषस्य
प्रज्ञा आ.स्त्री.प्र.एक. बुद्धिः
प्रतिष्ठिता आ.स्त्री.प्र.एक. अतिस्थिरा ।

व्याकरणम्[सम्पादयतु]

सन्धिः[सम्पादयतु]

  1. चार्यम् = च + अयम् सवर्णदीर्घसन्धिः
  2. कूर्मोऽङ्गानि = कूर्मः + अङ्गानि – विसर्गसन्धिः (सकारः) रेफः उकारः गुणः पूर्वरूपं च
  3. अङ्गानीव = अङ्गानि + इव – सवर्णदीर्घसन्धिः
  4. इन्द्रियाणीन्द्रियार्थेभ्यः = इन्द्रियाणि + इन्द्रियार्थेभ्यः – सवर्णदीर्घसन्धिः
  5. इन्द्रियार्थेभ्यस्तस्य = इन्द्रियार्थेभ्यः + तस्य – विसर्गसन्धिः (सकारः)

समासः[सम्पादयतु]

इन्द्रियार्थेभ्यः = इन्द्रायाणां अर्थाः, तेभ्यः - षष्ठीतत्पुरुषः

अर्थः[सम्पादयतु]

इन्द्रियाणि सर्वदापि शब्दादिषु विषयेषु प्रवृत्तानि भवन्ति । कूर्मः यथा भयात् स्वानि अङ्गानि सङ्कोचयति, तथा यदा अयं ज्ञाननिष्छायां प्रवृत्तः जनः सर्वाणि इन्द्रियाणि शब्दादिभ्यः सङ्कोचयति, तदा तस्य प्रज्ञा प्रतिष्ठिता भवति । स च स्थितप्रज्ञो भवति ।

भावार्थः [१][सम्पादयतु]

'यदा संहरते' – अत्र कच्छपस्य दृष्टान्तदानस्य तात्पर्यम् अस्ति यत्, यदा कच्छपः चलति, तदा तस्य षडङ्गानि दृश्यन्ते । तानि अङ्गानि – चत्वारः पादाः, एकं पुच्छम्, एकं मस्तकं च दृश्यते । परन्तु यदा सः स्वाङ्गानि सङ्कुचयति, तदा केवलं पृष्ठमेव दृश्यते । तथैव स्थितप्रज्ञः पञ्चेन्द्रियाणि, मनः इत्येतानि षडेन्द्रियाणि विषयेभ्यः विच्छेदयति । यदि इन्द्रियैः सह तस्य किञ्चिदपि सम्बन्धः अवशिष्यते, तर्हि सः स्थितप्रज्ञो भवितुं न प्रभवति ।

'च' – एतस्मिन् श्लोके 'च' अग्रिमेण श्लोकेन सह सम्बन्धं बोधयति । अत्र ज्ञानी स्वमनः, इन्द्रियाणि च कथं सञ्चालयति, नियन्त्रयति च इत्यस्य चर्चा अस्ति । ज्ञानिनि कदाचित् ज्ञानं स्यात् । परन्तु ज्ञाननिष्ठायै इन्द्रियाणां विषयेभ्यः इच्छापूर्वकः विच्छेदः तस्य ज्ञानिनः सामर्थ्यस्य बोधं कारयति । इन्द्रियाणि स्वयं हानिकर्तॄणि न । तथापि शास्त्रैः, आचार्यैः च तानि खलत्वेन, दुष्टत्वेन उल्लिखितानि । उदा. अहं तु योग्यः अस्मि, परन्तु मे इन्द्रियाणि मां भ्रामयन्ति इति । अर्थात् मम अक्षिणी एव माम् अदर्शनीयं दर्शयतः, मे कर्णौ एव माम् अश्रवणीयं श्रावयतः इत्यादि । मम इन्द्रियाणि प्रमाथीनि सन्ति । तानि एव मनसि अशान्तिं जनयन्ति । वस्तुतः इन्द्रियाणि दोषयुक्तानि न । इन्द्रियाणि तु केवलं सूचनाः एकत्र कुर्वन्ति (Reporters) सन्ति । तानि तु केवलं सत्यताम् उपस्थापयन्ति । तानि मनसे किमपि आदेशं ददन्ति न भवन्ति । इन्द्रियाणि अशान्तानि, प्रश्रुब्धानि च भवन्ति इति तेषां स्वभावः, कार्यं च ।

अतः आत्मज्ञानेच्छुकः इच्छापूर्वकं स्वेन्द्रियाणि क्रोडीकुर्यात् इति तस्य सामर्थ्यस्य, पात्रतायाः च प्रमाणं, प्रतीकं च भवति । यदा मनुष्यः स्वाभिरुचीनां त्यागस्य सामर्थ्यं प्राप्नोति अथवा नियन्त्रयितुं शक्नोति, तदा तस्य ज्ञानं दृढं भवति । ततः सः पुरुषः आवश्यकतानुसारमेव कार्यं करोति, न तु अभिरुचिभिः प्रेरितः सः इतस्ततः भ्रमति ।

मर्मः [२][सम्पादयतु]

अत्र 'संहरते' इत्यस्य क्रियापदस्य तात्पर्यम् अस्ति यत्, स्थितप्रज्ञः विषयेभ्यः इन्द्रियाणाम् उपसंहारं करोति । सः मनसा अपि विषयाणां चिन्तनं न करोति इति । एतस्मिन् श्लोके 'यदा' पदम् अस्ति, परन्तु 'तदा' पदं नास्ति । एवं तु "यत्तदोर्नित्यसम्बन्धः" इति न्यायानुसारं 'यदा' उक्ते सति 'तदा' इत्यस्य बोधः स्वयमेव भवति । परन्तु अस्य गहनं तात्पर्यम् अपि अस्ति यत्, इन्द्रियाणां विषयेभ्यः सर्वदा विच्छेदे सति स्वतःसिद्धतत्त्वस्य यः अनुभवः भवति, सः कालाधीनः न भवति । यतो हि सः अनुभवः क्रियायाः उत त्यागस्य च फलं न भवति । सः अनुभवः उत्पद्यमानः न भवति । अतः अत्र कालवाचकस्य 'तदा' इत्यस्य पदस्य आवश्यकता न भवति । 'तदा' इत्यस्य शब्दस्य आवश्यकता तत्र भवति, यत्र किमपि फलम् अन्यस्य वस्तुनः, क्रियायाः वा आधीन्ये स्यात् । आकाशे सूर्ये सत्यपि अक्ष्णोः पिहितयोः सूर्यः न दृश्यते, ततः अक्ष्णोः उद्घाटितयोः सत्योः सूर्यः दृश्यते । अत्र सूर्याक्षिणोः कार्यकारणसम्बन्धः नास्ति । अर्थात् अक्ष्णोः उद्घाटिते सति सूर्यः न जायते । सूर्यः तु पूर्वस्मादेव तथैव स्थितः अस्ति । अक्ष्णोः निमेलात् प्रागपि सूर्यः तथैव आसीच्च । अक्ष्णोः निमिलनत्वात् सूर्यस्य अनुभवः न भवति स्म तावदेव । तथैव इन्द्रियाणां विषयेभ्यः विच्छेदे स्वतःसिद्धस्य परमात्मनः यः अनुभवः जायते, सः अनुभवः मनस्सहितानाम् इन्द्रयाणां विषयः न भवति । अस्य तात्पर्यम् अस्ति यत्, स्वतःसिद्धतत्त्वस्य विषयैः सह सम्बन्धे सत्यपि तत् स्वतःसिद्धतत्त्वं निर्विकारि भवति । परन्तु विषयैः सह सम्बन्धरूपिणे आवरणे सति तस्य स्वतःसिद्धतत्त्वस्य अनुभवः न भवति । ततः आवरणे अपाकृते सति तस्य स्वतःसिद्धतत्त्वस्य अनुवभः जायते इति ।

अत्र ज्ञातव्यं यत्, अधुना स्थितप्रज्ञस्य लक्षणानां चर्चा जायमाना अस्ति । अन्यथा या कापि व्यक्तिः संयमिनी अस्ति, सा ज्ञानिनी अस्ति इति वक्तुं शक्नुमः । परन्तु तथा नास्ति । अतः भगवान् अग्रिमे श्लोके विशेषस्पष्टतां करोति । अत्र तु स्थितप्रज्ञस्य लक्षणानां चर्चा अस्ति । तस्य स्थितप्रज्ञस्य मुख्यं लक्षणम् अस्ति यत्, सः स्वेच्छानुसारं विषयेभ्यः इन्द्रियाणां विच्छेदं कर्तुं समर्थः भवति इति ।

शाङ्करभाष्यम् [३][सम्पादयतु]

किं च - यदा संहरत इति ।

यदा संहरते  सम्यगुपसंहरते  च अयं  ज्ञाननिष्ठायां प्रवृत्तो यतिः  कूर्मः अङ्गानि  इव यथा कूर्मः भयात् स्वान्यङ्गानि उपसंहरति  सर्वशः  सर्वतः एवं ज्ञाननिष्ठः  इन्द्रियाणि इन्द्रियार्थेभ्यः  सर्वविषयेभ्यः उपसंहरते।  तस्य प्रज्ञा प्रतिष्ठिता  इत्युक्तार्थं वाक्यम्।।

भाष्यार्थः[सम्पादयतु]

यदा ज्ञाननिष्ठायां स्थितः सः संन्यासी कच्छपस्य अङ्गवत् अर्थात् भयकारणं दृष्ट्वा कच्छपः यथा सर्वाणि अङ्गानि सङ्कोचयति, तथैव सम्पूर्णविषयेभ्यः इन्द्रियाणि विच्छिनत्ति, तदा तस्य बुद्धिः प्रतिष्ठिता भवति । एतस्य वाक्यस्य अर्थः पूर्वमपि उक्तः अस्ति ।

रामानुजभाष्यम् [४][सम्पादयतु]

ततः अर्वाचीनदशा प्रोच्यते -

यदा इन्द्रियाणि  इन्द्रियार्थान् स्प्रष्टुम् उद्युक्तानि तदा एव कूर्मः  अङ्गानि इव इन्द्रियार्थेभ्यः सर्वशः  प्रतिसंहृत्य मन आत्मनि एव स्थापयति सोऽपि स्थितप्रज्ञः।

भाष्यार्थः[सम्पादयतु]

आत्मतत्त्वप्राप्तेः पूर्वस्थितायाः अर्वाचीनस्थितेः, प्रार्वाचीनस्थितेः च वर्णनं कृत्वा अत्र प्रार्वाचीनस्थितेः वर्णनं करोति –यदा इन्द्रियाणि इन्द्रियविषयणाम् उपभोगे उद्यतानि भवन्ति, तस्मिन् एव समये कच्छपः यथा सङ्कटस्थितिं दृष्ट्वा स्वाङ्गानि सङ्कोचयति, तथैव यः इन्द्रियाणां विषयेभ्यः मनः सर्वथा निधाय केवलम् आत्मनि एव स्थापयति, सः अपि स्थितप्रज्ञः ।

श्रीमद्भगवद्गीतायाः श्लोकाः
Orange animated left arrow.gif पूर्वतनः
यः सर्वत्रानभिस्नेहः
यदा संहरते चायं... अग्रिमः
विषया विनिवर्तन्ते
Orange animated right arrow.gif
साङ्ख्ययोगः

१) तं तथा कृपयाविष्टम्... २) कुतस्त्वा कश्मलमिदं... ३) क्लैब्यं मा स्म गमः पार्थ... ४) कथं भीष्ममहं सङ्ख्ये... ५) गुरूनहत्वा हि महानुभावान्... ६) न चैतद्विद्मः कतरन्नो गरीयो... ७) कार्पण्यदोषोपहतस्वभावः... ८) नहि प्रपश्यामि ममापनुद्याद्... ९) एवमुक्त्वा हृषीकेशं... १०) तमुवाच हृषीकेशः... ११) अशोच्यानन्वशोचस्त्वं... १२) न त्वेवाहं जातु नासं... १३) देहिनोऽस्मिन्यथा देहे... १४) मात्रास्पर्शास्तु कौन्तेय... १५) यं हि न व्यथयन्त्येते... १६) नासतो विद्यते भावो... १७) अविनाशि तु तद्विद्धि... १८) अन्तवन्त इमे देहा... १९) य एनं वेत्ति हन्तारं... २०) न जायते म्रियते वा कदाचिन्... २१) वेदाविनाशिनं नित्यं... २२) वासांसि जीर्णानि यथा विहाय... २३) नैनं छिन्दन्ति शस्त्राणि... २४) अच्छेद्योऽयमदाह्योऽयम्... २५) अव्यक्तोऽयमचिन्त्योऽयम्... २६) अथ चैनं नित्यजातं... २७) जातस्य हि ध्रुवो मृत्युः... २८) अव्यक्तादीनि भूतानि... २९) आश्चर्यवत्पश्यति कश्चिदेनम्... ३०) देही नित्यमवध्योऽयं... ३१) स्वधर्ममपि चावेक्ष्य... ३२) यदृच्छया चोपपन्नं... ३३) अथ चेत्त्वमिमं धर्म्यं... ३४) अकीर्तिं चापि भूतानि... ३५) भयाद्रणादुपरतं... ३६) अवाच्यवादांश्च बहून्... ३७) हतो वा प्राप्स्यसि स्वर्गं... ३८) सुखदुःखे समे कृत्वा... ३९) एषा तेऽभिहिता साङ्ख्ये... ४०) नेहाभिक्रमनाशोऽस्ति... ४१) व्यवसायात्मिका बुद्धिः... ४२) यामिमां पुष्पितां वाचं… ४३) कामात्मानः स्वर्गपरा… ४४) भोगैश्वर्यप्रसक्तानां... ४५) त्रैगुण्यविषया वेदा... ४६) यावानर्थ उदपाने... ४७) कर्मण्येवाधिकारस्ते... ४८) योगस्थः कुरु कर्माणि... ४९) दूरेण ह्यवरं कर्म... ५०) बुद्धियुक्तो जहातीह... ५१) कर्मजं बुद्धियुक्ता हि... ५२) यदा ते मोहकलिलं... ५३) श्रुतिविप्रतिपन्ना ते... ५४) स्थितप्रज्ञस्य का भाषा... ५५) प्रजहाति यदा कामान्... ५६) दुःखेष्वनुद्विग्नमनाः... ५७) यः सर्वत्रानभिस्नेहः... ५८) यदा संहरते चायं... ५९) विषया विनिवर्तन्ते... ६०) यततो ह्यपि कौन्तेय... ६१) तानि सर्वाणि संयम्य... ६२) ध्यायतो विषयान्पुंसः... ६३) क्रोधाद्भवति सम्मोहः... ६४) रागद्वेषवियुक्तैस्तु... ६५) प्रसादे सर्वदुःखानां... ६६) नास्ति बुद्धिरयुक्तस्य... ६७) इन्द्रियाणां हि चरतां... ६८) तस्माद्यस्य महाबाहो... ६९) या निशा सर्वभूतानां... ७०) आपूर्यमाणमचल... ७१) विहाय कामान्यः सर्वान्... ७२) एषा ब्राह्मी स्थितिः पार्थ...


सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. श्रीमद्भगवद्गीता, साधनकसञ्जीवनी, गीताप्रेस, गोरखपुर, संस्करणम् - ८
  2. गीतासाधकमञ्जरी, गीताप्रेस गोरखपुरम्, स्वामी रामसुखदासः
  3. श्रीमद्भगवद्गीता, शाङ्करभाष्य हिन्दी अनुवाद सहित, अनुवादकः - श्रीहरिकृष्णदास गोयन्दका, प्रकाशकः - गीताप्रेस, गोरखपुर, संस्करणम् - २५, ISBN - 81-293-0101-6
  4. रामानुजभाष्यम्

अधिकवाचनाय[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=यदा_संहरते_चायं...&oldid=403636" इत्यस्माद् पुनः प्राप्तिः